अथ एकोनसप्ततितमः पटलः
अस्पृश्यस्पर्शनप्रायश्चित्तम्
अथास्पृश्यस्पर्शने प्रायश्चित्तं वक्ष्ये।
मूषकादिस्पर्शनादौ प्रायश्चित्तम् मूषकसर्पकृकलास मण्डूकमार्जार नकुलादिषु गर्भागारं प्रविष्टेषु विण्मूत्र विसर्जने च तद्व्यपोह्य; पञ्चगव्यैः ’आपोहिष्ठा’दिना प्रोक्षयेत्। तेषु ध्रुवमारूढेषु विण्मूत्र विसर्जने च क्षिप्रं वस्त्रेण शोधयित्वा; शुद्ध्यर्थं कुशेन मार्जयित्वा कुशोदकेन आपोहिरण्य पवमानैः प्रोक्ष्याऽर्चयेत्। तैः अन्यबिम्बेषु स्पृष्टेषु शुद्धोदकैस्संस्नाप्य प्रोक्ष्य पूर्ववदर्चयेत्॥
[[३२३]] सूतिकादीनां प्रथमावरणे प्रवेशे प्रायश्चित्तं सूतिकोदक्यारजकध्वजाऽऽद्यन्त्यजातिभिः प्रथमावरणे प्रविष्टे, परिषद्देवानामर्चास्थाने संस्पृष्टे, प्रविष्टे च दर्भोल्केनोद्दीप्य वास्तुस्नपनोक्तमन्त्रैः पञ्चगव्यप्रोक्षणं पुण्याहं च कुर्यात्, नित्याग्नौ दौवारिकमन्त्रं, द्वारपालकमन्त्रं वैष्णवं च जुहुयात्। बाह्याऽऽवरणस्य सम्मार्जनोपलेपनप्रोक्षणैः शुद्धिर्भवति॥
सूतिकादीनामर्चनाकाले दर्शने प्रायश्चित्तं तेष्वर्चनाकाले वा दृष्टेषु देवं पञ्चगव्येनाऽभिषिच्य शुद्धोदकैस्संस्नाप्य प्रोक्षणैः प्रोक्ष्य पूर्ववत् हुत्वा अर्चयेत्।
आलयाभ्यन्तरे सूतिकादिप्रवेशे तत्स्पृष्टहविर्निवेदने आलयाभ्यन्तरे प्रविष्टे तत्स्पृष्टहविर्निवेदने च द्रव्यं यथाविधि शोधयित्वा वास्तुहोमं हुत्वा पर्यग्निपञ्चगव्याभ्यां शोधयित्वा पुण्याहं कृत्वा देवं कलशैस्संस्नाप्य नित्याग्रौ वैष्णवं विष्णुसूक्तं पुरुषसूक्तं रौद्रं सौम्यं ब्राह्मं श्रीसूक्तं महीसूक्तं च हुत्वा ब्राह्मणान् भोजयेत्।
ध्रुवबेरादौ सूतिकादिस्पृष्टे ध्रुवबेरे कौतुकादिषु च स्पृष्टेषु पूर्ववच्छुद्धिं कृत्वा वास्तुहोमं हुत्वा पर्यग्निपञ्चगव्याभ्यां शोधयित्वा पुण्याहं कृत्वा देवं कलशैः संस्नाप्य अब्जाग्नौ महाशान्तिं हुत्वा पुनः प्रतिष्ठां कारयेत्।
शूद्राद्यनुलोमस्पृष्टहविर्निवेदने
शूद्राद्यनुलोमस्पृष्टहविर्निवेदने देवं पञ्चगव्यैः शुद्धोदकैश्चाभिषिच्य पुण्याहं वाचयेत्।
एकोनसप्ततितमः पटलः [[३२४]] महापातकिनां प्रवेशे, तत्स्पृष्टहविर्निवेदने च पञ्चपातकैश्चण्ण्डालाद्यैश्चाऽऽलये प्रविष्टे तत्स्पृष्टहविर्निवेदने च सप्ताहं महाशान्तिं हुत्वा आलयमभ्युक्ष्य पुनः प्रतिष्ठां कारयेत्।
