अथ सप्तसप्ततितमः पटलः तन्त्रसङ्करे प्रायश्चित्तम् अथ तन्त्रसङ्करप्रायश्चित्तं वक्ष्ये।
वैष्णवस्याऽन्यतन्त्रेण सङ्करे सति तद्ग्रामयजमानराष्ट्राणामाशु विनाशाय भवति। तस्मात् शीघ्रमपहाय अब्जाग्नौ वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, पारमात्मिकमीङ्कार(रादि) मष्टाशीतिं चाऽष्टोत्तरशतं हुत्वा पूर्ववत् कारयेत्।
तन्त्रद्वैविध्यादिकम्
वैष्णवं द्विविधं वैखानसं पञ्चरात्रमिति, वैखानसं वैदिकं, वैदिकैरर्चितम् ऐहिकाऽऽमुष्मिकफलप्रदम्। पञ्चरात्रमाग्नेयम्, अवैदिकं दीक्षितैरर्चितम्, आमुष्मिकफलप्रदम्, सौम्यं सर्वत्र सम्पूज्यम्।
ग्रामादिषु वास्त्वङ्गाऽऽलये मध्ये पश्चिमे ब्राह्मणानां गृहेषु वाऽर्चयेत्।
आग्नेयम् अवास्त्वङ्गाऽलये पर्वतारण्यादिषु च अर्चयेत्।
सौम्ये अस्मिन् विधौ पञ्चरात्रेणाऽऽग्नेयेन सङ्करे सति राजाराष्ट्रविनाशाय भवति। तद्दोषशमनार्थम् अब्जाग्नौ महाशान्तिं हुत्वा अष्टोत्तरशतकलशैर्देवं संस्नाप्य वैष्णवान् सम्पूज्य ब्राह्मणान् भोजयित्वा पुनस्तेन विधिना कारयेत्।
पञ्चरात्रविधानेन प्रतिष्ठाप्य, वर्तमाने अर्चने हीने सति सौम्यस्य प्रवेशनं कर्तव्यं तत् राजराष्ट्रसमृद्धिकरं भवति।
पौण्डरीकाग्नौ महाशान्तिं हुत्वा वैखानसविधिना तद्बेरं विमानं च कर्षणादिभिस्संस्कारैस्संस्कृत्य प्रतिष्ठां कारयेत्। ततःप्रभृति तेनैव सर्वं समाचरेदिति विज्ञायते।
सप्तसप्ततितमः पटलः [[३५४]]
अनुक्तदोषप्रायश्चित्तम्
अनुक्तदोषप्रायश्चित्तं वक्ष्ये।
अत्राऽनुक्तेषु दोषेषु सर्वेषु पौण्डरीकाग्नौ वैष्णवं षट्कृत्वो व्याहृतीश्चतुष्कृत्वः? अष्टाक्षरमष्टकृत्वो, द्वादशाक्षरं द्वादशकृत्वो, हुत्वा विष्णुसूक्तं, पुरुषसूक्तम्, एकाक्षरादिसूक्तं श्रीसूक्तं महीसूक्तं च, हुत्वा देवं संस्नाप्याऽभ्यर्च्य हविर्निवेदयेत्।
तत् तद्दोषोपशमनं सर्वशान्तिकरं भवति।
महादोषेषु एतैस्सह पारमात्मिकमीङ्कार(रादि)मष्टाशीतिं सर्वदेवत्यं च हुत्वा, अष्टोत्तरकलशैः देवं संस्नाप्य अभ्यर्च्य महाहविर्निवेदयेत्। एतत्सामान्यप्रायश्चित्तं भवति। शान्तिहोमविधानेन वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं च जुहुयात्। महाशान्तिविधाने च तैस्सह पारमात्मिकमीङ्काराद्यष्टाशीतिमेकाक्षरादिसूक्तं, श्रीसूक्तं, महीसूक्तं च, जुहुयादिति केचिदिति आह मरीचिः।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे तन्त्रसङ्करादि सर्वदोषप्रायश्चित्तविधिर्नाम सप्तसप्ततितमः पटलः ॥ ७७ ॥