०८५ निष्कलविधिः

अथ पञ्चाशीतितमः पटलः

तत्त्वज्ञानोपदेशविधिः

अथातो मरीचिं मुनयः प्रणम्य चरितक्रिया ज्ञानयोगेषु चतुर्षु पूजामार्गेषु चरितं (तत्क्रिये) भगवता विखनसा सूत्रे विस्तरेण प्रणीतम्, (ते) अन्यत्सङ्क्षेपेणोक्तं, तदुपन्यासो बहुप्रयोगक्रमेण क्रियामार्गस्त्वया प्रणीतः।

भगवत्तत्व ज्ञानयोगं च श्रोतुमिच्छाम इति अयाचन्त, तान् समीक्ष्य श्रूयतामिति मरीचिरुवाच।

तत्त्वज्ञानोपदेशविधिं वक्ष्ये।

पञ्चाशीतितमः पटलः [[३७२]] तत्त्वपदनिर्वचनम् ब्रह्मणः ज्ञेयत्वम्, तस्य सकलत्वनिष्कलत्वे तस्य भावस्तत्त्वमिति तस्य परब्रह्मणः परमात्मनो नारायणस्य भावः ’तत्त्वं नारायणः पर’ इति श्रुतिः। तदवगमनं ज्ञानं तद्विदः ब्रह्मविदः।

तस्मात्परमात्मा ज्ञेयः, जीवात्मा ज्ञाता, श्रुतयो ज्ञानमिति ब्रह्मवादिनो वदन्ति। तद् ब्रह्मणो निष्कलस्सकलश्च स्वभावः।

निष्कलस्वरूपम्

निष्कलः—- परमात्मनोऽन्यत् न किञ्चिदस्तीति क्षीरे सर्पिः, तिले तैलं, पुष्पे गन्धः, फले रसः, काष्ठे अग्निरिव अन्तर्बहिश्च तत्सर्वं व्याप्याऽऽकाशोपमः ’अन्तर्बहिश्चतत्सर्वं व्याप्यनारायणस्स्थित’ इति ’आकाशशरीरं ब्रह्मे’ति। अशरीरः शरीरे(षु) व्याप्य तिष्ठति, विश्वव्यापकशीलत्वाद्विष्णुः दृश्यादृश्यः अत्यच्छः अमलः नित्यः अचिन्त्योऽप्रमेयः निर्गुणो निश्चलो निरवयवो निराद्यन्तो निर्विकल्पो निर्द्वन्द्वोऽनिर्वचनः अतीन्द्रियः सुसूक्ष्मत्वादनिर्देश्यः सदसदिति ब्रह्मवादिनो वदन्ति। (तत्र) परन्धाम परञ्ज्योतिः सर्वशः सर्वशक्तिमयः सर्वदेवमयः सर्वधर्ममयः (सर्वाधारमयः) सर्वाधारस्सनातनः ज्ञातृज्ञेयज्ञानहीनः ज्ञानघनः जाग्रत्स्वप्नसुषुप्तितुरीयस्थानगो बहिः प्रज्ञः प्रज्ञावस्थः स्थूलसूक्ष्मविभागेन वैश्वानरतेजः स्वरूपेण भुञ्जानः सर्वेषामात्मा गुहायां निहितः ’अणोरणीयान्महतोमहीयानात्मा गुहायां निहितोऽस्य जन्तो’रिति श्रुतिः। तस्माद्धृदयकमलान्तराकाशोपलब्धवैश्वानरशिखायां त्रिगुणात्मको विष्णुः परमात्मा तिष्ठति। ’तस्या शिखायामध्ये परमात्मा व्यवस्थितः। स ब्रह्मा स शिव’ इति श्रुतिः। एवं निष्कलमिति विज्ञायते॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे निष्कलविधिर्नाम पञ्चाशीतितमः पटलः ॥ ८५ ॥ (मातृकान्तरे पटल समाप्तिर्नास्ति॥) [[३७३]]