ध्रुवबेरादौ महापातकिप्रभृतिभिस्स्पृष्टे ध्रुवबेरे कौतुकादिषु स्पृष्टेषु पूर्ववच्छुद्धिं कृत्वा सप्ताहं महाशान्तिं हुत्वा वित्तानुसारेण कलशैस्संस्नाप्य पुनः प्रतिष्ठां कारयेत्।
पतितस्य गर्भगृहप्रवेशे पतिते गर्भगृहे प्रविष्टे वास्तुशुद्धिं कृत्वा महाशान्तिं हुत्वा अर्चयेत्॥
महापातकादीनां प्रथमे द्वितीये वा आवरणे निरन्तरसञ्चारे एतेषु प्रथमावरणे, द्वितीये वा, नैरन्तर्येण सञ्चरत्सु मासे अतीते, मासमेकं महाशान्तिं हुत्वा कर्षणादि पुनस्संस्कारं कृत्वा महाप्रतिष्ठां कारयेत्।
महापातकादीनां संवत्सरं प्रासादाभ्यन्तरे सञ्चारे तेषु प्रासादाऽभ्यन्तरे बाह्ये च सञ्चरत्सु संवत्सरे अतीते अर्चनादीनि सन्त्यज्य कौतुकादि रक्षणं कृत्वा गर्भागारादि सप्तप्राकारेषु गाः वासयित्वा मासेऽतीते सर्वत्र शुद्धिं कृत्वा मासत्रयं महाशान्तिं हुत्वा कर्षणादि पुनस्संस्कारं कृत्वा बालालयं सङ्कल्प्य जलाधिवासादीनि कारयित्वा बिम्बशुद्धिं कृत्वा अशीत्यधिक सहस्रकलशैस्संस्नाप्य ब्राह्मणान् भोजयित्वा वैष्णवान् सम्पूज्य देवं बालालये प्रतिष्ठाप्य आलयादि सर्वत्र नवीकरणं कृत्वा महाप्रतिष्ठां कारयेत्॥
तत्संसर्गिणां स्पर्शे तैस्संसर्गिणां स्पर्शे सूतिकादिनामुक्तं प्रायश्चित्तं कारयेत्।
[[३२५]]
तत्संसर्गिस्पर्शे
तत्संसर्गिणां स्पर्शे स्नपनदिना शुद्ध्यति॥
तत्संसर्गिस्पर्शे दोषो न तत्संसर्गिणां दोषो नास्ति॥
आशौचिद्विजस्पृष्टहविर्निवेदने च अशौचिद्विजस्पृष्टहविर्निवेदने च एकाहं महाशान्तिं हुत्वा शुद्धोदकैरभिषिच्य पुण्याहं वाचयित्वा पूर्ववदर्चयेत्।
ध्रुवबेरादौ आशौचिद्विजस्पृष्टे ध्रुवबेरकौतुकादिषु संस्पृष्टेषु पूर्ववन्महाशान्तिं हुत्वा पुनः स्थापनमाचरेत्।
गर्भालयाद्बाह्ये सर्वत्र आशौचिद्विजप्रवेशे आलयाद्बाह्ये सर्वत्र प्रविष्टे गौरवं लाघवं च ज्ञात्वा समूह्यैव कारयेत्।
खद्योतादीनां गर्भालयप्रवेशे, तैर्बिम्बे स्पृष्टे खद्योतपक्षिजाति प्रवेशे बिम्बे स्पृष्टे पूर्ववत् पर्यग्नि पञ्चगव्याभ्यां शोधयित्वा देवं शुद्धोदकैरभिषिच्य प्रोक्षणैः प्रोक्ष्य नित्याग्नौ चुल्यां वा वैष्णवं जुहयात् तत्समीपस्थान् बिम्बादीन् पूर्ववत् संशोध्य शुद्धोदकैस्संस्नाप्य पुण्याहं वाचयित्वा पूर्ववत् होमं जुहुयात्।
