अथ अष्टसप्ततितमः पटलः
पवित्रारोपणम्
अथ पवित्रारोपणं वक्ष्ये।
पवित्रारोपणस्य फलं सर्वयज्ञफलप्रदं, सर्वदोषोपशमनं, सर्वतुष्टिकरं, सर्वकामप्रदं सर्वदोषोपशमनं सर्वतुष्टिकरं, सर्वकामप्रदं, सर्वलोकशान्तिदं ह्येतन्मन्त्रक्रियाद्रव्यहीनं यत् कृतं तद्दोषशान्त्यर्थं पवित्रारोपणं कुर्यात्। पवित्रारोपणहीना या पूजा सा निष्फला भवति राजाराष्ट्रं विनश्यति। तस्माद्यत्नेन पवित्रमारोपयेत्।
[[३५५]]
तस्येष्टकालः
आषाढश्रावणप्रोष्ठपदेषु मासेषु चान्द्रेषु, सौरेषु वा केचिद्वदन्ति।
शुक्लद्वादश्यां विष्णुपञ्चदिनेषु वा केचिदाचक्षते। संसर्पाऽहस्स्वतिमासं तिथिवारनक्षत्रशून्यं, दशम्यादिदिनं (म्येकादशीमिश्रदिनम्) वर्जयित्वा, अन्यदोषैर्विना आरोपयेत्। राजाज्ञया चेत् एतेष्वपि पवित्रमारोपयेत्।
पवित्रारोपणप्रयोगः
आलयात्पुरतो मण्टपे, प्रपायां वा, यागशालां कृत्वा पादैः षोडशै, श्चतुर्विंशद्भिर्वा(त्यावा) अन्तस्तम्भविवर्जितं वा, तन्मध्ये द्विहस्ताऽऽयतविस्तारां, तालोच्छ्रयामष्टाऽङ्गुलोच्छ्रयां वा, दर्पणोदरवद्वेदिं कृत्वा चतुर्द्वारतोरणपूर्णकुम्भाऽङ्कुरदर्भमालातरङ्गस्तम्भवेष्टनमुक्तादामादिभिरलङ्कृत्य, वेद्याः पुरतोः पौण्डरीकमग्निकुण्डं सभ्याग्निकुण्डं वा कृत्वा, गोमयेनोपलिप्य पञ्चवर्णैरलङ्कृत्य, सम्भारानाहरेत्।
गन्धतोयैः आपो हिरण्य, पवमानैः प्रोक्ष्य तद्दिनात्पूर्वं पूर्ववदङ्कुरानर्पयित्वा पद्मक्षौम सुवर्ण सूत्रमुत्तमम्। मध्यमं रौप्यम्, अधमं कार्पासम्।
सर्वदोषविवर्जितं, पतिव्रता सुमङ्गल्या ब्राह्मण्या कन्यकया वा निर्मितं सूत्रं गृह्णीयात्। तदलाभे पण्यविक्रयिणः सङ्गृह्य, मूषिकादिभिराघ्रातं, केशयुतं स्थूलं कृशं वर्जयित्वा, सर्वतःसमं सूत्रं गायत्र्या त्रिगुणीकृत्य, ’आपोहिष्ठा, यन्मेगर्भ’ इति कुशाऽग्रैः पञ्चगव्येन प्रोक्ष्य अष्टोत्तरशतं सूत्रं ग्रीवापृष्ठमारभ्य जान्वन्तमुत्तमं चतुष्पञ्चशदूर्वन्तं मध्यमम्, सप्तविंशतिः नाभ्यन्तमधमम्।
बिम्बाऽलम्बप्रमाणम् अष्टोत्तरसहस्रैर्वनमालां कुर्यात्।
ग्रन्थिश्चाङ्गुष्ठमात्रमुत्तमम् मध्यमाऽङ्गुलिप्रमाणं मध्यमम् अनामिकाऽङ्गुलिप्रमाणमधमं ग्रन्थिं विष्णुसूक्तेन बध्नीयात्।
अष्टसप्ततितमः पटलः [[३५६]] उपवीतं सप्तविंशतिकग्रन्थि, यजमानाचार्यशिष्य वह्निकुण्डकुम्भानाम् अष्टग्रन्थि परिवाराणां द्वादशग्रन्थि, कुङ्कुमोशीरचन्दन सौवर्णराजतचूर्णैः यथालाभैः हरिद्राचूर्णैः ग्रन्थीनलङ्कृत्य, ’इमे गन्धे’त्यगरुं धूपयेत्।
पूर्वोक्तेनाऽङ्कुरानर्पयित्वा, आचार्यादिः एकादश्यां प्रभाते स्नात्वा सन्ध्यामुपास्य देवानद्भिस्तर्पयित्वा ब्रह्मयज्ञं कृत्वा तदालयमासाद्य प्रदक्षिणं प्रणामं च कृत्वा देवाभिमुखे समासीने ध्यायन् समाहितो अष्टाक्षरमन्त्रं जप्त्वा आसमाप्तेरुपोष्य स्त्रीशूद्रान् नाऽभिभाषयेत्। यागशालां प्रविश्य, ’भगवतो बलेने’ति देवं प्रार्थयेत्।
