अथ सप्ततितमः पटलः भयरक्षार्थं निष्कृतिः अथ भयरक्षार्थं निष्कृतिं वक्ष्ये - चोरैः शत्रुभिः परचक्रभयाद्वा ग्रामसङ्कुले सति भयरक्षार्थं कौतुकस्नपनोत्सवबलिबेरलौहिकप्रतिमानां देवीनां च तिरोधानं कारयेत्।
तत्प्रकारः
गुप्ते शुचौ देशे अवटं खनित्वा सिकता प्रक्षिप्य उपरि कुशानास्तीर्य अवटे महीं देवीमभ्यर्च्य ’आपोहिष्ठे’ति प्रोक्ष्य आचार्यः अर्चको वा यजमानेन भक्तैस्सार्धं देवागारं प्रविश्य देवं प्रणम्य ’यावत्कालं भयमस्ति तावद्धरण्या सह शयने शयीथ जनार्दने’ ति देवेशमनुमान्य बिम्बस्थां शक्तिं ध्रवबेरे समारोपयेत्। बेराभावे हृदये समारोपयेत्। ’’परं रंह’’ इति पीठमादाय ’’प्रतद्विष्णुस्तवत’’ इति अवटेऽप्रमादं सन्यस्य ’’यद्वैष्णव’’मिति प्राक्च्छिरसः शाययेत्। अवटं सिकताभिः मृदा वा पूरयित्वा अवटच्छिद्रं सुदृढं कारयेत्।
तत आलये कौतुकादिस्थाने कूर्चस्थापनादि पश्चादभ्यन्तरं प्रविश्य देवं प्रणम्य जीवस्थाने पञ्चदशदर्भैः ग्रथितं द्वादशाङ्गुलमात्रं कूर्चं सन्यस्य ध्रुवबेरात्कूर्चे समावाह्य अर्चयेत्।
बालालये सति कूर्चस्थापनादि बालालयं चेदर्चापीठे कूर्चं सन्यस्य हृदयात्प्रणिध्यां निवेश्य कूर्चं बिम्बवन्मनसाऽक्षराणि तत्स्थाने स्मृत्वा सन्यस्य आवाह्य अर्चयेत्।
स्नपनादावभ्युक्षणमेव कारयेत्।
मासादूर्ध्वमन्यकूर्चास्थापनम्
मासादूर्ध्वं तत्कूर्चं व्यपोह्य अन्यत्कूर्चं सन्यस्य आवाह्य अर्चयेत्।
सप्ततितमः पटलः [[३३०]] सुकाले कर्तव्यं सुकाले बिम्बमुद्धृत्य, आम्लाद्यैस्संशोध्य, पुण्याहं कृत्वा अस्पृश्यैस्स्पृष्टे सति जलाधिवासादीनि कृत्वा कालापेक्षमकृत्वा अङ्कुरार्पणं कृत्वा आलायाभिमुखे दक्षिणे वा मण्टपं कूटं प्रपां वा कृत्वा तन्मध्ये पौण्डरीकाऽग्निकुण्डं कृत्वा तदुत्तरे वास्तुहोमं हुत्वा बिम्बस्यातीवपार्श्वतः पर्यग्निं कृत्वा संशोध्य पौण्डरीकाग्नेः पश्चिमतो बिम्बार्धाधिकायामविस्तारां भागोन्नतां यथालाभोन्नतां वा धान्यैः वेदिं कृत्वा अण्डजादीनि पञ्चवस्त्राण्यास्तीर्य चतुर्दशकलशैस्संस्नाप्य पुण्याहान्ते प्रतिसरं बध्वा कौतुकस्नपनोत्सवबलिबेराणि देवीश्च सहैकशयने शाययेत्।
अवताराणां शयनं पृथगेव विधीयते।
अब्जाग्निं परिस्तीर्य, परिषिच्य, हौत्रं प्रशंस्य, देवेशं देव्या, अवताराणां च दक्षिणप्रणिधौ तदालयगतपरिषद्देवानुत्तरप्रणिधौ च समावाह्य आवाहनक्रमेण निर्वापं कृत्वा, आज्याहुतीर्यजेत्।
शान्तिस्वरूपम्
वैष्णवं विष्णुसूक्तं, पुरुषसूक्तं, विष्णुगायत्रीं, द्वादशाक्षरं, प्राजापत्यं, मिन्दाहुतीं, विच्छिन्नं च, जुहुयात्। एतत् शान्तिहोम इत्येके।
मासषट्केऽतीते महाशान्तिः तत्स्वरूपं च षण्मासे अतीते महाशान्तिं जुहुयात्। लाजतिल चूर्णापूपसक्तुभिराज्यमिश्रितैः वैष्णवं, विष्णुसूक्तं, प्रत्येकं द्वादशाष्टपर्यायतो जुहुयात्। अष्टोत्तरशतं पद्मं श्वेतं, रक्तं वा, अलाभे बिल्वपत्रं वा, घृताप्लुतं, विष्णुगायत्र्या जुहुयात्। सर्वदैवत्यं, पारमात्मिकं च जुहुयात्। एवं महाशान्तिरिति केचित् वदन्ति।
[[३३१]] पश्चादवताराणां तत्तन्मन्त्रं प्रत्येकमष्टोत्तरशतं हुत्वा नृत्तगेयवाद्यैः रात्रिशेषं नयेत्। प्रभाते स्नात्वा, देवं प्रणम्य प्रणवेन बोधयित्वा अभिवन्द्य अपराधशतं, सहस्रमयुतं, असङ्ख्ये च, ’करुणाब्धे क्षमस्वे’ति याचेत।
पूर्ववस्त्रमाल्यादीनि व्यपोह्य अन्यैरलङ्कृत्य सर्ववाद्यघोषयुतं शकुनसूक्तेन तोयधारापुरस्सरम् आचार्यः पुरतो गच्छेत्।
स्थापका देवमुद्धृत्य आलयं प्रदक्षिणीकृत्य अभ्यन्तरं प्रविश्य पूर्ववत् स्थापयेयुः।
आचार्यो देवपादं स्पृशन् वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तम्, आत्मसूक्तं जप्त्वा पूर्ववद्देवं ध्यात्वा ध्रुवबेराच्छक्तिं प्रणिध्यां निवेशयेत्। हृदये समारोपिता चेत् हृदयात्प्रणिधिजले समावाह्य पूर्ववदक्षरन्यासं कृत्वा आवाह्य तदालयपरिषद्देवान् पूर्ववदावाहयेत्।
पादौ प्रक्षाल्य, अभ्यन्तरं प्रविश्य पुण्याहं वाचयेत्। आचार्यादिभ्यो दक्षिणां दद्यात्। अग्निं पीरस्तीर्य अन्तहोमं हुत्वा पश्चादुत्सवं स्नपनं च कारयेत्। अशक्तश्चेत्केवलस्नपनं कारयेत्।
कूर्चादावर्चानाहीने
अर्चनं हीनं चेत् अर्चनाहीनप्रायश्चित्तं कारयेत्।
वर्षेऽतीते
वर्षातीते च एतमेव संस्कारं कृत्वा पुनस्थापनमाचरेत्। अवताराणां पृथगेव कारयेदित्येके।
तेषां पुनः प्रतिष्ठा चेत् तत्तत्प्रधानहोमं कारयेदित्येके।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे भूगुप्तोद्धृतप्रायश्चित्तविधिर्नाम सप्ततितमः पटलः ॥ ७० ॥
सप्ततितमः पटलः [[३३२]]