०७५ उत्पातशान्तिविधिः

अथ पञ्चसप्ततितमः पटलः

अद्भुतशान्तिः

अद्भुतोदयनिमित्तं तत्र शान्त्यकरणे दोषः अथाद्भुतशान्तिं व्याख्यास्यामः। नराणां पापबाहुल्यादपराधबाहुल्याच्च, देवास्सृजन्त्यद्भुतानि। तेषु दृष्टेषु सद्यः शान्तिं कुर्यात् अज्ञानादर्थलोभाद्वा न कुर्याच्चेत् कर्त्राराधकयोर्ग्रामस्य च महद्भयं राज्ञो राष्ट्रस्य च क्षोभश्च जायते।

शान्तिकरणे कालः तस्मात् द्वादशाहाभ्यन्तरे शान्तिं कुर्यात्। द्वादशाहातीते महाशान्तिं हुत्वा वैष्णवान् सम्पूज्य शक्तितो दक्षिणां दत्वा आरभेत्। मासे अतीते महाशान्तिं सप्ताहं हुत्वा विप्रशतं भोजयित्वा देवमनुमान्य कुर्यात्। षण्मासातीते भगवान्न रमेत। तस्मात्सर्वप्रयत्नेन शान्तिमारभेत।

अद्भुतानां त्रैविध्यम् अद्भुतानि त्रिविधानि - दिव्यानि, आन्तरिक्षाणि, भौमानि चेति।

तत्र दिव्यानि दिव्यानि ग्रहविकार, ग्रहयुद्ध भेदाऽनावृष्टि, सर्वग्रासोपराग, नक्षत्रभेदानीत्येवमादीनि।

अन्तरिक्षाणि

आन्तरिक्षाणि निरन्तरपरिवेषो वर्णान्तरबहुलपरिवेषो रात्राविन्द्रचापम्, आकाशे देवसद्म अशन्युल्कापातराहुपुच्छदर्शन, पतन, धूमेन्द्रकेतु, प्रतिसूर्य, नक्षत्रपुच्छप्रतिचन्द्रादीनि।

पञ्चसप्ततितमः पटलः [[३४६]]

भौमानामनेकत्वम्

भौमानि चरस्थिरभावादनेकधा।

तत्र चरेषु भौमानि चरेषु - देशकालस्वभावविरुद्धयुग्माधिकप्रसूतिः वानर सर्पाश्वमार्जारादियोनिजानां, नाग गो हय महिषादि विपरीतयोनिजननं, पक्षिसर्पक्रिमि कीटादिविपरीतवर्ण विपरीताकार विपरीतालयवास विपरीताश्रयाश्च, आलये रक्तशिथिलीसर्पदर्शनमित्येवमादीनि।

तेषां दिव्यान्तरिक्षभवानि उत्तमोत्तमानि। नरभवानि उत्तमानि।

नागगोहयमहिषादिभवानि मध्यमानि। पक्षिसरीसृपादिभवानि अधमानि।

स्थिरेषु भौमानि स्थिरेषु प्रतिमारोदन, हसन, जल्पन, परिवर्तन, स्वेद, रुधिरस्राव, ज्वलन धूमीकृताङ्ग, क्रिमिकीटपतङ्गाद्युद्भवाकालस्फोटन, धूमाऽङ्गकम्पन, स्वापन, तृण, वल्मीकोद्भव, रक्तस्त्रीदर्शन, प्रतिलोम, पतित, पाषण्डान्त्यजाति, सृगालादिवर्णाऽस्पृश्यस्पर्शन, प्रवेशन (स्थूणा) स्तम्भविरोहण, चलन, परिवर्तनाऽपसर्पण, भित्तिकवाटासन, शयनायुधानि अ(धाऽ)ग्निहोत्रापस्करविकार मक्षिका वृक्षपतनप्र(परि)वर्तनोपसर्पण फलपुष्प पत्रशाखादि विपरीतदर्शन जलरक्तस्रावादीनि।

तेषां स्थानभेदात् तेषु बेरपीठ गर्भगृहभवानि ब्राह्मण राज राष्ट्रविनाशकारणानि। विशेषेण कर्त्राराधकयोश्च प्रासादोत्पन्नानि क्षत्रियस्य। प्रासादे अधिष्ठान पादप्रस्तर ग्रीवाशिखरोद्भवानि क्रमेण क्षत्रियवंशोद्भव मुख्याभिषेकयोग्ययुवराजाऽभिषिक्तमहाराजानामातङ्कभयानावृष्टिकराणि प्रथमावरणे वैश्यजातीनां, [[३४७]] मन्त्रिपुरोहितस्य, माण्डलिकानां च भयावहं, प्राणपीडादि भयप्रदं च।

