अथ एकसप्ततितमः पटलः
पुनर्बालालयविधिः
अथ पुनर्बालालयविधिं वक्ष्ये।
महाबेरे विमाने च, पतिते, जीर्णे छिन्ने, अङ्गहीने, अशनिहते, वाताहते, क्षीणवर्णे, गर्भालयस्थलभ्रंशे, स्थानगर्भपीठविनाशे चण्डालाद्यस्पृश्यप्रविष्टे वा, अचिरादेव बालालये देवं प्रतिष्ठापयेत्।
बालालये अर्च्यमानेऽपि स्थानसङ्कटे, चण्डालाद्यशुच्यधिष्ठिते, नद्यादिभिः स्थाननाशे वा सति, अन्यत्र मनोरमे यथेष्टदेशे पूर्ववत्कर्षणादि पुनस्संस्कारं कृत्वा, प्रथमे प्रथमं, द्वितीयं वा, बालालयं कृत्वा तद्बिम्बमानीय प्रतिष्ठाप्य, पश्चान्मूलालयं कुर्यात्।
विमानबाह्यस्थाङ्गादिहीने तृणादिना भिन्ने च कर्तव्यम् बाह्ये चाऽङ्गोपाङ्गहीने तृणगुल्मवल्मीकमाक्षिकपादपाद्यैर्भेदे सति अत्र बालालयस्थानं विना तद्विमानशक्तिं तदङ्गदेवाँश्च महाबेरे समारोप्य नवीकृत्य विमानप्रतिष्ठोक्तविधिना विमानप्रतिष्ठां कारयेत्।
विमानध्रुवयोर्विनाशे कर्तव्यं विमानध्रुवयोर्विनाशे कौतुकादीन् बालागारे कालविज्ञापनं प्रार्थनामन्त्रं च विना प्रथमतरुणालयप्रतिष्ठोक्तविधिना प्रतिष्ठाप्य अर्चयेत्। तस्य काले अतीते न दोषाय भवति।
संस्काराङ्गहानौ कर्तव्यं यद्यत्संस्कारहानिरङ्गहानिश्च भवति, बालाऽगारं कृत्वा तत्तत्संस्कारं कृत्वा तस्योपरि सन्धानं कारयेत्।
[[३३३]]
कौतुकादिविनाशे
कौतुकादीनां च विनाशे, ध्रुवार्चाबेरे तद्विमाने च जीर्णादिदोषसंयुक्ते, पुनर्बालागारं सङ्कल्प्य यथालाभमानेन दारवं बिम्बमाहृत्य प्रथमतरुणालय प्रतिष्ठोक्तविधिना प्रतिष्ठाप्य अभ्यर्च्य कौतुकादीन्सङ्कल्प्य प्रतिष्ठापयेत्।
दारवे खण्डस्फुटितादिदोषसम्भवे (कौतुकादीनामलाभे) तस्मिन् दारवे खण्डस्फुटितादि दोषसंयुक्ते, अन्यद्दारवं बिम्बम् आहृत्य बेराच्छक्तिमावाह्य, प्रतिष्ठाप्य तद्बेरं विधिना त्यक्त्वा मूलालये मूलबेरं कृत्वा प्रतिष्ठापयेत्।
बालागारस्थानम्
बालागारस्थानं मूलागारस्य मध्यसूत्राद्दक्षिणे भागे प्रथमावरणे द्वितीये वा मालिकाभित्तिमध्ये अङ्गणे मण्डपादिषु मनोरमे यत्र परिहारोऽस्ति तत्र बालागारं प्रकल्पयेत्। द्वितीयावरणादूर्ध्वमनारम्भणीयम्।
एकहस्तादित्रिहस्तान्तं विस्तारं विस्तारादध्यर्धं पादोनद्विगुणं वा उत्सेधं, तदुत्सेवं पञ्चधा कृत्वा एकांशमधिष्ठानं द्व्यंशं भित्त्युच्चं द्व्यंशं शिखरं लुपोपरि तृणाच्छन्नं मृण्मयं तद्भित्तिविष्कम्भं मूलालयस्याऽऽदितलपादविष्कम्भसमं तद्द्विगुणं, चतुर्गुणं वा, तदवशिष्टं नालीगृहं, तरुणालयं मण्टपादिषु चेत्तद्भित्त्या सह नालीगृहं यथालाभभित्तिकं, मुखमण्टपसहितं, रहितं वा, त्रिवर्गेष्वपेक्षितमेव कारयेत्। समं त्रिपादमर्धं वा मुखमण्टपं, पूर्वापरायतं, दक्षिणोत्तरायतं समं वा तरुणालयमेवं कुर्यात्।
