अथ अशीतितमः पटलः
होमोपकरणाधिदेवाः
अथ अग्निकुण्डादिहोमोपकरणानामधिदैवं व्याख्यास्यामः।
मृदादीनां देवताः सिकतामृदौ भूमिदेवत्ये, स्थण्डिलस्य सोमः कुण्डानामूर्ध्ववेदिः ब्रह्म, मध्यवेदिः प्राजापत्या, सभ्यपौण्डरीकयोरधोवेदिर्दलयुता सौम्या, दलानां वसुदैवतं खननं पितृदेवत्यं षड्लेखाः स्कन्ददेवत्याः, प्रागश्रमुत्तरश्रं च लेखनं दैविकम् पश्चिमान्त याम्यान्तलेखनं पैतृकं दर्भाणामृष्यः इन्धनस्याऽग्निः, विहरस्योङ्कारः, क(रक)लशस्य पञ्चभूताः पृष्ठं पृथिवीं, पार्श्वमग्निः, कुक्षिराकाशः कण्ठे आपः, मुकुले वायुः, करकादिपात्राणामेवमधिदेवता भवन्ति॥
कूर्चादीनां देवताः कूर्चानामग्रं ब्रह्म, ग्रन्थिर्विष्णुः, शेषमीश्वरदेवत्यम्, परिस्तरणकूर्चानां (चतुर्णां) विष्णुः दक्षिप्रणिधौ ब्रह्मा, उत्तरप्रणिध्यां सोमः, पश्चिमपरिधेर्गन्धर्वः दक्षिणपरिधेरिन्द्रः, उत्तरपरिधेर्मित्रावरुणौ(वा), आग्नेयोऽधोर्ध्वसमिधः प्रजापतिरीशः, वर्षिष्ठसमिधोर्जुह्वादेरग्निः, स्रुवस्य सोमः, आज्यस्थालीदर्व्योश्च पृथिवी, चरुस्सर्वदेवत्यं च, आज्यस्याऽग्निः, इन्धनस्य सर्वदेवताः, अन्येषां होमद्रव्याणां सविता, श्रीदेवत्यं बैल्वं, पालाशमाग्नेयं, नैयग्रोधं याम्यं, सौम्यम् औदुम्बरं, सौरम् आश्वत्थं, शम्यं वायव्यं, खादिरं ब्राह्मं, इत्यधिदेवता भवन्ति। दैवतहीने अज्ञाते अग्निरिति विज्ञायते।
कुण्डे अग्निमूर्तिध्यानम् अथाऽग्निकुण्डस्य मध्ये पश्चिमाभिमुखं ब्राह्ममासनमासीनं सर्वदैवतैः परिवृतं रक्तवर्णं त्रिपादं द्विशीर्षं चतुश्श्रोत्रं चतुश्श्रृङ्गं द्विनासिकमास्यद्वयम् अशीतितमः पटलः [[३६२]] षण्णेत्रं मकुटाद्याभरणान्वितं सप्तहस्तं दक्षिणे स्रुवाऽक्षमालाखड्गशक्तियुतं वामे तोमरव्यजनखेटकघृतपात्रयुतं त्रिहस्तम् अजवाहनं दक्षिणवामयोः स्वाहास्वधाभ्यां संयुतम् इध्महोमे स्थितम्, अन्नहोमे त्वासीनम्, आज्यहोमे शयितमिति ध्यायेत्॥
सप्तानां जिह्वानां नामानि वर्णः तत्र होमद्रव्याणि ’’हिरण्या कनका रक्ता कृष्णा चैव वसुप्रभा। अतिरक्ता बहुरूपा’’ इति सप्तजिह्वाः। तासु ऐशान्ये हेमाभा हिरण्यायां समिद्धोमम्, इन्द्रे श्यामाभा कनकायाम् आज्यहोमम्, आग्नेय्यां रक्ताभा रक्तायां यवहोमं, र्नैऋत्यां नीलाभा कृष्णायां लाजहोमं, वारुणे पीताभा वसुप्रभार्यं सक्तुहोमं, वायव्ये श्वेताभा अतिरक्तायां तिलं, दक्षिणोत्तरयोर्मध्ये बहुवर्णनिभा बहुरूपायामिध्मचरुहोमे सप्तजिह्वासु च क्रमेण सप्तसमिद्धोमम्, अन्याऽग्निद्रव्याणि सर्वाणि मध्यमास्ये जुहुयात्।
अग्नेः श्रोत्रादिस्थानं विज्ञाय ज्वलदग्नौ होमस्य कर्तव्यता यत्र काष्ठं तत्र श्रोत्रं धूमो नासिका अल्पज्वलिता नेत्रे भस्म शीर्षमिति ज्ञात्वा श्रोत्रे हुते व्याधिपीडितम्, चक्षुष्यन्धत्वं, नासिकायां महारोगः, मस्तके सर्वनाशः तस्मादग्नौ ज्वलने जुहुयादित्याह मरीचिः॥
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे आघारादि अधिदेवाग्निध्यानविधिर्नाम अशीतितमः पटलः ॥ ८० ॥
[[३६३]]