द्वादशसूक्तैश्चतुर्वेदादिमन्त्रैः सं(स्ना)स्थाप्य अलङ्कृत्याऽऽघारं हुत्वा आघारान्ते वैष्णवं, व्याहृत्यन्तं जुहोति। वेद्याः पश्चिमे धान्यपीठे सूत्राणि संस्थाप्य पाद्याद्यर्घ्यान्तमभ्यर्च्य पुण्याहं वाचयित्वा पूर्ववत् प्रतिसरमाबध्य पश्चाच्छय्यावेद्यां षड्द्रोणादहीनैः शालिधान्यैः तदर्धतण्डुलैः तदर्धतिलै(रु)- र्वोपर्युपर्यास्तीर्य साग्रान् कुशान् दर्भान् प्रागग्रान्वा विन्यस्य पञ्चशयनानि, वासांसि वा ऽऽस्तीर्य धूपदीपैरष्टमङ्गलैः पञ्चायुधैश्च विन्यस्य सर्ववाद्यसमायुक्तं घण्टानादपूर्वं शाकुनसूक्तं पठन् आचार्यः स्थापकैस्सह पवित्रं शयनमारोप्य ’यद्वैष्णव’मिति पवित्राण्यधिवास्य नववस्त्रैः पुष्पाऽक्षतैः शयनं प्रच्छाद्य, सूक्तं स्पृष्ट्वा पुरुषसूक्तं, रुद्रसूक्तम्, दुर्गासूक्तं, रात्रिसूक्तं, सारस्वतसूक्तं, विश्वजित्सूक्तम् ऋतं सत्यं, सहस्रशीर्षं, श्रीसूक्तं भूसूक्तं, विष्णुसूक्तं, गोदानसूक्तम् आत्मसूक्तं, वैष्णवं जपेत् उत्तमं दशसूक्तं, मध्यमं सप्त, अधमं पञ्चसूक्तं जपेत् पश्चादूर्ध्वे सर्वरक्षाचक्रं सम्पूज्य, तस्य परितः आवरणत्रयदेवानां प्रादक्षिण्यक्रमेणाऽभ्यर्च्य शान्तगरुडचक्रन्यक्षादि विमानपालानां धान्यपीठे कूर्चान्निधाय पाद्याद्यर्घ्यान्तमभ्यर्च्य, मुद्गान्नकृसरैर्बलिं दत्वा, स्वपादं प्रक्षाल्य, दक्षिणे कर्णे स्पृष्ट्वा पश्चादग्निं प्रज्वाल्य तत्काले होतारमाहूय तं पादौ प्रक्षाल्य आचम्य सोदकं दक्षिणां दत्वा हौत्रं प्रशंस्य, तत्काले देवमूर्तीरावाहयेत्।
[[३५७]] जुष्टाकारं च, स्वाहाकारं च, कृत्वा देवेशं शुद्धोदकैस्संस्नाप्य प्लोतेन विमृज्य वस्त्राभरणैरलङ्कृत्य पुण्यपुष्पाद्यैरर्घ्यान्तं सप्तविंशति विग्रहैरभ्यर्च्य अधिवासपवित्राणि देवमारोपयेत्। तदा श्रीभूम्योः शान्तादि सर्वदेवानामारोपयेत्।
आलयं, मण्टपं विष्णुसूक्तेन पुरुषसूक्तेन आवेष्ट्य महाहविः प्रभूतं वा यथाशक्ति निवेद्य पानीयाऽऽचमनं दत्वा कर्पूरजातीफलैलालवङ्गसहितं, क्रमुकफलताम्बूलं मुखवासं दत्वा बलिं निर्वपेदिति।
पूर्ववद्यजमानाचार्यशिष्याणां कृतं देवसन्निधौ दत्वा यागशालां प्रविश्य अग्निं प्रज्वाल्य परिषिच्य श्रीसूक्तं, महीसूक्तं, विष्णुसूक्तं, पुरुषसूक्तं हुत्वा सूत्रसङ्ख्यया वैष्णवं प्रत्येकं जुहोति ईङ्कारादि पारमात्मिकं सर्वदेवत्यम्, ’धातादिपञ्चवारुणं मूलहोमं जुहोति।’ एवं कर्तुमशक्तश्चेत् विष्णुसूक्तं पुरुषसूक्तं, सर्वदेवानां मूर्तिमन्त्रं हुत्वा एवं यजेत उत्तमम्। हौत्रादिसर्वमूर्तीनां पारमात्मिकं सर्वदेवत्यं विना मध्यमं ध्यापयेत्।