गर्भालये कौतुकादिस्थापनस्थानं गर्भालयं पञ्चविंशतिभागं कृत्वा मध्ये चैकं ब्राह्मं तत्परितोऽष्टभागं दैविकं, तत्परितः षोडशभागं मानुषं, भवति। कौतुकं ब्रह्मस्थाने प्रतिष्ठापयेत् एकसप्ततितमः पटलः [[३३४]] उत्तमं, दैविके मध्यमं, मानुषे अधमं, स्नपनोत्सवबलिबेराणि दैविकमानुषयोरेव स्थापेयत्।
ध्रुवपीठविस्तारादि
प्राणपीठं यथालाभाऽऽयतविस्तारोत्सेधं, त्रिमेखलम् एकमेखलं वा, रत्नन्यासविहीनं कुर्यात्।
आलयाभिमुखे बालागाराग्रे वा, पूर्ववद्यागशालां कृत्वा, तोरणाद्यैरलङ्कृत्य, सम्भारान् सम्भृत्य स्थापकान् ऋत्विजश्च वरयेत्। यागशालामध्ये शय्यावेदिं तद्भित्तिसमानां चतुरश्रां पादहीनाम् अर्धहीनां वा, तत्तुरीयांशोत्सेधां कृत्वा, पूर्ववत्पञ्चाग्नीन् त्रेताग्नीन् एकाग्निं वा, सङ्कल्प्य पर्यग्निपञ्चगव्याभ्यां यज्ञागारं बालागारं च संशोध्य, पुण्याहं वाचयित्वा, अग्निकुण्डेषु आघारं हुत्वा, प्रधानाग्निं परिषिच्य, विष्णुगायत्रीं वैष्णवं विष्णुसूक्तं पुरुषसूक्तम् एकाक्षरादिसूक्तं श्रीसूक्तं महीसूक्तं पञ्चवारुणं जयान् अभ्यातानान् राष्ट्रभृतो मिन्दाहुतीःविच्छिन्नं समृद्धिं च प्रत्येकं वैष्णवयुक्तं हुत्वा, विष्णुगायत्र्या श्वेताब्जं बिल्वपत्रं वा, आज्याक्तमष्टोत्तरशतं जुहुयात्। एतत्सर्वदोषोपशमनं भवति।
अनन्तरं कर्तव्यम् पश्चात् रात्रिपूजावसाने देवं विशेषतोऽ भ्यर्च्य हविर्निवेद्य कौतुकादिषु शक्तिं महाबेरे समारोप्य, तत्काले पूर्ववत्कुम्भमाहृत्य तन्तुना परिवेष्य ’शुचीवोहव्या’ इति प्रक्षाल्य ’धारा’स्वित्यपामुत्पवनं कृत्वा अद्भिरापूर्य ’इदमापः शिवा’ इत्यभिमृश्य वस्त्रयुग्मेनावेष्ट्य नवरत्नपञ्चायुधाऽष्टमङ्गलवर्णचिह्नानि विष्णुगायत्र्या पृथक्पृथक् प्रक्षिप्य अभ्यन्तरं प्रविश्य देवाग्रे धान्योपरि कुम्भं सन्न्यस्य उत्तराभिमुख आसित्वा समाहितो देवं ध्यायन् एवं प्रार्थयेत्॥
[[३३५]] अनर्हमेतत्त्वद्गेहं जीर्णं तूर्णं व्यपोह्य च।
किञ्चित्कालं च देवेश त्वयात्र स्थीयतां विभो!॥
यावद्वयं नवं कृत्वा प्रतिष्ठां कारयामहे।
प्रसादं कुरु तावत्त्वम् अस्मिन्गेहे जगत्पते!॥
