०८४ सावित्रीमन्त्रकल्पविधिः

अथ चतुरशीतितमः पटलः

सावित्रीकल्पः

अथ सावित्रीकल्पं वक्ष्ये।

’चतुर्विंशत्यक्षरा गायत्री’ति श्रुतिः। सा गायत्री सवितृदेवत्या, (तस्मा)त् सावित्रीत्युच्यते। तस्य ऋषि च्छन्दोऽधिदैवतं पुराचोक्तम्। अष्टाक्षरा त्रिपदा, चतुष्पदा षडक्षरा। जप्ये त्रिपादा, अर्चने चतुष्पदा।

[[३६९]] तस्याः स्वरूपम् अग्निवर्णं; षट्कुक्षिः, पञ्चशीर्षः, शुक्लमुखः, कमलेक्षणः, ऋग्वेदः, प्रथमपादः। यजुर्वेदो द्वितीयः पादः, सामवेदस्तृतीयः पादः। पृथिवी चरणम्, ऊरू पर्वतो अम्बरो अस्थि, पूर्वः प्रथमः कुक्षिः, दक्षिणो द्वितीयः, पश्चिमः तृतीयः, उत्तरः चतुर्थः, पञ्चम ऊर्ध्वः, अधरः षष्ठ इति। पुराणानि आन्त्रम्, जगती दिव्यरूपम्, उदरान्तरमाकाशः, छन्दः स्तनौ, धर्मशास्रं जिघ्रा न्यायो बाहुः, गिरि (गीः) कराः, ग्रीवाः, प्रथमः शिरः शब्दशास्त्रं, द्वितीयं शिक्षा, तृतीयं कल्पं, चतुर्थं निरुक्तं, पञ्चमं ज्योतिषम्। अनलं मुखं, वदनमिन्दुर्मण्डलं, श्वसनो वायुः अलका भपङ्क्तिः, सहस्रकिरणो मौलिः, ताराः कुसुमम्, नक्षत्रमालाहारम्, ग्रहाःरत्नविभूषितम्, ब्राह्मो मूर्धा, शिखारुद्रो विष्णुरात्मा, वेदान्ता विमलं मनः, वेदाः प्रणाः, मीमांसाश्चित्तम् इत्येवं ज्ञात्वा त्रिसन्धिषु त्रिविधं ध्यानमाचरेत्।

त्रिविधं ध्यानम् पूर्वां सन्ध्यां कौमारीं रक्तवर्णां हंसवाहिनीम् अक्षसूत्र यज्ञोपवीतकमण्डलुधारिणीं ब्रह्मदेवतां सावित्रीं नाम, सावित्र्या ’वासमग्निः (हान) गां, गोत्रमिति यथाक्रमेण भूमि, गार्हपत्यमुपनय(निधा)नं, कात्यायनमित्येवं ध्यायेत्।

मध्याह्ने सन्ध्यायां यौवनीं रुद्राक्षाऽर्धचन्द्रत्रिशूलधारिणीं श्वेतवर्णां वृषभवाहिनीं रुद्रदैवतां गायत्रीं नाम, गायत्रेर्वासमन्तरिक्षम् अन्यानि पूर्ववत्।

सायं सन्ध्यां सलक्षणां श्यामवर्णां सर्वाभरणभूषितां शङ्खचक्रधारिणीं गरुडवाहिनीं विष्णुदेवतां सरस्वतीं नाम सरस्वतेर्वासं स्वर्गम् अन्यानि पूर्ववत्। एवं ध्यात्वा जपमारभेत्।

चतुरशीतितमः पटलः [[३७०]] अक्षरन्यासः न्यासफलं च पादादि मूर्धान्तं क्रमेण चतुर्विंशतिस्थाने अक्षराणि सन्न्यसेत्। पादाङ्गुष्ठयोस्तत्कारम् अङ्गुल्योस्सकारं, जङ्घयोर्विकारं, जान्वोस्तुकारम्, ऊर्वोर्वकारं, गुह्यप्रदेशे रेकारं, वृषणे णिकारं, कटिप्रदेशे यकारं, नाभौ भकारं, जठरे गोकारं, स्तनयोर्देकारं, हृदये वकारं, कण्ठे स्यकारं, वदने धीकारं, तालौ मकारं, नासाग्रे हिकारं, चक्षुषोर्धिकारं, भ्रूमध्ये योकारं, ललाटे द्वितीययोकारं, विन्यस्य पूर्वतः पूर्वाऽभिमुखं नःकारं, दक्षिणतो दक्षिणाऽमुखं प्रकारं, पश्चिमतः पश्चिमाऽभिमुखं चोकारम्, उत्तरतः उत्तराऽभिमुखं दकारं, मूर्ध्नि चतुर्मुखं सर्वं व्यवस्थितं यात्कारम्, एवमक्षराणि ज्ञात्वा विन्यसेत्।

