०७३ कौतुकादिजीर्णबेरपरित्यागविधिः

अथ त्रिसप्ततितमः पटलः जीर्णे बेरे सति दोषः तत्त्यागप्रकारश्च अथ जीर्णबेरपरित्यागविधं वक्ष्ये - सद्यस्तद् बेरत्यागं न कुर्याच्चेत् कर्त्राराधकयोर्ग्रामस्य च महद्भयं स्यात्। तस्मात्सर्वप्रयत्नेन जीर्णं सर्वं संशोध्य, नववस्त्रैराच्छाद्य दर्भरज्जुभिर्बद्ध्वा ब्राह्मणैरेव वाहयित्वा समुद्रगां नदीम् अन्यमशोष्यजलाशयं वा, गत्वा तत्तीरे प्रपां कृत्वा अग्निमौपासनमाधाय आघारं हुत्वा वैष्णवं शतशो हुत्वा दद्भ्यः स्वाहेत्यङ्गहोमं व्याहृत्यन्तं हुत्वा त्रिसप्ततितमः पटलः [[३४२]] वस्त्रबन्धं विमोच्य आचार्यः प्राङ्मुख उदङ्मुखो वा वारुणं, वैष्णवं च, जप्त्वा तज्जले प्रक्षिप्य तत्तीर्थे स्नानं कुर्यात्। दारवं चेदेवमेव कृत्वा वह्नौ दाहयित्वा तद्भस्म जले प्रक्षिपेत्। देव्यादि परिषद्देवानां तत्तन्मन्त्रं, वैष्णवं च, हुत्वा तथैव भस्मजले प्रक्षिपेत्। पश्चादाचार्यदक्षिणां दत्वा आलयमाविशेत्।

कौतुकादीनामङ्गहीने अङ्गादिस्वरूपं च कौतुकादीनामङ्गहीने सति (कर्तव्यम्) उदर वक्षः कण्ठशिरांसि महाङ्गानि, पादहस्तबाहवोऽङ्गानि, अङ्गुलीकर्णनासादयः प्रत्यङ्गानि, अम्बराऽऽभरणाऽऽयुधशिरश्चक्रपीठ प्रभामण्डलानि उपाङ्गानि इत्याचक्षते।

उपाङ्गहीने प्रायश्चित्तं तस्मादुपाङ्गे हीने पूर्ववत् कुम्भं संसाध्य तच्छक्तिं कुम्भे समावाह्य तद्बिम्बस्य पुनस्सन्धानं कृत्वा जलाधिवासादीनि कृत्वा वास्तुहोमं हुत्वा पञ्चगव्यैः कुशोदकैश्च संस्नाप्य सप्तभिः कलशैः संस्नाप्य कुम्भस्थां शक्तिं तद्बिम्बे समावाह्यार्चयेत्॥

प्रत्यङ्गहीने प्रायश्चित्तम् प्रत्यङ्गे हीने तच्छक्तिं महाबेरे समारोप्य बिम्बमुद्धृत्य पञ्चगव्यैः प्रोक्ष्य तुल्यलोहेन सन्धानं कृत्वा जलाधिवासादीनि कृत्वा पुनः प्रतिष्ठां कारयेत्।

अङ्गहीने प्रायश्चित्तम् अङ्गहीने तद्बेरं सन्धानयोग्यं चेत्तथैव कुर्यात्। अयुक्तं चेन्महाङ्गे हीने च बेरं भूमौ पिधाय तस्योपरि अङ्गहोमं हुत्वा महाशान्तिं च हुत्वा तद्दिने अतीते बिम्बमुद्धृत्य पञ्चगव्यैः प्रक्षाल्य अग्नौ क्षिप्त्वा त्रिशुद्धिं कृत्वा राजतं चेत् द्विर्दग्ध्वा रौक्मं चेत्सकृद्दग्ध्वा तद्द्रव्येण पूर्ववत् बिम्बं कृत्वा पुनः प्रतिष्ठां कारयेत्।

[[३४३]] पटादावालिख्याऽर्चितस्य जीर्णे कर्तव्यम् पटे कुड्ये वा; आलिख्याऽर्चितं बेरं जीर्णं चेत् तच्छक्तिमर्कमण्डले समारोप्य नवीकृत्य पुनःप्रतिष्ठामाचरेत्।

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे कौतुकादिजीर्णबेरपरित्यागविधिर्नाम त्रिसप्ततितमः पटलः ॥ ७३ ॥