०७४ आचार्यसङ्करयोगभोगादिसङ्करविधिः

अथ चतुःसप्ततितमः पटलः

आचार्यसङ्करे

अथाचार्यं कर्षणकाले वरयित्वा कर्षणादीनि प्रतिष्ठान्तानि, नित्यार्चनस्नपनोत्सवप्रायश्चित्तं विशेषार्चनादीनि नित्यनैमित्तिककर्माणि, सर्वाणि च, तेनैव कारयेत्। अचार्याभावे तत्पुत्रं, पौत्रं, नप्तारं, तद्वंशजं वा कारयेत्।

अयुक्तश्चेत्तमनुज्ञाप्य (ते अयुक्ताश्चेत् ताननुज्ञाप्य) पूर्ववदन्यमाचार्यं वरयेत् तदभावे तच्छिष्यं प्रशिष्यं वा वरयेत्।

आचार्यसन्निधौ नान्यमाचार्यं वरयेत्। यदि वरयेत् तत्स्थानस्य, ग्रामयजमानयोश्च आशु विनाशो भवति। राज्ञो, राष्ट्रस्य च, परचक्रभयं भवति।

तदर्चनं निष्फलं भवति। तस्मादाचार्यसङ्करं न कुर्यात्। अज्ञानादर्थलोभाद्वा आचार्य सङ्करे सति, पौण्डरीकाग्नौ महाशान्तिं हुत्वा आचार्यं नमस्कृत्य ’क्षमस्वे’ति याचित्वा पूजयित्वा तेनैव तत्तत्कर्म पुनरपि कारयेत्।

आचार्यादीनामलाभे

आचार्यादीनामलाभे तद्रूपं पटे लिखित्वा तं नमस्कृय तत्सन्निधौ अन्यं युक्तमाचार्यं वरयेत्। एकस्मिन् काले बहुकर्मणि(सु) प्राप्ते(षु) सति, (त्सु) आचार्यं प्रणम्य, तद्विधिना तत्पुत्रादिभिः कारयेत्। तदलाभे त्वाचार्य एव तन्त्रयित्वा करोतीति विज्ञायते।

चतुःसप्ततितमः पटलः [[३४४]] योगमार्गेण प्रतिष्ठितस्य मार्गान्तरेण प्रतिष्ठाकरणे दोषः पूर्वं योगमार्गेण (वा) प्रतिष्ठाप्य, अर्चने प्रवर्तमाने पश्चात्तस्य देवीभ्यां सह प्रतिष्ठां कारयेच्चेदाभिचारिकं भवति।

(पूर्वं ध्रुवकौतुकसंयुक्ते अर्च्यमाने पश्चाद्विमानध्रुवयोर्विनाशश्चेत् ध्रुवार्चनमेव ब्रह्मस्थाने प्रतिष्ठाप्य विधिवदर्चयेत्। तत्तत्कौतुकबिम्बमुत्सवार्थं प्रतिष्ठापयेदिति केचित्) स्थानकासनशयनेषु व्यत्यासे व्यवस्था स्थानकेचासनं शयनं वा कर्तुरिच्छया कुर्यात्। आसने स्थानकं विना, शयनमेव कुर्यात्। शयने स्थानकासने न कारयेत्। कौतुकं स्थितमौत्सवमासीनं कौतुकमासीनमौत्सवं स्थितं वा कारयेत्। स्नपनबलिबेरं च सर्वत्र स्थितमेव कारयेत्।

अवतारादीनां कौतुकबेराणि सङ्कराणि चेत् प्रायश्चित्तम् अवताराणां, पञ्चमूर्तीनां च, कौतुकबेराणि अन्योन्यसङ्करेण स्थापयेच्चेन्महत्तरो दोषो भवति। तद्दोषशमनार्थं महाशान्तिं हुत्वा यथास्थाने स्थापयेत्।

कौतुकादीनां पुनःप्रतिष्ठासमये साङ्कर्येऽपि दोषाभावः पुनःप्रतिष्ठाकाले कौतुकस्नापनोत्सवबलिबेराणामन्योन्यसङ्करस्थापनं निर्दोषमित्याचष्टे मरीचिः।

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे आचार्यसङ्करयोगभोगादिसङ्करविधिर्नाम चतुस्सप्ततितमः पटलः ॥ ७४ ॥

[[३४५]]