पूर्वोक्तदेशेषु मनुष्यादीनां ताडनादौ पूर्वोक्तदेशेषु मनुष्याणां श्वकुक्कुटादीनां च छेदने ताडने रुधिरस्रावे मृतादौ सम्भूते तद्व्यपोह्य तद्देशशुद्धिं कृत्वा वास्तुहोमं हुत्वा देवं सप्तभिः कलशैः संस्नाप्य तद्दोषशमनार्थं महाशान्तिं हुत्वा पूर्ववदभ्यर्च्य (प्रतिष्ठां कारयेत्) हविर्निवेदयेत्॥
एकोनसप्ततितमः पटलः [[३२६]] आलायाद्बाह्ये पूर्वोक्तताडनादि सम्भवे आलयाद्बाह्ये सम्भूते पूर्ववत् पर्यग्निं कृत्वा देवं शुद्धोदकैस्संस्नाप्य शान्तिहोमं हुत्वा वैष्णवान् सम्पूज्य पूर्ववदर्चयेत्।
देवस्य शवदर्शने देवेन शवे दृष्टे देवं संस्नाप्य वैष्णवं विष्णुसूक्तं पुरुषसूक्तं जुहुयात्।
प्रथमावरणे गजादिमरणे प्रथमावरणे गजाऽश्वपशुगर्दभादिषु मृतेषु तद्देशं खनित्वा वास्तुहोमं हुत्वा शुद्धोदकैरभिषिच्य वैष्णवं विष्णुसूक्तं पुरुषसूक्तं च जुहुयात्।
महाबेरे स्वेदादिदर्शने महाबेरे हि स्वेदरुधिरस्रावरोदन जल्प हास धूमादिषु सत्सु आलयाऽभिमुखे पौण्डरीकाऽग्निं साधयित्वा वैष्णवं विष्णुसूक्तं पुरुषसूक्तम् ईङ्कारादींश्च हुत्वा देवं कलशैस्संस्नाप्य अभ्यर्च्य हविःनिवेद्य ब्राह्मणान् भोजयित्वा वैष्णवान् सम्पूज्य आचार्यदक्षिणां दद्यात्।
वल्मीकादि सम्भवे वल्मीकतृणक्रिमिकीटकाद्युद्भवे सति पूर्ववच्छान्तिं हुत्वा ब्राह्मणान् भोजयित्वा देवं बालालये प्रतिष्ठाप्य नवीकरणं कारयेत्।
विमानेऽकारणाद्भिन्ने
विमाने अकारणाद्भिन्ने पतिते शुद्धिं कृत्वा मासत्रयं महाशान्तिं हुत्वा, कर्षणादि पुनः संस्कारं कृत्वा, बालालयं सङ्कल्प्य, जलाधिवासादीनि करायित्वा, बिम्बशुद्धिं कृत्वा, अशीत्यधिकसहस्रकलशैः संस्नाप्य, ब्राह्मणान् भोजयित्वा, वैष्णवान् सम्पूज्य, देवं बालालये प्रतिष्ठाप्य, आलयादि सर्वत्र नवीकरणं कृत्वा, महाप्रतिष्ठां कारयेत्।
[[३२७]] अशनिहते महामक्षिकयुते च विमाने अशनिहते महामक्षिकादि युते च देवं कलशैः संस्नाप्य, विशेषपूजां कृत्वा प्रभूतं निवेद्य, शान्तिं हुत्वा ब्राह्मणान् भोजयित्वा, पुनस्सन्धानं कारयेत्।
आकाशे प्रति सूर्यदर्शने आकाशे प्रतिसूर्यदर्शने वैष्णवं, सौरं दशकृत्वो जुहुयात्।
