०८६ सकलविधिः

अथ षडशीतितमः पटलः भगवतो जगत्सृष्टिः तयोर्भेदः अथ सकलः काष्ठे अग्निर्मथनात् ज्वलन्निव निष्कलात्मको विष्णुः ध्यानमथनेन भक्त्या सङ्कल्पनात् सकलो भवति। तस्मादग्नेर्विस्फुलिङ्गा इव ब्रह्मेशानादिदेवतारूपैर्भिन्नत्वात् कुलालचक्रस्थमृदो घटशरावादिभेद(दा) इव यद्यद्रूपं मनसा भावितं तत्तद्रूपो भूत्वा विष्णुः प्रकाशते। ’विश्वतश्चक्षुरुतविश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात् सम्बाहुभ्यां नमति सम्पतत्रैर्द्यावा भूमी जनयन् देव एक’इति श्रुतिः तत्र सर्वव्याप्यशरीरः परमात्मैव सर्वभूतानां प्रभवरक्षणसंहृति निमित्तशरीरी भवति। ’अग्निर्वै देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवता’ इति ब्राह्मणम्। तस्मात् प्रधानः परमोऽव्ययो विष्णुः स एव पुरुषः स एव स्रष्टा, पाता, हर्ता अखिलस्य। तद्भिन्नाः पुरुषाः।

श्रियो विष्णोर्विभूतित्वं तद्विष्णोर्विभूतिः श्रीः सा च नित्या आद्यन्तरहिता अव्यक्तरूपिणी प्रमाणाऽप्रमाणसाधारणभूता विष्णोस्सङ्कल्पानुरूपा नित्यानन्दमयी मूलप्रकृतिरूपा शक्तिः तद्भिन्ना प्रकृत्यंशभूता पौष्णि तद्भिन्ना स्त्रियः तदात्मिका माया प्रकृतिः, मायी विष्णुः, प्रकृतिपुरुषावेतावनादी ताभ्यां लोकप्रवृत्तिः विकारगुणाः सर्वे प्रकृत्युत्पन्नाः कार्यकारणकर्तृत्वे हेतुः प्रकृतिः, षुरुषः सुखदुःखानां भोक्तृत्वे हेतुः, प्रकृतिस्थःपुरुषः प्रकृतिजान् गुणान् भुङ्क्ते।

प्रकृतेर्द्वैविध्यादिकम्

सा प्रकृतिर्द्विधा भवति चेतनाचेतनेति, अचेतना पञ्चभूतैः मनोबुद्ध्यहङ्काररूपैरष्टधा भिन्ना। अन्या जीवभूता चेतनेति। तथा प्रकृत्या सदा षडशीतितमः पटलः [[३७४]] संश्लिष्टाः पुरुषाः, प्रकृतिस्थाः जीवात्मानः क्षेत्रज्ञाः बहवः, तेऽपि नित्या अनाद्यविद्यासञ्चित पुण्यपापफलम् भोक्तुं बहुविधं देहं प्रविश्य तत्तदात्माऽभिमानिनः तत्र शुभाशुभकर्माणि कृत्वा तत्तत्फलानुरूपं देहं पुनः पुनः प्राप्य(नि) वर्तन्त इति विज्ञायते।

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे सकलविधिर्नाम षडशीतितमः पटलः ॥ ८६ ॥ (मातृकान्तरे ८०)