अथ द्व्यशीतितमः पटलः सन्ध्योपस्थानादिमन्त्राणाम् ऋषिच्छन्दोऽधिदैवतानि अथ सन्ध्योपासनमन्त्राणामृषिछन्दोऽधिदैवतानि व्याख्यास्यामः ’सूर्य’ इत्येतस्य ’अग्निर्गायत्रं सूर्य’ इति ऋषिः छन्दोऽधिदेवतम्।
’तेजश्च’ इत्येतस्य, ऋषिः(?) छन्दो गायत्रं सविता देवता। ’अग्निश्चे’त्येतस्य, सूर्यऋषिः छन्दोगायत्रम्, अग्निर्देवता। ’आपोहिष्ठामयो भुव’ इत्येतस्य, सिन्धुद्वीप ऋषिः छन्दोगायत्रम् आपो देवता। गायत्र्या विश्वामित्र ऋषिः छन्दो गायत्रं सविता देवता। प्रणवस्य ऋषिः प्रजापतिः छन्दो गायत्रं ब्रह्मा देवता। भूरादिसप्तव्याहृतीनाम् अत्रि भृगु (पुरु) कु (त्स) त्सोमवसिष्ठगौतमकाश्यपाऽङ्गिरस इति ऋषयः, गायत्र्युष्णिगनुष्टुप्बृहतीपङ्क्तिस्त्रिष्टुप्जगत्यः छन्दांसि, अग्निर्वायुरर्कोवागीशवरुण इन्द्रो विश्वेदेवा इति देवता गायत्र्याः पूर्ववत्। ओमाप इति गायत्री शिरसः ऋषिः ब्रह्मा छन्दोऽनुष्टुप् परमात्मा देवता। प्राणसंयमनं कृत्वा सव्याहृतिकां सप्रणवां गायत्रीम् अन्ते सशिरस्कां त्रिर्जपेत्।
सप्राणायामः तस्य ऋषिर्ब्रह्माछन्दोगायत्रम्। परमात्माऽधिदेवता।
’आया’त्वित्येतस्य वामदेवऋषिः छन्दोऽनुष्टुप्जगती देवता गायत्री। सावित्र्याः विश्वामित्रऋषिः छन्दोगायत्रं सविता देवता। ’उत्तमे शिखरे’ इत्यस्य वामदेव ऋषिः छन्दोऽनुष्टुप् गायत्री देवता। ’मित्रस्ये’ त्यस्य विश्वामित्र ऋषिः (भूर्भूरिति गायत्रम्) आद्यानां त्रिष्टुप्, अन्यस्य छन्दो बृहती रविः देवता।
’उद्वयं तमस’ इत्येषां हिरण्यरूपऋषिः प्रथमादि यथाक्रमेण अनुष्टुप् त्रिष्टुप् गायत्री जगती उष्णिक् शक्करी इति छन्दो रविर्देवता। ’यच्छिद्धी’ त्यादि शुनःशेफऋषिः गायत्रं पङ्क्तिच्छित्तुष्टुभम्। ’कितवास’ इति ’इमं मे’ इति च, त्रैष्टुभं, गायत्रम्। ’तत्त्वायामी, त्वन्न्नो’ इत्यादित्रयाणां त्रिष्टुप् [[३६७]] छन्दो वरुणो देवता इति। अन्येषां मन्त्राणां सामान्यऋष्यादीन् स्मृत्वा उच्चार्य कारयेत्॥
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे ऋषिछन्दोऽधिदेवताविधिर्नाम द्व्यशीतितमः पटलः ॥ ८२ ॥ (मातृकान्तरे ७७ प)