सर्वपापविनिर्मुक्तो भवतीति विज्ञायते।

अक्षराणां ध्यानं देवतादिकं च अथातोऽक्षराणां ध्यानं सर्वेषां वर्णानां त्रिसन्धिषु पूर्ववत्, ब्रह्म (विष्णु) रुद्राकृतिरूपम्।

प्रत्येकमक्षरदेवता तस्य फलं सर्वदेवताफलं च पृथगेव लक्ष्यते तत्कारं पीताभं, ब्रह्मदेवत्यं महापातकनाशनं, सकारं श्यामाभं, प्राजापत्यम्, उपपातकनाशनं, विकारं पिङ्गलाभं, सौम्यं, महापातकनाशनं, तुः कारं नीलाभम्, ईश्वरदेवत्यं, दुष्टपाप ग्रहरोगाद्युपद्रवनाशनं, वकारं वह्निवर्णं, साम्यं, भ्रूणहत्यादिमोचनं, रेकारं ज्वालारूपं बार्हस्पत्यम् अगम्यागम पापविनाशनं, णिकारं विद्युन्निभमैन्द्रम् अभक्ष्यभक्षणविनाशनम्, यं कारं हेमाभं वैष्णवबीजं ब्रह्महत्यादिसर्वपापविनाशनं, भकारं कृष्णाभम्, अर्यमदेवत्यं पुरुषहत्यादि पापविनाशनं, र्गोकारं रक्ताभं सावित्रं गोहत्यादिविमोचनं, देकारं श्यामाभं त्वाष्ट्रं स्त्रीहत्यादि पापविनाशनं वकारं श्वेताभं पौष्णं गुरुहत्यादिपापनाशनं, स्यकारं स्वर्णाभम् [[३७१]] ऐन्द्रं कूटकृतपापघ्नं, धीकारं पद्मसङ्काशं वायव्यम् अभक्ष्यभक्षणदोषघ्नं, मकारं पद्मरागनिभं वामदेवत्यं जन्मान्तरकृतपापघ्नं, हिकारं श्वेतं मैत्रावरूणं सर्वपापविनाशनं, धिकारं पुण्डरीकनिभं प्राजापत्यं प्रतिग्रहदोषविनाशनं, योकारं कपिलाभं वैश्वदेवत्यं प्राणिहिंसापापविनाशनं, द्वितीययोकारं वैष्णवं दुष्टपापविनाशनं, नःकारम् आदित्यवर्णम् ऐन्द्रम् इन्द्रलोकप्रदं, प्रकारं नीलश्यामं रौद्रमीश्वरलोकप्रदं, चोकारं पीतवर्णं ब्राह्मं ब्रह्मलोकप्रदं, दकारं शुद्धस्फटिकसङ्काशं वैष्णवं विष्णुलोकप्रदं, यात्कारं हेमाभं चतुर्वदनयुतं सर्वसिद्धिप्रदं (त्रि) सन्ध्या संयुक्तं ’ओं भूर्भुवस्वस्तत्सवितु’रिति सावित्रीं शताष्टकं त्रिसन्ध्यकं मनसा जपेत्।

सावित्र्यध्ययनात् आयुः श्रीर्ब्रह्मवर्चसं प्रजासमृद्धिः धनधान्यसमृद्धिः भवति। सर्वसम्पत्करम् ऐहिकाऽमुष्मिकफलप्रदं च इष्टान् कामान् इह लोके चिरमनुभवन्ति। पश्चान्मुक्तिं समालभेरन्नित्याह मरीचिः।

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे सावित्रीमन्त्रकल्पविधिर्नाम चतुरशीतितमः पटलः ॥ ८४ ॥ (मातृकान्तरे ७९-प)