दिग्दाहे प्रायश्चित्तं दिग्दाहे वैष्णवं, दिग्देवत्यम्, आग्नेयं च जुहुयात्।
उपलवर्षे प्रायश्चित्तम् उपलवर्षे वारुणं वैष्णवं त्रयस्त्रिंशत्कृत्वो जुहुयात्।
अकाले इन्दुक्षयादौ अकाले इन्दुक्षये पूर्तौ प्रतिदर्शने महोत्पाते च महाशान्तिं हुत्वा देवं विशेषतोऽभ्यर्च्य हविर्निवेद्य ब्राह्मणान् भोजयेत्।
आलयाभ्यन्तरादौ रक्तस्त्रीदर्शने आलयाभ्यन्तरे बाह्ये प्राकारे वा रक्तस्त्रीदर्शने तं देशं संशोध्य पञ्चगव्यैः प्रोक्ष्य पुण्याहं वाचयित्वा ब्राह्मणान् भोजयित्वा देवं विशेषतोऽभ्यर्च्य हविर्निवेदयेत्।
ध्रुवबेरादौ रक्तस्त्रीस्पृष्टे ध्रुवबेरे कौतुकादौ स्पृष्टे ध्रुवबेरशुद्धिं, जलाधिवासं च कृत्वा पुनःप्रतिष्ठां कारयेत्।
एकोनसप्ततितमः पटलः [[३२८]] गर्भगृहे सर्पादिदर्शने गर्भगृहे सर्पादिदर्शने तदुद्वास्य गोमयेनोपलिप्य पञ्चगव्यैः प्रोक्ष्य औपासनाग्निमादाय वैष्णवं शान्तिं हुत्वा पुण्याहं वाचयित्वा ब्राह्मणान् भोजयेत्।
तत्र सर्पमरणे तत्र सर्पे मृते तं व्यपोह्य उपलिप्य पञ्चगव्यैः प्रोक्ष्य वास्तुशुद्धिं कृत्वा देवं चतुर्विंशतिकलशैः संस्नाप्य अब्जाग्नौ एकाहं महाशान्तिं जुहुयात्।
ध्रुवादौ सर्पादिभिः स्पृष्टे ध्रुवकौतुकादिषु तैस्स्पृष्टेषु देवं शुद्धोदकैः संस्नाप्य महाशान्तिं हुत्वा पुण्याहं वाचयित्वा देवं विशेषतोऽभ्यर्च्य हविर्निवेदयेत्।
प्रासादाद्बाह्ये आवरणे सर्पे मृते तद्व्यपोह्य पूर्ववत्प्रोक्षणैः प्रोक्ष्य वैष्णवादि दिग्देवत्यं च जुहुयात्।
पचनालयगोपुरादौ सर्पादिमरणे पचनस्थाने गोपुरादिषु वा सर्पे मृते तद्व्यपोह्य उपलिप्य नित्याग्नौ वैष्णवान्तं तत्स्थानाधिपदेवत्यं च जुहुयात्।
आलयाभ्यन्तरे महावाताद्यभिभवे आलयाभ्यन्तरे सर्वत्र महावाताऽतिवृष्टिचोरादिभिरभिभूते देवं कलशैः संस्नाप्य वास्तुहोमं हुत्वा पर्यग्निपञ्चगव्याभ्यां शोधयित्वा पुण्याहं वाचयित्वा वैष्णवं विष्णुसूक्तं पुरुषसूक्तं श्रीभूमिदेवत्यं ब्राह्मं रौद्रं प्राजापत्यं च हुत्वा ब्राह्मणान् भोजयेदित्याह मरीचिः।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे अस्पृश्यस्पर्शनप्रायश्चित्तविधिर्नाम एकोनसप्ततितमः पटलः ॥ ६९ ॥
[[३२९]]