इत्युक्त्वा त्र्यब्दं, द्व्यब्दम्, अब्दं वा, कालावधिं सङ्कल्प्य कुम्भे अम्भसि देवं देव्यादिसर्वपरिषत्सहितं ध्या(यन्)त्वा आवाह्य आचार्यः शिरसा कुम्भं धारयन् अग्रतो गच्छेत्। तमनुस्थापका बिम्बान्यादाय, यज्ञालये स्नानश्वभ्रे प्रतिष्ठाप्य पूर्ववच्चतुर्दशकलशैस्संस्नाप्य वस्त्राद्यैरलङ्कृत्य अभ्यर्च्य शय्यावेद्यां धान्योपरि पूर्ववत्पञ्चशयनानि वासांसि वा आस्तीर्य प्रतिसरं बध्वा तथैव शाययित्वा उत्तराच्छादनं कृत्वा प्रधानाऽग्निं परिषिच्य पूर्ववद्धौत्रं प्रशंस्य आवाहनादीनि कृत्वा अग्निषु पूर्ववदुक्तहोमं हुत्वा प्रधानाग्नौ स्रुवेणाऽऽज्यमादाय विष्णुगायत्रीं, वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तम्, एकाक्षरादिसूक्तं, श्रीभूमिदेवत्यं च, (त्रिः) हुत्वा पश्चात्सर्वदेवत्यं, तदालयगतपरिषद्देवत्यं वा, हुत्वा रात्रिशेषं व्यपोह्य प्रभाते स्नात्वा देवाऽगारं प्रविश्य देवं प्रणम्य देवं प्रणवेनोत्थापयेत्। आचार्यादीन् सम्पूज्य दक्षिणां दद्यात्।
अग्निं प्रज्वाल्य स्विष्टाकारं, पूर्णाहुतिं च, हुत्वा अग्निं विसृज्य आचार्यः शिरसा कुम्भं धारयन्, शकुनसूक्तं जपन्नग्रतो गच्छेत्। स्थापका हस्ताभ्यां देवमादाय सर्ववाद्यसमायुक्तं सर्वालङ्कारसंयुक्तं तोयधारापुरस्सरम् आलयं परीत्य (प्रदक्षिणीकृत्य) अभ्यन्तरं प्रविश्य स्थिरराशिं विहाय ’प्रतद्विष्णु’रिति मन्त्रेण प्राणपीठे देवं प्रतिष्ठाप्य दक्षिणे देवीं, श्रियं, वामे हरिणीं च, तत्तन्मन्त्रेण संस्थाप्य देवपादं स्पृशन् विष्णुसूक्तं जप्त्वा; पूर्ववदक्षरन्यासादीनि कृत्वा ’इदं विष्णु’रिति कुम्भस्थां शक्तिं कूर्चेनाऽऽदाय ’आयातु भगवा’निति कौतुकस्य मूर्ध्नि ’’विष्णुमावाहयामी’ति संस्राव्य आवाहयेत्।
एकसप्ततितमः पटलः [[३३६]] दक्षिणे देवीं श्रियं, वामे हरिणी’ मित्यावाह्य देवं परितोऽभ्यन्तरपरिषद्देवान् ब्रह्माणं, शङ्करं, पूजकमुनिं चाऽऽवाह्य गर्भालये कौतुकाद्दक्षिणे वामे वा मुखमण्टपदक्षिणे वामे वा स्नपनोत्सवबलिबेराणि संस्थाप्य कौतुकादावाहयेत्॥
एकविमाने स्थापनक्रमः एकविमाने पञ्चानां कौतुकानां सहैव स्थापनं चेत् पूर्वं विष्णुमूर्तिं समावाह्य तस्मात्पुरुषादीन् चतुरो दीपाद्दीपमिवाऽऽवाहयेत्॥
अवताराणां सत्त्वे यदि स्युरवताराः विस्तीर्णे देशे समानीय आवाह्य अर्चयेत्॥
धात्रादीनां बालालयः धात्रादिविष्णुभूतान्तानां तदालयस्थ परिषद्देवानां सर्वेषाम्, आलयेषु ध्रुवकौतुकसंयुक्तेषु सत्सु ध्रुवबेराणि जीर्णादिदोषयुक्तानि चेत् तरुणालयं परितोऽलीन्द्रं कृत्वा तत्र सर्वान् परिषत्कौतुकबिम्बान् तत्तत्प्रदेशे प्रतिष्ठाप्य अर्चयेत्। निर्दोषपरिषद्देवानां तत्र तत्र अर्चनादीनि कारयेत्।
