अथ द्विसप्ततितमः पटलः अथ ध्रुवबेरप्रायश्चित्तं वक्ष्ये।
ध्रुवबेरस्य चातुर्विध्यं ध्रुवबेरं चतुर्विधं ताम्रजं, शैलजं, मृण्मयं, दारवं चेति।
ध्रुवस्य ताम्रजत्वे कर्तव्यं ताम्रजं, षण्मानसहितं पादपद्मं सनालं कृत्वा कौतुकस्योक्तविधिनाक्ष्युन्मेषा अधिवासौ कृत्वा अचलं कृत्वा संस्थाप्य देव्यौ च संस्थापयेत्।
पर्वणि बेरशुद्ध्यर्थं शुद्धोदकैस्संस्नाप्य वस्त्रमाल्याऽभरणैरलङ्कृत्य पुष्पन्यासं कृत्वा मुन्यादिसर्वपरिषद्देवान् शैलानेव कारयेत्।
ध्रुवस्य शैलत्वे शैलं ध्रुवबेरं चित्रं चित्रार्धं वा कृत्वा पूर्वोक्तविधिना बेरं सन्यस्य तद्द्रव्येण देव्यादि तदालयगतदेवांश्च कारयेत्। अथवा शैलं ध्रुवबेरं षण्मानसहितमेव कृत्वा पश्चादक्ष्णोर्भ्रुवोरधरोत्तरोष्ठयोः करपादतलनखकिरीटाऽऽद्याभरणेषु च तत्तद्वर्णं समालेपयेत्।
ध्रुवस्य मृण्मयत्वे दारवत्वे च मृण्मयं दारवं वा यदि भवेत् तद्द्रव्येण परिषद्देवाँश्च कारयेत्।
[[३३९]] सवर्त्र पक्षान्तरम् अथवा सर्वत्र वर्णहीनं शैलमेव कारयेदित्येके॥
शैलबेरस्याङ्गोपाङ्गहीने
शैलस्यार्धचित्रस्य बेरस्याङ्गोपाङ्गप्रत्यङ्गेषु हीनेषु तच्छक्तिहानिर्नेष्टा।
तस्माच्चित्रं (शक्तिं) बालागारं नीत्वा तद्बेरं भूमौ पिधाप उपरि महाशान्तिम् अब्जाग्नौ हुत्वा शिलाग्रहणवद्धुत्वा तत्तदङ्गसमुत्पत्तिं युक्त्या तक्ष्णा तु कारयेत्॥
बेरस्य महाङ्गे हीने महाङ्गे हीने अङ्गोत्पत्तिविनाशश्चेत्, तद्बेरं विधिना विसृज्य शिलाग्रहणं कृत्वा यथापूर्वं तथाचरेत्॥
सन्धानयोग्यबेरत्यागे
सन्धानयोग्यबेरं यस्त्यजेत् स पापीयान् भवति, सर्वविनाशश्च भवति।
तस्मात्सर्वप्रयत्नेन सन्धानं कारयेत्॥
ध्रुवार्चयोः करणायोगे अथवा ध्रुवबेरमर्चाबेरं पूर्ववत्कर्तुमयुक्तं चेत् ध्रुवार्चाबेरमेकमेव कृत्वा प्रतिष्ठाप्य अर्चयेदिति केचित्॥
एकबेरपक्षे तस्याङ्गहीने एकबेरं प्रतिष्ठाप्य अर्चने प्रवर्तमाने तस्याङ्गादिषु हीनेषु सन्धानं कृत्वा पूर्ववत्स्थापयेत्। तद्बेरं त्याज्यं चेद्विधिना विसृज्य यथापूर्वं तथाचरेत्॥
ध्रुवार्चाबेरस्य स्थानम् अशक्तश्चेत् ध्रुवबेरमर्चाबेरं च देवीभ्यां सहितं रहितं वा कृत्वा संस्थापयेत्।
मृदालये ब्रह्मस्थाने ध्रुवार्चाबेरमाहरेत्॥
द्विसप्ततितमः पटलः [[३४०]] तस्य देवीम्यां स्थानकरणेच्छायां तस्य देवीभ्यां युक्तं शिलादिभिर्विमानं कर्तुमिच्छेच्चेत् देवो दैविकभागस्थो यथा तथा विमानं परिकल्प्य ब्रह्मस्थाने कौतुकं लोहजं जङ्गममेव कुर्यात् कौतुकं शैलं चेत् तस्मिन् स्थावरमेव प्रतिष्ठापयेत्।