द्वितीयावरणादिषु, शूद्रजातीनां सर्वदुःखकरम्। सस्यनाशनम्, गजाश्वाजमहिषपशूनां नाशकरम्, अग्निकुण्डे पुरोहितस्य, चतुर्मुखस्थाने द्विजातीनां, रुद्रालये सर्वजातीनां, गुहालये नृपस्य, मण्डलिकानां च वक्रतुण्डालये सेनेशानां, श्रियआलये राजपत्नीनां, दुर्गास्थाने अन्यस्त्रीणां, मातृस्थाने निकृष्टजातीनां, सोमस्थाने चौषधीनां, भास्करालये नृपवाहनशस्त्रजीविनाम्, अन्यदेवालये तत्तद्भक्तानामपि लक्षयेत्। आस्थानमण्टपसभामण्टपराजवेश्म प्राङ्गणक्रीडास्थान महानसाऽऽचार्य यजमानादि सर्वेतर वर्णवेश्मचैत्यवृक्षादिषु सम्भूतानां वल्मीकरक्तस्त्रीदर्शन मक्षिकादीनां फलानि दिविभागेन विज्ञेयानि।

भौमेषु उत्तमत्वादि अथ भौमेषु देवबेराऽर्चापीठ गर्भगृहाभ्यन्तरेषु उत्पन्ना दोषा उत्तमोत्तमाः।

प्रथमावरणे मध्यमाः। शेषेष्वधमाः। राजवेश्मनि उत्तमोत्तमाः। परितोऽङ्कणे उत्तमाः। अन्तर्वास्तुके मध्यमाः। बहिर्वास्तुकेषु अधमाः।

दिव्यादिषु

दिव्यान्तरिक्षयोश्चिकित्सा नास्ति। शान्तिर्भवति। भौमेषु चरेषु निमित्तनैमित्तिकौ देशान्तरे वासयित्वा, शान्तिमारभेत। स्थिरेषु प्रतिमारोदन हसनज्वलनेषु तरुणालये बेरं संस्थाप्य तद्बेरस्थां शक्तिं समारोप्य शान्तिं कृत्वा पुनः स्थापनमाचरेत्।

परिवर्तने समारोपणाऽनन्तरे शिल्पिना, अन्येन वा, पुनः स्थापनं कृत्वा पूर्ववच्छान्त्यादिकमाचरेत्।

स्वेदरुधिरस्रावयोश्च रोदनवदाचरति। क्रिमिकीट पतङ्गतृणकवकाद्युद्भवे पूर्ववच्छक्तिं समारोप्य पुनस्सन्धानं युक्तितः कृत्वा शान्त्यादीन्याचरेत्।

पञ्चसप्ततितमः पटलः [[३४८]] अकालस्फोटनादिकेऽपि तद्वद्वल्मीकोद्भवे देवबेरार्चापीठालयाभ्यन्तरेषु तरुणालये देवं प्रतिष्ठाप्य यावद्दोषदर्शनं तावत् खनित्वा सर्वत्र संशोध्य पञ्चगव्यादिनाऽभ्युक्ष्य पुनस्सन्धानं कृत्वा पुनः स्थापनमाचरेत्।

प्रासादबाह्ये शैलेष्टकाविवरे चोत्पन्ने सूक्ष्मशस्त्रेण शिल्पिना, अन्येन वा, व्यवशसिते रन्ध्रे वा, हिङ्गुमरीचादीनि जले पेषयित्वा आपूर्य, अश्मना शर्करानालिप्य, दिव्यशान्तिं कुर्यात्। पुनरुत्थितं चेत् एवं समाचरेत्।

मक्षिकादर्शने तद्व्यपोह्य शुद्धिं कृत्वा शान्तिमारभेत।

अस्पृश्यस्पर्शने शुद्धिं कृत्वा शान्तिं समाचरति।

स्थूणादिरोहणादिषु पुनस्सन्धानं कृत्वा शान्तिमारभेत।

अकारणे वृक्षपतनादिषु तत्सन्त्यज्य; शान्तिं कुर्यात्।

राजगृहे चोत्पन्ने राजानं वेश्माऽन्तरं प्रवेश्य, शान्तिं कृत्वा पुनरभिषेकं कृत्वा देवब्राह्मणानुज्ञया पुनर्गृहप्रवेशं कारयेत्॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे उत्पातशान्तिविधिर्नाम पञ्चसप्ततितमः पटलः ॥ ७५ ॥