बालालयेऽपि उत्सवादिकर्तव्यं स्थापकाद्यैस्सह पुण्याहं कृत्वा आसनाद्यैरभ्यर्च्य हविर्निवेद्य नित्यहोमं हुत्वा बलिं निर्वाप्य बलिविभ्रमणं कृत्वा स्नापनोत्सवादीनि सर्वाणि पूर्ववत्कारयेत्।
द्वितीयतरुणालये नवमूर्तिस्थापनं द्वितीये तरुणालये नवमूर्तीनां स्थापनं चेत् उक्तेदेशे प्रथमतरुणालयस्योक्तविधिना स्थानं सङ्कल्प्य तत्र संस्थाप्यपश्चान्नादेयेन जलेन ’शन्नोदेवी’ रिति ध्रुवबेरस्य पादौ प्रक्षाल्य पश्चाच्छिल्पिनमाहूय नवीकरणं कारयेत्।
[[३३७]]
बालालयेऽर्चनाविशेषः
बालालयार्चनाविशेषं वक्ष्ये। अस्मिन् बेरे ध्रुवकौतुकयोरर्चनमाचरेत् आवाहनं विसर्जनं च विना सर्वं समाचरति।
बालालयेऽपि महानसादिस्थानकल्पनम् महानसमग्निकुण्डं, हविर्द्रव्यसञ्चयस्थानं, स्नानोदकपानीयपुष्पसञ्चयस्थानम्, अङ्कुरार्पणस्थानं, स्नानालयमास्थानमण्टपं ध्वजारोहणस्थानम्, एवमाद्यं सर्वं मूलालयस्योक्तमेव विधीयते।
बालालये क्लुप्तकालातिक्रमे कर्तव्यम् अज्ञानादर्थलोभादशक्त्या वा तरुणालयस्योक्तकाले अतीते देवं विशेषतोऽभ्यर्च्य वैष्णवं, शान्तिं, हुत्वा वैष्णवान् सम्पूज्य, आचार्यो यजमानश्च देवं पुनस्सम्प्रार्थ्य, कालावधिं विज्ञाप्य शीघ्रं कर्मेदमाचरेत् एवं द्वादशवर्षान्तं कारयित्वा द्वादशवर्षातीते देवो न रमेत तस्मात्सर्वप्रयत्नेनोक्तेन कालेनैव कर्म समापयेत्।
अशक्तौ अन्यबालालयं कर्तव्यम् अशक्तश्चेत् तत्स्थानादन्यत्र पुनर्बालागारं सङ्कल्प्य पुनःप्रतिष्ठां कारयेत् यथा देहात् देहान्तरप्राप्तौ नृणां संस्कारः कर्तव्यः तथा स्थानात् स्थानान्तरप्राप्तौ प्रतिष्ठां कारयेत्।
बालालयस्य जीर्णत्वादौ कर्तव्यम् प्रथमे द्वितीये वा बालालयार्चने प्रवर्तमाने बालालयस्य जीर्णाग्नि दाह वल्मीकाऽशनिपातभेदादिदोषसम्भवे मण्टपादिषु मनोरमं देशमलङ्कृत्य संशोध्य विधिवत्कौतुकादीन् संस्थाप्य अभ्यर्च्य तदेव बालागारं नवीकृत्य वास्तुहोमं हुत्वा पुण्याहं कृत्वा तत्र संस्थाप्य अर्चयेत्।
एकसप्ततितमः पटलः [[३३८]] पूर्वबालालयस्य नवीकरणायोग्यत्वे कर्तव्यम् अयुक्तं चेदन्यत्राऽऽलयं कृत्वा पुनःप्रतिष्ठाविधानेन प्रतिष्ठाप्याऽर्चयेदित्याह मरीचिः।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे बालालयविधिर्नाम एकसप्ततितमः पटलः ॥ ७१ ॥