०७९ समाराधनम्

अथ एकोनाशीतितमः पटलः

मार्गशीर्षशुक्लद्वादशीपूजा

अथ वर्षे वर्षे नित्यार्चनायां न्यूनातिरिक्तप्रायश्चित्तम्।

तस्य कालः प्रकारश्च मार्गशीर्षमासे शुक्लद्वादश्यां तद्दिनात्पूर्वम् अङ्कुरानर्पयित्वा आलयाभिमुखे दक्षिणे वा, पौण्डरीकाऽग्निं साधयित्वा पूर्वेद्युः नित्यार्चनावसाने तस्मिन् वैष्णवं, विष्णुसूक्तं, पुरुषुसूक्तं हुत्वा विष्णुगायत्र्या अब्जशतं बिल्वपत्रं वा, घृताक्तमग्नौ जुहुयात्।

देवेशं ध्यायन् पारमात्मिकमीङ्कारादीन् हुत्वा अभ्यन्तरं प्रविश्य, देवं प्रणम्य आनीय, अग्नेरुत्तरस्यां देवेशं चतुर्दशकलशैर्विधिनाऽभिषिच्य नववस्त्रोत्तरीयाद्यैरलङ्कृत्य अभ्यर्च्य, अग्नेः प्रतीच्यां धान्यवेद्युपरि पूर्ववत् पञ्चशयनान्यास्तीर्य तथैव प्रतिसरं बध्वा देवेशं शाययित्वा प्रागादिचतुर्दिक्षु चतुर्वेदाध्ययनं कृत्वा पश्चादब्जाऽग्निं प्रज्वाल्य पूर्ववद्धौत्रं प्रशंस्य आवाहनं, जुष्टाकारं, स्वाहाकारं च कृत्वा वैष्णवं, श्रीभूमिदेवत्यं ब्राह्मं रौद्रं मुनिभ्यां मन्त्रं धात्रादिसर्वदेवत्यं च, हुत्वा विष्णुसूक्तेन पयोदधिघृतलाजैर्युक्तम् उपजुह्वा हुत्वा अग्निमानम्य नृत्तैर्गीतैश्च रात्रिशेषं यापयेत्।

एकोनाशीतितमः पटलः [[३६०]]

समाराधनम्

आचार्यः प्रभाते स्नात्वा अगारं प्रविश्य, देवमुत्थाप्य पाद्यमाचमनं दत्वा, अग्निं विसृज्य स्नानश्वभ्रे देवं प्रतिष्ठाप्य अष्टोत्तरशतकलशैः संस्नाप्य शुद्धोदकैरभिषिच्य आस्थाने विष्टरे देवं संस्थाप्य नववस्त्रोत्तरीयाद्यैरलङ्कृत्य अभ्यर्च्य विष्णुसूक्तेन बहुशः पुष्पाञ्जलिं दत्वा देवेशाय निवेदयेत् सौवर्णं यज्ञसूत्रम् आचार्यश्च उत्तराभिमुखो भूत्वा ’अग्निं दूते’ति मन्त्रेण सन्दद्यात्।

देवं प्रार्थयेत्।

न शक्यं विधिवत्कर्तुं ब्रह्माद्यैरपि पूजनम्।

न्यूनाऽतिरिक्तव्याघात दोषहीनं जगत्पते!॥ इति स्तुत्वा।

अज्ञानानामशक्तानामस्माकमदृढात्मनाम्।

तस्मान्नित्यार्चनायां हि यदुद्भूतमशोभनम्।

पूजया त्वनया विष्णो! प्रशान्तं सर्वमस्तु नः।

इति नत्वा दण्डवत्प्रणामं कृत्वा यथाभागोपदंशैर्युक्तं पायसकृसरगौल्यं यावकं शुद्धान्नं प्रभूतं निवेद्य पानीयाऽऽचमनं दत्वा कर्पूराद्यैर्मुखवासं ताम्बूलं च दत्वा देवमा(देवा)लयं प्रदक्षिणीकृत्य अर्चास्थाने संस्थाप्य अर्चयित्वा वैष्णवान् सम्पूज्य ब्राह्मणभोजनं कृत्वा आचार्यादिभ्यो दक्षिणां दद्यात्।

एवं संवत्सरं प्रति समाचरेत्। तस्य(ते) संवत्सरनित्यार्चनाफलं लभेरन्निति विज्ञायते।

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे मार्गशिरशुद्धद्वादशी समाराधनं नाम एकोनाशीतितमः पटलः ॥ ७९ ॥

[[३६१]]