अथ षट्सप्ततितमः पटलः
शान्तिभेदः
अथ उत्तमोत्तम मध्यमोत्तम मध्यमाधमास्पृश्यानां यथाक्रमेण अद्भुतशान्तिः प्रभूतशान्तिः महाशान्तिः शान्तिः शुद्धिरिति शान्तिः पञ्चधा भवति।
अद्भुतशान्तिः
तासु अद्भुतशान्तिं वक्ष्ये - देवालयाऽभिमुखे उत्तरे च ऐशान्यां वा, पर्वताग्रे तटाकतीरे वा, मण्टपं प्रपां कूटं वा, षोडशस्तम्भयुतं, चतुर्हस्तप्रमाण- [[३४९]] स्तम्भान्तरं तालोन्नततलयुतं कृत्वा मध्ये श्रामणकाऽग्निकुण्डं कृत्वा अधस्तात् द्वादशाङ्गुलं खनित्वा तत्प्राच्यां द्विहस्तायतविस्तारं हस्तमात्रसमुत्सेधं स्थण्डिलं कृत्वा प्रागादिचतुर्दिक्षु आहवनीयाऽन्वाहार्य गार्हपत्याऽऽवसथ्यकुण्डानि कृत्वा आग्नेयादिषु कोणेषु औपासनाग्निकुण्डानि कृत्वा द्वारेषु तोरणपूर्णकुम्भकदलीपताकाङ्कुर दर्भमालास्तम्भवेष्टनाद्यैरलङ्कृत्य स्थण्डिले धान्यराशिं विकीर्य तन्मध्ये तण्डुलेनाऽष्टदलपद्मं कृत्वा तन्मध्ये स्वर्णरजतताम्रमृत्तिकानामन्यतमेन कृतं, द्वात्रिंशप्रस्थसम्पूर्णं कुम्भं यवान्तरं तन्तुना वेष्टितं वस्त्रयुग्मेनाऽऽवेष्ट्य सौवर्णानि अङ्गुलादहीनानि अष्टमङ्गल पञ्चायुधवर्णचिह्नानि रत्नस्वर्णरजतताम्रकांस्यत्रपुसीसाऽऽयसतीक्ष्णकान्तानि आदित्यादि नवग्रहरूपाणि च विक्षिप्य शुद्धजलेनापूर्य निधाय कर्पूरैलालवङ्गचन्दनोशीरादि सर्वगन्धद्रव्याणि च, अशोकाश्वत्थपल्लवानि च, निक्षिप्य तन्मुखं तन्तुना वेष्टितपिधानेन पिदध्यात्।
आचार्यम् ऋत्विजश्च वरयित्वा नववस्त्रोत्तरीयाङ्गुलीयकाद्यैरलं(कुर्यात्) कृत्य अग्निकुण्डेष्वाघारं हुत्वा आदित्याङ्गारकमन्दबुधसित बृहस्पतिचन्द्रेभ्यः प्रागाद्युदगन्तं प्रदक्षिणं ध्यात्वा आवाह्य अभ्यर्च्य अष्टाक्षरेणायुतम्, अष्टोत्तरसहस्रं वा अभिमृश्य ग्रहशान्त्युक्तविधानेन तत्तद्देवत्यं, चरुसमिधाज्यादीभिर्नित्यमष्टोत्तरसहस्रं हुत्वा श्रामणकाग्नौ बिल्वपत्रैर्धृताऽऽप्लुतैर्नित्यमष्टोत्तरसहस्रमष्टाक्षरेण हुत्वा विष्णुगायत्र्या बिल्वसमिधाज्य चरुस लाजाऽपूप व्रीहितिलदूर्वापद्मैश्च प्रत्येकमाचार्यो हुत्वा आज्येनाऽष्टोत्तरसहस्रमष्टाक्षरेण हुत्वा आज्येन वैष्णवं विष्णुसूक्तं पुरुषसूक्तं च हुत्वा नृत्तगेयवाद्यैराघोष्य चतुर्वेदान् यथादिशमध्याप्य नित्यम् ऋत्विग्भ्यः दक्षिणां दद्यात् एवं सप्ताहम्।
यद्देवालये दोषश्चेत् कुम्भपार्श्वे स्थण्डिले तं देवं संस्थाप्य अभ्यर्च्य हविर्निवेद्य देवसन्निधौ होमं हुत्वा अन्ते नवाहं, सप्ताहं वा, उत्सवं कारयेत्।