अन्यदुक्तमधमम् प्रागादिचतुर्दिक्षु चतुर्वेदान् पूर्वादिचतुर्दिक्षु दक्षिणवामयोर्वा आचार्य, ऋत्विजश्च परात्परतरं गुह्यं सर्ववेदार्थसारभूतम् अष्टाक्षरं द्वादशाक्षरं विष्णुगायत्रीं जपन् पुष्पाञ्जलिं दत्वा नृत्तगेयवाद्यैश्च रात्रिशेषं व्यपोह्य ततः प्रभाते त्वाचार्यः ऋत्विजश्च, स्नात्वा, सन्ध्यामुपास्य, देवादीँस्तर्पयित्वा ब्रह्मयज्ञं कृत्वा देवालयं प्रदक्षिणं करोति।
देवं प्रणम्य पार्श्वे प्राङ्मुखं, उदङ्मुखो वा समासीतदेवाऽर्हतस्तिष्ठन् प्रणम्याऽनुमान्य निर्माल्यमादाय विष्वक्सेनं समाराध्य ’भूरग्नये’ति वेदिं प्रक्षाल्य, देवेशं नित्यपूजाविधानेनाऽऽभ्यर्च्य स्नानासने सूत्रं समारोप्य ’आपो, हिरण्य, पवमानैः’ प्रोक्ष्य अभ्यर्च्य (हविर्निवेद्य) देवेशमलङ्कृत्याभ्यर्च्य अष्टसप्ततितमः पटलः [[३५८]] हविर्निवेद्य मुखवासं दत्वा पश्चाद्यागशालां प्रविश्य नित्यहोमं हुत्वा चरुणाऽज्येन वैष्णवं, विष्णुसूक्तं, श्रीभूमिदेवत्यं, हुत्वा प्रत्येकं समिदाज्येन सहितमष्टाविंशतिपर्यायेण जुहोति। देवस्य पादौ स्पृष्ट्वा तत्सर्वं होमयेत्।
(ततः) पुण्याहं वाचयित्वा, तत्काले प्रतिसरं विसृज्य अधिवासपवित्रमुत्थाप्य ध्वजैः छत्रैः पिञ्छचामरैः भक्तैश्च परिवृतो नृत्तगेयसमायुक्तं शाकुनसूक्तमुच्चार्य, सर्ववाद्यसमायुक्तं तोयधारापुरस्सरमालयं प्रदक्षिणीकृत्य, देवस्य प्रमुखे धान्यपीठे पवित्रं संस्थाप्य यजमान आचार्य भक्तैस्सह देवं प्रणम्य, कनिष्ठादिक्रमेण पवित्राणि आचार्यो हस्तादादाय, ’अतोदेवा’दिना कनिष्ठमारोपयेत्।
’विष्णोः कर्माणी’ति मध्यममारोप्य, विष्णोर्नुक’मित्युत्तममारोपयेत्।
पश्चाद्गन्धपुष्पाद्यैरभ्यर्च्य वनमालां गृहीत्वा पुरुषसूक्तमुच्चरन् देवमारोपयेत्।
कौतुकस्नपनोत्सव बलिबेराणां सूत्रमारोपयेत्। एकबेरविधानं चेत् ध्रुवे सर्वं समाचरेत् प्रादुर्भावानामप्येवं पूर्वोक्तमुच्चरन्, तद्युक्तस्य (तस्य तस्य) कृतं पवित्रमारोपयेत्। परिषद्देवानां तत्तन्मन्त्रमुच्चार्य पवित्रमारोपयेत्।
अग्नौ’अग्निं दूत’मित्यग्निकुण्डप्रमाणं सूत्रमारोप्य दण्डप्रणामं कृत्वा यथाभागोपदंशं घृतगुडदधिफलमधुयुक्तं पञ्चहविः प्रभूतं निवेद्य पानीयाचमनकर्पूराद्यैर्मुखवासं दत्वा बलिमाराध्य, बलिभ्रमणं कृत्वा, अग्निं विसृज्य पुण्याहान्ते आचार्यादीन् सम्पूज्य सुवर्णपशुरत्नादीनि सोदकं दक्षिणां दद्यात्।
पवित्रोत्सवदिनसङ्ख्या
एवं नवाहं सप्ताहं पञ्चाहं त्र्यहमेकाहं वा विशेषतोऽभ्यर्च्य, ब्राह्मणान् वैष्णवान् सम्पूज्य वैष्णवान् भोजयित्वा सूत्रान् सर्वान् विसृज्य निर्माल्यं संशोध्य विष्वक्सेनं समाराध्य ददेत्। पुनः सोदकं दक्षिणां ददेत्। विपरीतं [[३५९]] न कारयेत्। य एवं कृतेन पवित्रारोपणेन देवेशं यजेदब्दं, तदेव सम्पूर्णं भवति। सर्वान् कामानवाप्नोति। विष्णुलोकं स गच्छतीत्याह मरीचिः॥
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे पवित्रारोपणविधिर्नाम अष्टसप्ततितमः पटलः ॥ ७८ ॥