०८९ भूरादितत्त्वप्रकाशः

अथ एकोननवतितमः पटलः पृथिव्यादिमहाभूतानां समवायः अथातः पृथिव्यादिमहाभूतानां समवायं व्याख्यास्यामः।

शरीरे काठिन्याद्युपपादनम्, इन्द्रियोत्पत्तिः तद्विषयः शरीरे यत्कठिनं तत् पृथिव्याः, यो द्रवः सो अम्भसः, यदुष्णं तत्तेजसः, यत्सञ्चरति सोऽनिलस्य, यत्सुषिरं तदाकाशस्य, (शात्) श्रोत्रादीनि ज्ञानेन्द्रियाणि। श्रोत्रमाकाशे वायौ(योः) स्पर्शः, अग्नेश्चक्षु (अद्भ्यः) अप्सु जिह्वा, पृथिव्यां (व्याः) घ्राणम्। एवमिन्द्रियाणां यथाक्रमेण शब्दस्पर्शरूपरसगन्धा विषयाः वाक्पाणिपादपायूपस्थानि महाभूतेषूत्पन्नानि कर्मेन्द्रियाणि।

तेषां क्रमेण वचनाऽऽदानगमनविसर्गाऽऽनन्दाश्च विषयाः।

[[३७७]]

बुद्ध्यादीनामुत्पत्तिविषयस्थानानि

चतुर्षु पृथिव्यादिमहाभूतेषु क्रमेणोत्पन्नानि मनोबुद्ध्यहङ्कारचित्तानीत्यन्तः करणचतुष्टयम्। तेषां क्रमेण सङ्कल्पविकल्पाऽध्यवसायानात्मन्यात्मावबोधनम्, अनुभूतार्थस्मरणानि च विषयाः। मनःस्थानं गलान्तरम् बुद्धेर्वदनम्, अहङ्कारस्य हृदयम्, चित्तस्य नाभिरिति।

अस्थिपादादीनां पृथिव्याद्यंशत्वम् अस्थिचर्मरोमनाडीमांसाश्च पृथिव्यंशाः, मूत्रश्लेष्मरक्तशुक्लमेदस्वेदाश्च अबंशाः, क्षुत्तृष्णानिद्रालस्य मोहमैथुनानि अग्न्यंशानि, प्रचरणविलेखनोन्मीलनिमीलनादीनि वाय्वंशानि, कामक्रोधलोभमोहभयान्याकाशस्य।

शब्दादीनां पृथिव्यादिगुणत्वं शब्दस्पर्शरूपरसगन्धाश्चैते पृथिवीगुणाः, तेषां गन्धविहीनाश्चत्वारः अपां गुणाः, गन्धरसविहीनास्त्रयः अग्निगुणाः, शब्दः स्पर्श इति द्वौ वायोर्गुणौ, शब्दमेकमेवाकाशस्य गुणः।

सात्विकगुणाः तेषां कार्यं च सात्विक राजस तामसा इति त्रयो गुणाः। अहिंसासत्यास्तेय ब्रह्मचर्यकल्पनाऽक्रोधगुरुशुश्रूषा शौच सन्तोषाऽऽस्तिक्याऽऽर्जवा इति सात्विकलक्षणानि। अहं कर्ता अहं वक्ता अहं भोक्तेत्यादीनि अभिमानगुणानि राजसलक्षणानि। निद्राऽऽलस्य मोह मैथुन स्तेयकर्माणि तामसलक्षणानि।

सात्विकादीनां स्थानं तत्स्वरूपं च ऊर्ध्वे सात्विकाः, मध्ये राजसाः, अधस्तात्तमसा इति। सम्यक् ज्ञानं सात्विकं, धर्मज्ञानं राजसं, तिमिरोऽन्धं तामसमिति।

एकोननवतितमः पटलः [[३७८]] जाग्रदाद्यवस्था भेदः जाग्रत्स्वप्नसुषुप्तितुर्यमिति चतुर्विधावस्था। ज्ञानेन्द्रिय कर्मेन्द्रियाऽन्तःकरण चतुष्टय चतुर्दश करणयुतं जाग्रत्। अन्तःकरण चतुष्टययुक्तं स्वप्नं, चित्तैककरणयुता सुषुप्तिः। केवलजीवयुक्तमेव तुर्यमिति। (उन्मीलितजीवमध्यस्थ) परमात्मजीवात्मनोर्मध्ये जीवात्मा क्षेत्रज्ञ इति विज्ञायते। सोऽपि पञ्चमहाभूताः देहेन्द्रियभूतगुणाः करणचतुष्टयानि इत्येते पञ्चविंशात्मकः पुरुषः तस्मात्पञ्चविंशात्मको देह इति विज्ञायते।

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे भूरादितत्त्वप्रकाशो नाम एकोननवतितमः पटलः ॥ ८९ ॥ (मातृकान्तरे ८३)