०८८ देहोत्पत्तिविधिः

अथ अष्टाशीतितमः पटलः

देहोत्पत्तिप्रकारः

ओषधीभ्योऽन्नमुपजायते, तदन्नं त्रिविधं भवति, एकं मूत्रम्, एकं पुरीषम्, एकं पुरुषाणां शुक्लं, स्त्रीणां शोणितं, शुक्लशोणिते (तयो) क्षीरे सर्पिरिव सर्वव्यापिनी मायाशक्तिर्भवति। पुरुषबीज मूलसञ्चितं शुक्लं, स्त्रीकुचमूलसञ्चितं शोणितं च, संयोगकाले दैवयोगेन वायुना गर्भालयं प्रविशति।

गर्भस्य वृद्धिक्रमः तत्रैकरात्रोषितं कलिलं, द्विरात्रोषितं बुद्बुदं, त्रिरात्रोषितं मांसलं, चतूरात्रोषितं पेशलं, पञ्चरात्रोषितं घनं, षड्रात्रोषितं व्यूहं, सप्तरात्रोषितं बन्धम्, अष्टरात्रोषितं सुकुमारं, नवरात्रोषितं यावनं, दशरात्रोषितं वयसम् अर्धमासे अ(पि)ण्डाकृतिः, मासे शरीराकृतिः मासद्वये शिरोबाहुप्रदेशाः, त्रिमासे जठरकटिदेशाः, चतुर्थे मासे पाणिपादद्वयं, पञ्चमे मासे रोमरूपाणि, अष्टाशीतितमः पटलः [[३७६]] षष्टे मासे अस्थिसङ्घातं, सप्तमे मासे जीवप्रकाशः अष्टमे मासे (देहः) देहं करोति नवमे मासे प्रचलनं करोति तत ऊर्ध्वं जायते। स्नायुमज्जास्थीनि रेतोमयानि त्वग्रक्तमांसानि शोणितमयानि, एवं षट्कोशविकृततत्त्वग्रुधिरमांसमेदोऽस्थिमज्जाशुक्लमिति क्रमेणाऽन्तर्भूतानि (एकांशीभूतानि) सप्तधातूनि।

सप्तधातुमयं गात्रं भवति।

पुरुषत्वादिनिमित्तम्

शुक्लाधिके पुरुषः शोणिताधिके स्त्री, द्वयोस्तुल्ये नपुंसकं भवति।

पुंसो वा स्त्रियो वा परस्परभावेन तयोरेको गर्भस्य वर्ण इति विज्ञायते।

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे देहोत्पत्तिविधिर्नाम अष्टाशीतितमः पटलः ॥ ८८ ॥ (मातृकान्तरे - ८२)