अथ नवतितमः पटलः
देहलक्षणम्
अथातो देहलक्षणं वक्ष्ये।
स्वाङ्गुलीभिः षण्णवत्यङ्गुलो देहः। तद्द्वादशाङ्गुलाधिकः (कप्रमाणः) प्राणः प्राणायामेन समो भवति। (वह्निमण्डलम्, तत्पुरुषः,) (गुदादारभ्यद्व्यङ्गुलादूर्ध्वं मेढ्रं मेढ्रात्तद्व्यङ्गुलाधस्तान्मध्येकाङ्गुलं देहः) गुदात् द्व्यङ्गुलादूर्ध्वं देहमध्यम्। तस्मिन् हेमाभं त्रिकोणं वह्निमण्डलम्। तन्मध्ये बिन्दुनादेन सह रेफबीजं ज्वलति तन्मध्ये मण्डल पुरुषो यज्ञमूर्तिः पिङ्गलाभः द्विशीर्षः चतुः श्रृङ्गः षण्णेत्रः सप्तहस्तो दक्षिणे अभयस्रक्शक्तिखड्गयुतः वामे वरदस्रुक्खेटयुतः, त्रिपादः, पीताम्बरधरः (श्रीवत्साङ्कः) किरीटकेयूरहारादिसर्वाभरणयुक्तः। दक्षिणवामयोः स्वाहास्वधाभ्यां सहितः, सर्वदेवैः परिवृतः स्थितः।
[[३७९]] नाभिः तत्र द्वादशारचक्रं, तत्र जीवः तदूर्ध्वे नवाङ्गुलं कन्दस्थानम्। चतुरङ्गुलोत्सेधायामं, त्वगादिसप्तधातुभिर्भूषितं, (म) अण्डाकृतिकं, कन्दमध्ये नाभिः नाभौ (नाभेः) द्वादशारयुतं चक्रं, तत्र चक्रे पुण्यपापप्रचोदितस्तन्तुपञ्जरमध्यस्थो लूतिक इव प्राणारूढः प्रवर्तते (भ्रमति) जीवः।
नाभेरूर्ध्वं कुण्डलिनी शक्तिः तस्योर्ध्वे नाभौ(भेः) तिर्यग्गता अधऊर्ध्वे गता अष्टप्रकृतिरष्टधा कुटिला नागरूपा विद्यामु(द्युन्मु)खेन मूत्र(ऊर्ध्व)द्वारं संरुध्य, कन्दपार्श्वे स्थिता कुण्डलीभूता सर्पफणामणिमण्डलश्रियमुपेयुषी कुण्डलिनीशक्तिः आत्मनः फणेन ब्रह्मरुद्राख्यं सुषुम्नानाडीरन्ध्रमुपगूह्य तिष्ठति।
हृदयं तत्र सूर्यमण्डलं तत्र मूर्तिः नाभ्या उपरि वितस्त्या हृदयं तत्र सर्वं प्रतिष्ठितम्। हृदये अर्कबिम्बं तस्मिन् सकारबीजान्वितं सहस्रज्वालायुतं ज्योतिर्ज्वलति। तन्मध्ये मण्डलपुरुषो विष्णुमूर्तिः तरुणादित्यसङ्काशो हेममयो हिरण्यश्मश्रुकेशनखयुतः पीताम्बरधरः श्रीवत्साङ्कः चतुर्भुजः शङ्खचक्रधरः अभय कट्यवलम्बितहस्तः रक्तास्यनेत्रपाणिपादः सौम्यः सुप्रसन्नमुखः किरीटकेयूरहारकटिप्रलम्बयज्ञोपवीतादिसर्वाभरणभूषितः सृष्टिस्थित्यन्तकारणः देवीभ्यां पारिषत्कैः सहितः स्थितः।
नासाग्रे चन्द्रमण्डलं तत्र मूर्तिः तदूर्ध्वे नासाग्रे शुद्धस्फटिकसङ्काशं चन्द्रबिम्बम्। तस्मिन् ऋकारबीजान्वितम्, अमृतं स्रवन्तं श्वेतरोचिषं ध्यात्वा; तन्मध्ये मण्डलपुरुषो नारायणमूर्तिः शुद्धस्फटिकसङ्काशः पीताम्बरधरः श्रीवत्साङ्कश्चतुर्भुजः शङ्खचक्रधरः अभयकट्यवलम्बितहस्तः पद्मोदर दलाभनेत्रो रक्तास्यपाणिपादः किरीटकेयूरहारादि सर्वाभरणभूषितः।
नवतितमः पटलः [[३८०]] मूर्धनि मुक्तिद्वारं स्मेरमुखः देवीभ्यां परिषत्कैस्सहितः स्थितः तस्योपरि मूर्ध्नि सुषुम्नाया अग्रे मुक्तिद्वारम्। तस्मिन् शिरः पद्मम् अधोमुखमूर्ध्वमूलं षोडशदलयुतं तस्मिन् स्थितम् अमृतधाराभिस्सहस्राभिराप्लाव्यमानं मण्डलपुरुषवासुदेवं ध्यायेदिति विज्ञायते।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे देहलक्षणं नाम नवतितमः पटलः ॥ ९० ॥ (मातृकान्तरे ८४)