दिव्यान्तरिक्षयोः कुम्भजलेन राजानमभिषेचयेत्। भौमेन तं देशं सम्प्रोक्ष्य अवशिष्टजलेन राजानं, राजपत्नीं चाऽभिषेचयेत्। सुवर्णपशुभूम्यादिभिराचार्यं षट्सप्ततितमः पटलः [[३५०]] सम्पूज्य पश्चादृत्विग्भ्यो दक्षिणां दद्यात्। राजगृहे चेत् तत्समीपे मण्टपं कृत्वा पूर्ववत् गृहशान्तिं, श्रामणकाग्निहोमं, कुम्भसाधनं च, कृत्वा सप्ताहान्ते राजानं, कुम्भजलेनाऽभिषेचयेत्।
आचार्यादिभ्यः प्रतिष्ठोक्तदक्षिणां दत्वा अङ्कुरानर्पयित्वा शुभे अनुकूले नक्षत्रे अभिषेकं कृत्वा गृहप्रवेशं च कुर्यात्।
सर्वग्रासोपरागादि दिव्याद्भुतशान्त्यर्थं ब्राह्मणेभ्यः शक्त्यानुकूलं स्वर्णपशुभूम्यादिनि दद्यादिति विज्ञायते॥
अनावृष्टौ कर्तव्यम् अनावृष्टिदोषश्चेच्छीतकुम्भं निदध्यात्। द्वात्रिंशत् प्रस्थसम्पूर्णं कुम्भं सङ्गृह्य पूर्ववत्साधयित्वा सर्वतीर्थमावाह्य, अभ्यर्च्य, देवाभिमुखे धान्यपीठे सौवर्णमष्टदलयुतं पद्मं, हेमपात्रे न्यस्य तस्मिन् देवेशमावाह्य अभ्यर्च्य, तद्योर्ध्वो चतुष्पालिकायां कुम्भं सन्यस्य कुम्भमूले सूचीमात्रं सुषिरं कृत्वा अविच्छिन्नधारया देवेशं सेचयेत्।
वेतससमिद्भिः, पालाशैर्वा, पञ्चवारुणमष्टोत्तरसहस्रं श्रामणकाग्नौ हुत्वा दिशाहोमेषु (अष्टसु प्रत्येकं) अष्टोत्तरसहस्रं पञ्चवारुणं वेतससमिद्भिः जुहुयात्। आज्येन वेतससमिद्भिश्च, प्रत्येकम्, ’इन्द्रं, प्रणयन्त’मित्यष्टोत्तरसहस्रं जुहुयात्। श्रामणकाग्निमेकमेव वा कुर्यात्। तद्दक्षिणे वज्रपाणिमावाह्य अभ्यर्च्य ’शचीसहाये’ति होतव्यम्। देवेशं विशेषतोऽभ्यर्च्य, स्नापनोत्सवादीनि कारयेत्।
एवमेव तत्तत्कर्मगौरवं ज्ञात्वा त्र्यहादि त्रिंशद्दिनान्तं श्रामणकाग्निं सङ्कल्प्य दिनेदिने कुम्भं पूरयित्वा सेचयेत्। तद्दिनान्ते देवस्य स्नपनं कृत्वा अभ्यर्च्य हविर्निवेदयेत्। आचार्यादिभ्यः दक्षिणां दद्यात्। तत्तत्कर्मान्ते समग्रावृष्टिः स्यात्। तस्माद्यत्नतः कुर्यात्॥
[[३५१]]
कल्पान्तरम्
अथवा वर्षार्थो, दुर्भिक्षादिसर्वोपद्रवशान्त्यर्थागो वृद्धिकामौ च, स्नपनालयं पूर्ववदलङ्कृत्य तत्तत्कर्मगौरवं ज्ञात्वा यत्नतो बहुक्षीरं सङ्गृह्य आचार्यं वस्त्रोत्तरीयाद्यैः पूजयित्वा सोऽपि श्वभ्रात्प्राच्यां तण्डुलैर्दक्षिणोत्तराऽऽयतां पङ्क्तिं कृत्वा श्वभ्राद्दक्षिणस्यां श्रामणकाग्निकुण्डं कृत्वा, अग्निमाधाय, नवकुम्भाँस्तन्तुना परिवेष्ट्य, प्रक्षाल्य, कुशेनोत्पूय, उत्पूतेन क्षीरेणाऽऽपूर्य, तत् पत्यां निधाय, पिधानैः पिधाय, अधिदैवमाराध्य, उपरि नववस्त्रेणाऽऽच्छादयेत्।
