अथ त्र्यशीतितमः पटलः
मन्त्रकल्पः
अथातो मन्त्राणां कल्पं व्याख्यास्यामः प्रणवस्य ब्रह्मस्वरूपतादिकम् मन्त्राणां प्राणं प्रणवाकारं ब्रह्मरूपम्, ’ओमिति ब्रह्मे’ (तै॰ आ॰ उ१)ति श्रुतिः। तस्माज्जगत्कृत्स्नं प्रणवादन्यं नास्ति भगवन्तं प्रणव इति पठ्यते (पठन्ति) प्रणवं त्र्यक्षरम्। अकारउकारमकार इति। तेषां यथाक्रमेण ऋग्यजुस्सामाथर्व(साम)मयाः सत्वरजस्तमोगुणाः श्वेतपीतकृष्णनिभाः भूर्भुवस्वःस्थिता विष्णुब्रह्मेशानाऽधिदेवत्या भवन्ति। अकारो वलयाकारः, उकारः कुटिलाकारः, मकारो बिन्दुनादः, प्रणवस्य लिपेरंशो भवति।
अकारउकारसंयोगादोकारगुणो भवति। बिन्दुनादसंयुक्तमोमिति। प्रणवस्य ऋषिच्छन्दोधिदैवतम् पूर्ववत्। गोत्रमथर्वाणमिति विज्ञायते।
प्रणवस्वरूपम्
अथातः प्रणवस्वरूपं वक्ष्ये।
प्रणवस्य जीवात्मादिकम् पीतवर्णः, सहस्रशीर्षः, सहस्राक्षः, सहस्रबाहुः, सहस्रोदरः, सहस्रपादः, ऊर्ध्वकेशो रक्तास्यपाणिपादः, शुकपिञ्छाम्बरधरो, विष्णुर्जीवात्मा, ब्रह्माबुद्धिः, त्र्यशीतितमः पटलः [[३६८]] ईशः कोपः, चित्तं सोमस्तलादिसप्तपातालाःपादा, भुजङ्गा अङ्गुलयः, अप्सरसो नद्यः, भूरादिसप्तलोकाः कुक्षिः, नाभिर्वसवः, महाण्डबहिरण्डवैष्णवाण्डाः शीर्षाः अग्निष्टोमादि (नदी) यज्ञाः केशाः, व्योम ललाटं, भ्रुवौ मेघाः, चन्द्रार्कौ चक्षुषी, शुक्रबृहस्पती कर्णौ, अश्विनौ नासिके, दन्तो वायुः, जिह्वा सरस्वती, ओष्ठौ सन्ध्ययोः नित्याग्निहोत्राणि, सर्वाग्नयो वदनं, ग्रीवा शचीपतिः, दिशो बाहवः, रुद्रास्सन्धिहस्ता, नक्षत्राणि अङ्गुलयः, तारका नखाः, वृषणौ मित्रावरुणौ, उपस्थं प्रजापतिः, मरुतः पृष्ठम्, अस्थीनि पर्वताः, मन्दरो मांसम्, ओषधयः शोणितम् प्रण(ळ)यं शिरोनद्यः, मूत्रकोशं समुद्राः पुरीषं काञ्चनं, रेतोमृतं लोकालोकस्त्वक्, ऋषयो रोमकूपाः, स्वेदो वर्षं वसनं सर्वोदधयः, वेदेतिहासम् आभरणं, सृष्टिस्थिति संहाराः क्रीडा, कल्पव्याकरणशिक्षानिरुक्तादिचतुष्षष्टिकलाः व्याख्यानम् बहुना किं प्रलापेन, जगत्कृत्स्नं प्रणवादित्येवं ज्ञात्वा त्रिसन्धिषु यथाशक्ति जपमाचरेत् त्रिमात्रो मात्रो वा सर्वारम्भेषु अग्रतस्त्रिरुच्चार्य तदन्ते तथा करोति प्रणवपूर्वमेव सर्वत्र जपमारभेत्। प्रणवहीनं यदि स्यात् सर्वं नश्यति। तस्मात्प्रणवादन्यं मन्त्रं नास्तीति विज्ञायते।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे प्रणवस्वरूपं नाम त्र्यशीतितमः पटलः ॥ ८३ ॥ (मातृकान्तरे ७९प)