०८१ अनुष्ठानकल्पविधिः

अथ एकाशीतितमः पटलः यज्ञादीनां विष्णुपूजाङ्गत्वेनानुष्ठानप्रदर्शनम् अथाऽतोनुष्ठानकल्पं व्याख्यास्यामः। सर्ववैदिकाचारास्तपोयज्ञाश्च विष्णुपूजाविधेर्भेद इति वैखानससूत्रं तत् सूत्रोक्ताऽनुष्ठानं सर्वं समाचरन्ति॥

सर्वकर्मानुष्ठानात्पूर्वमूर्ध्वपुण्ड्रधारणम्

नित्यनैमित्तिकानि कर्माणि ऊर्ध्वपुण्ड्रधर एव कुर्यात्। ऊर्ध्वपुण्ड्रधारणादशुचिः शुचिरेव भवति (वेत्) सर्वमङ्गलं वंशवृद्धिं च कारयेत्। ऊर्ध्वपुण्ड्रं विना जपहोमार्चनाध्यानादीन्न कुर्यात्। कुर्याच्छेन्निष्फलं भवति। तस्मादूर्ध्वपुण्ड्रं धारयेत्।

पुण्ड्रधारणयोग्यमृद्ग्रहणम्

पर्वताग्रे नदीतीरे तीर्थस्थानेषु विष्ण्वालये गृहीतमृदम् उत्तमम्। तुलसीमूले वल्मीके च गृहीतमृदं मध्यमम्। अन्यस्मिन् शुचौ देशे गृहीतं मृदमधमम्।

द्रव्यान्तराणि

चन्दनादिसर्वगन्धद्रव्यैरुत्तमम्। श्रीपत्रतुलसीबिल्वैश्च मध्यमं, पञ्चगव्यैः शीततोयेन (भस्मना) अधमम् एतैर्द्रव्यैर्धारयेत्। श्वेतं सर्वसिद्धिदं, श्यामं सर्वशान्तिकरं, पीतं श्रीकरं, रक्तं वश्यकरमिति।

पुण्ड्रस्य दीपाद्याकृतित्वं हृदये महानग्निर्ज्वलति तस्य शिखा ज्वाला रूपवदूर्ध्वाग्रमूर्ध्वपुण्ड्रं कुर्यात्। अथवा दीपाकृतिर्वेणुपत्राकृति पद्मोत्पलकुमुदानां मुकुलाकृति मत्स्यकूर्मशूर्पशङ्ख दण्डाकृति वा ऋजु सुपार्श्वमूर्ध्वपुण्ड्रं कुर्यात्। अङ्गुष्ठतर्जनी मध्यमानामिकानामेतेषां क्रमेण तुष्टिर्मुक्तिरायुर्वश्यमिति फलानि भवन्ति।

एकाशीतितमः पटलः [[३६४]] ललाटादौ केशवादिस्मरणं ललाटे केशवाय, कुक्षौ नारायणाय; हृदये माधवाय कण्ठे गोविन्दाय दक्षिणे उदरपार्श्वे विष्णवे दक्षिणे बाहुमध्ये, मधुसूदनाय कण्ठस्य दक्षिणेपार्श्वे त्रिविक्रमाय उदरवामपार्श्वे वामनाय वामबाहुमध्ये श्रीधराय कण्ठस्य वामपार्श्वे हृषीकेशाय अपरे पद्मनाभाय ककुदि दामोदरायेति प्रणवादिनमोऽन्तमुच्चार्य मूर्ध्नि विन्यसेत्। वामपार्श्वे दक्षिणपार्श्वे गतन्यासान् दक्षिणहस्तेन धारयेत् ऊर्ध्वपुण्ड्रं विना मुहूर्तमपि नाचरति। तदूर्ध्वपुण्ड्राकृतिं दृष्ट्वा मृत्युरपि दूरतो गच्छेत्। सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छतीति विज्ञायते।

पवित्रस्य द्रव्यादिकम् अथातः पवित्रलक्षणं वक्ष्ये - सुवर्णरजतगोवालकुशविश्वामित्रकाश दूर्वोशीर ऋजुतृणादिना पवित्रं कारयेत्।

तेषां स्त्रीत्वादिकम् पित्र्यादौ दर्भसङ्ख्या, ग्रन्थ्यादिपरिमाणं ग्रन्थिदेवता कुशादीनामग्रस्थूलं नारी मूलस्थूलं नपुंसकं मूलाद्यग्रसमं पुमान् एतेषु स्त्री नपुंसकौ वर्जयेत्, एकाग्रं पैतृकं द्व्यग्रं दैविकम् ऊर्ध्वम् आभिचारिकं भवति अग्रं चतुरङ्गुलं ग्रन्थिरेकाङ्गुलं रज्जुवलयौ द्व्यङ्गुलम्, अग्रग्रन्थिशेषाणां क्रमेण ब्रह्मविष्णुशिवा अधिदेवताः।

पवित्रस्य चक्रादिसाम्यं पवित्रं विना कृतं कर्म निष्फलं यथा हरिहरमहेन्द्राणां चक्रं, शूलं, वज्रमिव ब्राह्मणानां प्रवित्रम् अपवित्रकरेण दत्तभुक्तजपहुतार्चनध्यानादीनि न कुर्यात्। कुर्याच्चेन्निष्फलमाभिचारिकं भवति।

[[३६५]] उच्छिष्टस्य वर्ज्यता भुक्तोच्छिष्टं विवर्ज्यं विण्मूत्रविसर्जने (वा) दक्षिणकर्णे समारोप्य कुर्यात्। आचमने पवित्रं नोच्छिष्टं सर्वदा धार्यम्।

पवित्रालाभे

पवित्रालाभे अनामिकायामुपवीतं संयोज्य कारयेदित्येके।

ब्राह्मस्नानम्

अथ ब्राह्मं स्नानं वरुणं ध्यात्वा, नन्दिनी प्लाविनी नलिनी मालिनी॥

हरिपादार्घ्यसम्पृक्ता गङ्गा त्रिपथगामिनी। भोगवती त्रिदशेश्वरी’त्येताश्च, वारुणं मन्त्रमुच्चार्य, जलं स्पृष्ट्वा अभिमन्त्र्य; आपोहिरण्य पवमानैः प्रोक्षयति। एवं ब्राह्मं स्नानमवगाह्य, स्नानं कुर्यात्।

मन्त्राणामृष्यादिस्मरणावश्यकता

सर्वेषां मन्त्राणां प्रत्येकम् ऋषिच्छन्दोऽधिदैवतं ध्यात्वोच्चार्य कारयेत्।

अन्यथा निष्फलं भवति। असुरा गृण्हीयुः॥

सामान्यतः ऋष्यादिकं तस्माद्वा जायते सर्वेषां मन्त्राणां सामान्यम् ऋषिरन्तर्यामी, छन्दोगायत्रं, परमात्माऽधिदेवतेति। तस्मादेवं मन्त्रं प्रति ऋष्यादीनुच्चार्य स्मृत्वा कारयेत्॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे अनुष्ठानकल्पविधिर्नाम एकाशीतितमः पटलः ॥ ८१ ॥ (मातृकान्तरे ७६) एकाशीतितमः पटलः [[३६६]]