०८७ वैकुण्ठलक्षणम्

अथ सप्ताशीतितमः पटलः वैकुण्ठस्वरूपवर्णनं तत्र प्रमोदादिभेदः तेषु विद्यमानभगवद्रूपाणि अथातः परमात्मनस्सकाशाद्धिरण्मयमण्डमभवत्, तदन्तर्गतानां सर्वेषामण्डानामुपरि सनातन(नं नित्य)मचिन्त्यं देवैरप्यनभिलक्ष्यं नित्यशुद्ध(बुद्धि) मुक्तस्वभाव पुरुषैरनुभूयमानं वैष्णवाण्डं, तत्र-विष्णुलोकाश्चत्वारः, आमोदः सम्मोदः प्रमोदः वैकुण्ठमिति। एकैकस्योपरि यथाक्रमेण भवति। तस्मिन् हेममयप्राकार (चतुद्वरि) गोपुरतोरण शतसहस्रैः कनककमलकुसुमादिभिरपि अलङ्कृते, अमृतजलपूर्णैश्शतसहस्रैश्च सरितां प्रभासमाने दिव्ये लोके सहस्रादित्यसङ्काशं हेममयं द्वादशतलैर्युतविमानं, नित्यज्ञानक्रियैश्वर्यब्रह्मादिदेव ऋषिभिः नित्य(दिव्य) परिजनैर्युतं मन्दिरम्। तस्मिन् व्योमनिलये परमात्मा स्वसङ्कल्पेन देवीभूषणायुधैः सह आमोदे विष्णुः प्रमोदे महाविष्णुः, सम्मोदे सदाविष्णुः वैकुण्ठे सर्वव्यापी नारायण आसीनो भवेत्।

भगवतः सर्वोत्तमत्वम्, इच्छया जगत्सृष्टिः ’तमीश्वराणां परमं महेश्वरं तं देवानां परमं च दैवत’मिति श्रुतिः।

’यदा यदा प्रजास्सृजेयेति सोऽकामायत। तदा तदा स्वाभिमताऽनुरूप स्वरूपगुण स्वशक्त्या स्वलीलयैव इमं प्रपञ्चं कार्यकारणभावेन यथापूर्वं [[३७५]] ससर्ज’ इति श्रुतिः। सर्वेषां जीवानां प्रभोस्सिसृक्षोर्ब्रह्मणः स्वेच्छया भूतान्यसृज्यन्त। ’आत्मन आकाशः सम्भूतः, आकाशाद्वायुः, वायोरग्निः, अग्नेरापः, अद्भ्यः पृथिवी, पृथिव्या ओषधय, ओषधीभ्योऽन्नं, अन्नाद्भूतानि जायन्ते’ इति श्रुतिः॥ (तै.उ.२)

चतुर्मुखस्योत्पत्तिः

एकदा प्रलयकाले भुजङ्गपतिभोग(पर्यङ्क)शयने शयितस्य नारायणस्य नाभिकमले ब्रह्मोद्भूतो भगवदंशश्चतुर्मुखो जगत्सर्वं सृजतीति विज्ञायते॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे वैकुण्ठलक्षणं नाम सप्ताशीतितमः पटलः ॥ ८७ ॥ (मातृकान्तरे ८१)