०९१ हृत्पद्ममध्यध्यानम्

अथ एकनवतितमः पटलः हृत्पद्मस्थ भगवद्ध्यानविधिः अथ कन्दादुत्थितं द्वादशाङ्गुलं सुज्ञाननालम् अणिमामहिमालघिमागरिमाप्राप्तिः प्राकाम्यमीशत्वं वशित्वमित्यष्टैश्वर्यदलोपेतं प्रकृत्यात्मिककर्णिकं विद्याकेसरसंयुक्तम् अधोमुखं हृदयकमलं प्राणायामैर्विकसितम् ऊर्ध्वमुखं भवति। तस्यान्तः कर्णिकामध्ये महानग्निर्ज्वलन् विश्वार्चिर्विश्वतोमुखः आपादतलमस्तकं सन्तापयति। तन्मध्ये पीताभा नीवारशूकवत्तन्वी वह्निशिखा तस्याः शिखायामध्ये प्रज्वलितज्योति रूपमेव स्वसङ्कल्पेन तप्तजाम्बूनदप्रभः पीताम्बरधरः पद्माक्षः रक्तास्यपाणिपादश्चतुर्भुजश्चक्रशङ्खधरोऽभयकट्यवलम्बितहस्तः श्रीवत्साङ्कः सुप्रसन्नः शुचिस्मितः सर्वाभरणभूषितः हृदिस्थितः परमात्मा। दक्षिणवामयो (श्रीभूमिभ्यां)र्विभूतिमायाभ्यां परिषत्कैस्सह संस्थितः ’नीवारशूकवत्तन्वी पीताभास्यात्तनूपमा तस्याश्शिखायामध्ये परमात्मा व्यवस्थितः’े। इति श्रुतिः तं विष्णुं जिज्ञासुः ध्यानयोगेन ज्ञानचक्षुषा पश्येत्।

[[३८१]] ’सदा पश्यन्ति सूरय’इति श्रुतिः। विश्वव्यापिनं विष्णुं ध्यानमथनेनाऽऽविर्भूतं तेजोभासुरं भक्त्या सकलं सङ्कल्प्य; आवाह्य अभ्यर्चयेदिति। ’’प्रवः पान्थमन्धसोधियायते महेशूराय विष्णवे चार्चत’’ इति श्रुतिः। तस्माद्विष्ण्वर्चनमेव द्विजैरहरहः कर्तव्यमिति विज्ञायते।

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे हृत्पद्ममध्यध्यानं नाम एकनवतितमः पटलः ॥ ९१ ॥ (मातृकान्तरे पटलसमाप्तिर्नास्ति)