मृण्मयविमाने ध्रुवार्चने सति शैलविमानकरणेच्छायाम् मृण्मये विमाने ब्रह्मस्थाने लघुबेरं प्रतिष्ठाप्य, अर्चने वर्तमाने पश्चात् ध्रुवबेरं शिलादिभिर्विमानं कर्तुमिच्छेच्चेत् तद्धस्तवशेन विमानं परिकल्प्य, दैविकभागे देवीभ्यां सह देवं प्रतिष्ठाप्य पूर्वार्चितं बेरं कौतुकार्थं तस्योत्तरे चोत्सवं बलिबेरं च प्रतिष्ठापयेत्।
पुनर्विमानकरणे विशेषः पूर्वं मृदालये ध्रुवार्चाबेरे अर्च्यमाने पश्चाच्छिलाभिरिष्टकाभिर्वा विमानं कर्तुमिच्छेत्, तस्य बेरस्य रक्षार्थं शिल्पिस्पर्शविघातार्थं च बालधामवत्काष्ठेन पञ्जरं कृत्वा तस्याधस्तात् सशल्यं चेत् येन केनचित् संशोध्य युग्महस्तेन तद्बेरवशाद्वा सौधं कृत्वा तद्बेरसमविस्तारमधमम्, अध्यर्धं मध्यमं, द्विगुणमुत्तमं, समचतुरश्रं कृत्वा तस्य चतुर्भागं त्रिभागमर्धं वा गर्भागारं तच्छेषं भित्तिविष्कम्भं समण्टपं विमानं पूर्ववत् कारयेत्। शिलेष्टकामिश्रविमाने तस्य भागान्ते वर्गान्ते वा मिश्रं कारयेत्। एवं कर्तुमशक्तश्चेत्तस्याऽधिष्ठानादूर्ध्वं यथेष्टस्थाने मिश्रद्रव्येण कारयेत्।
ध्रुवबेरे वर्णक्षयादौ ध्रुवबेरे वर्णक्षये, स्फुटितादिदोषसम्भवे च, अल्पदोषे, ध्रुवबेरस्थानं शक्तिं कुम्भे अम्भसि समावाह्य तत् कुम्भं कौतुकादींश्च, समादाय मालिकायां मण्टपे वा सन्यस्य कुम्भस्थां शक्तिं कौतुकादिषु समावाह्य वेलायां कुम्भे समारोपयेत्।
[[३४१]] दिनद्वये अतीते अन्यत्कुम्भं समादाय साधयित्वा कुम्भात् शक्तिं कुम्भे समावाह्य अर्चयेत्।
दिनत्रये चैवं कुम्भशोधनं कृत्वा समाचरेत्।
पश्चाद्वर्णानुलेपनादीनि कृत्वा संशोध्य वास्तुहोमं हुत्वा पुण्याहं वाचयित्वा ध्रुवबेरशुद्धिं कुम्भं बिम्बं च समादाय, अभ्यन्तरं प्रविश्य कौतुकादीन् संस्थाप्य पूर्ववदक्षरन्यासादीनि कृत्वा कुम्भस्थां शक्तिं ध्रुवबेरे समारोप्य, ध्रुवबेरात्कौतुकादिषु समावाह्य अर्चयेत्।
दोषगौरवान्मासादूर्ध्वं कालमपेक्षितं चेत् देवं बालालये प्रतिष्ठाप्य मृण्मयं चेद्दारुशूलं शोधयित्वा शैलं चेच्छिलान्तं शोधयेत्।
नवमूर्त्यादितले दुष्टे नवषट्पञ्चमूर्तिविमाने यत्तलं दोषदुष्टं तत्तलं समुद्दिश्य; बालस्थानं प्रकल्प्य कौतुकादीन् संस्थाप्य अर्चयेत्। पश्चान्निर्दोषे तले कौतुकादीन् समभ्यर्च्य पुनः स्थापनं कृत्वा अर्चयेत्।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे ध्रुवबेरप्रायश्चित्तविधिर्नाम द्विसप्ततितमः पटलः ॥ ७२ ॥