श्वभ्रपूजान्ते देवं प्रणम्य, स्वस्तिसूक्तेनाऽऽनम्य, (आनीय) श्वभ्रमध्ये प्रतिष्ठाप्य, अर्चयेत्।
तन्तुना वेष्टितकरके क्षीरं गृहीत्वा विष्णुसूक्तं, इषेत्वोर्जेत्वाद्यैरनुवाकैः क्रमात् क्षीरधारया देवं संस्नापयेत्। अग्निं परिषिच्य, विष्णोर्नुकाद्यैः अतोदेवाद्यैः मन्त्रेणाष्टाक्षरेण विष्णुगायत्र्या चाऽष्टाधिकसहस्रं जुहुयात्।
अथवा यावत्स्नपनं तावद्धरिद्राचूर्णेनोद्वर्त्य, आम्लाद्यैस्संशोध्य, गन्धोदकैस्संस्नाप्य, प्लोतेन निमृज्य, वस्त्रोत्तरीयाद्यैरलङ्कृत्य, अभ्यर्च्य, पायसादिहविर्निवेदयेत्। आचार्यादिभ्यो दक्षिणां दद्यात्। तत्तत्कामं सम्पूर्णमसंशयं लभेत।
ध्रुवबेरार्चनं चेत् अनावृष्ट्यादौ कर्तव्यं ध्रुवबेरार्चनं चेत् प्रमुखे च एवमेव संसाध्याऽऽनीय, तत्रैव स्नपनं कुर्यात्। तत्तत्कर्मानुरूपम्, एतेन विधिना त्र्यहं, पञ्चाहं वा, क्षीरस्नानं कारयेत्। एवं घृताभिषेकं वा, कारयेदिति विज्ञायते।
प्रभूतशान्तिः
अथ प्रभूतशान्तिं वक्ष्ये - षट्सप्ततितमः पटलः [[३५२]] पूर्ववन्मण्टपादीनि कृत्वा, कारयित्वा, दिशाहोमं विना श्रामणकाग्नावेव यथोक्तं हुत्वा, पूर्ववत् कुम्भसाधनं कृत्वा सप्ताहान्ते अष्टोत्तरशतम्, अष्टचत्वारिंशद्वा, कलशानभ्यर्च्य अभिषिच्य, देवं विशेषतोऽभ्यर्च्य निवेदयेदिति विज्ञायते।
महाशान्तिं वक्ष्ये कुम्भं विना श्रामणकाग्नौ बिल्वपत्रैराज्याक्तैः अष्टोत्तरशतसहस्रम्, अष्टाक्षरेण हुत्वा आज्येन, वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं च हुत्वा, त्र्यहान्ते शुद्धस्नपनविधिना स्नापयित्वा अर्चयेत्।
एकाहे औपासनाग्नौ शान्तिं जुहुयात्, ब्राह्मणान्भोजयित्वा, आचार्याय दक्षिणां दद्यात्।
शुद्धिः
शुद्धिं वक्ष्ये। वास्तुहोमं हुत्वा, बिल्वपत्राद्यैः प्रत्येकमष्टोत्तरशतं पूर्ववद्धुत्वा, पुण्याहं वाचयेत्। आचार्याय दक्षिणां दत्वा, ब्राह्मणार्हान् भोजयेत्।
घटसंस्कारं सर्वत्र वा कुर्यात्।
सर्वशान्तिः
अथ सर्वशान्तिं व्याख्यास्यामः। अपमृत्युभये महाव्याधिपीडने ग्रहकोपे परसेनाभिभवे महार्थनाशे बन्धुक्षये आभिचारनिपीडने अनावृष्ट्यां पराजिते दुर्भिक्षे दुःखत्रयाभिभवे च सर्वशान्तिमारभेत।
सप्ताहं, नवाहं वा, द्वादशाऽक्षरेण प्रत्येकमष्टोत्तरसहस्रं होमं कुर्यादिति विज्ञायते।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे शान्तिपञ्चकविधिर्नाम षट्सप्ततितमः पटलः ॥ ७६ ॥
[[३५३]]