अथ अष्टषष्टितमः पटलः
उत्सवप्रायश्चित्तविधिः
अथोत्सवप्रायश्चित्तं वक्ष्ये।
ध्वजारोहणहीने
ध्वजारोहणहीने चोत्सवे कृते स उत्सवो निष्फलो भवति, तस्मात्सर्वप्रयत्नेन ध्वजारोहणं कृत्वा उत्सवं कारयेत्॥
उक्तमासे अज्ञानादुत्सवाकरणे उक्तमासे चोक्तनक्षत्रे अवभृथं सङ्कल्प्य ध्वजारोहणं कृत्वा; अज्ञानादर्थलोभाद्वा येनकेनचिदुत्सवं न कुर्यात् द्वितीये मासे तद्दिने अवभृथं सङ्कल्प्य तद्दिनात्पूर्वं तीर्थाऽङ्कुरार्थं मृत्सङ्ग्रहणं कृत्वा उत्सवमारभेत।
अस्य प्रायश्चित्तमब्जाग्नौ वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, ध्वाजं, गारुडं, वैष्वक्सेनं, सौदर्शनमुत्सवाधिदेवत्यं च, व्याहृत्यन्तं हुत्वा; वैष्णवान् सम्पूज्य; उत्सवं कारयेत्। उत्सवस्याऽवभृथ नक्षत्र सङ्ख्याक्रम विपर्यासेनाऽवभृथं कुर्याच्चेत् उत्सवाधिदेवत्यं, तिथिवारनक्षत्रं च, द्विर्हुत्वा; ब्राह्मणान् भोजयेत्।
ध्वजे गरुडप्रतिष्ठाहीने प्रायश्चित्तं ध्वजारोहणे गरुडप्रतिष्ठाविहीने वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, ध्वाजं, गारुडं च, शतशो हुत्वा; पुनः प्रतिष्ठां कारयेत्॥
ध्वजदैवादिपूजनहीने प्रायश्चित्तं ध्वजदैवचक्रविष्वक्सेननन्दीशानामर्चनं, निवेदनं वा, हीनं चेत् वैष्णवं, तत्तद्देवत्यं च, हुत्वा; पुनरभ्यर्च्य निवेदयेत्॥
अष्टषष्टितमः पटलः [[३१६]]
भेरीताडनहीने
भेरीताडनहीने रौद्रं, व्याहृतीश्च, हुत्वा; भेरीताडनं कारयेत्।
ध्वजगरुडनिवेदनहीने, तस्य मुद्गान्ननिवेदनहीने च ध्वजारोहणेकृते गरुडस्य निवेदने हीने वैष्णवं, ध्वाजं, गारुडं च, हुत्वा; द्विगुणं निवेदयेत्।
तस्य मुद्गान्ननिवेदनहीने वैष्णवं, ध्वाजं, गारुडं च, हुत्वा; यत्नेन यथोक्त मौद्गिकं निवेदयेत्॥
ध्वजस्य चौरापसरणादौ ध्वजदण्डे चोराद्यपहृते हीने अग्निदग्धे अशनिनोत्पाटिते च वैष्णवं, वायव्यमाग्नेयम्, ईङ्कारादीन् गारुडं, ध्वाजं च, हुत्वा ध्वजदण्डमारोप्य; पूर्ववत् ध्वजमारोप्य उत्सवशेषं कारयेत्।
ध्वजपटपतने
ध्वजगरुडे पतिते ब्राह्मं, प्राजापत्यं, सौरं, सौम्यम्, आग्नेयं, व्याहृतीश्च, हुत्वा पूर्ववत् घण्टासहितमारोपयेत्।
ध्वजगरुडस्य वर्षादिबाधे दोषाभावः ध्वजगरुडस्याऽऽकाशचारित्वात्तस्य वर्षाऽऽतपबाधो न दोषाय भवति।
नियतकाले उत्सवाकरणे कालोत्सवमुक्तमासे न कुर्याच्चेत् अन्यस्मिन् मासे तद्दिने च अवभृथं सङ्कल्प्य; उत्सवं कारयेत्। अस्य प्रायश्चित्तं वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, ध्वाजं, गारुडं च दशशो हुत्वा; वैष्णवान् सम्पूज्य; आचार्यदक्षिणां दत्वा; उत्सवमाचरेत्।
[[३१७]] उत्सवादौ स्नपनहीने उत्सवादौ स्नपने हीने वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, वारुणं च, हुत्वा; शुद्धोदकैरभिषेचयेत्।
उत्सवार्थं प्रतिसरहीने उत्सवार्थं प्रतिसरबन्धने हीने वैष्णवं वैष्वक्सेनं, सौदर्शनं च हुत्वा; पुनः प्रतिसरं बध्नीयात्।
यज्ञशालाकुम्भवेद्योः प्रमाणहीनाधिक्ययोः यज्ञशालायां कुम्भवेद्यां प्रमाणहीनायां, अधिकायां च, वैष्णवमाग्नेयं, भूमिदेवत्यं च जुहुयात्।
तोरणदर्भमालाऽलङ्काराणां हीने तोरणानामलाभे दौवारिकदेवत्यं, दर्भमालायां हीनायामार्षम्, अलङ्कारहीने श्रीदेवत्यं च जुहुयात्।
प्रातः सायं बल्यादिहीने प्रातःकाले बलिं निर्वाप्य; उत्सवे हीने वैष्णवं, वैष्वक्सेनं, गारुडं, तदुत्सवाधिदेवत्यं च हुत्वा; साये द्विगुणमुत्सवं कारयेत्। सायेहीने प्रातर्द्विगुणं वर्धयेत्।
एककालोत्सवे विशेषः एककालोत्सवश्चेत् द्विकालं बलिं निर्वाप्य सायाह्ने चोत्सवं कारयेत्।
तत्कालातीतं पूर्वे वा कृतं चेत् पूर्ववत्कृत्वा उत्सवं कारयेत्।
अष्टषष्टितमः पटलः [[३१८]]
बलिमात्रहीने
बलिप्रदाने हीने बलिरक्षकदेवत्यं, दिग्देवत्यं च हुत्वा; तथैव बलिप्रदानं कारयेत्।
बलिद्रव्यतत्पात्रयोः पतने पात्रस्य भेदने नाशे च बलिद्रव्ये, पात्रे वा, भूमौ पतिते, भिन्ने, नष्टे वा, पूर्ववत्प्रायश्चित्तं हुत्वा; भूतपीठे बलिशेषं (तदनुक्तस्थाने बलिशेषं निर्वपेच्चेत्, वैष्णवम् अक्षहन्तृमन्त्रं, वैष्वक्सेनं, गारुडं सौदर्शनं च, हुत्वा भूतपीठे बलिशेषं) क्षिपेत्। देवस्य द्विगुणार्चने हीने, हविर्निवेदने च हीने, वैष्णवं, शान्तिं हुत्वा; द्विगुणमभ्यर्च्य निवेदयेत्।
उक्तहोमे हीने यथोक्तहोमे हीने वैष्णवं, विष्णुसूक्तं पुरुषसूक्तं त्रयस्त्रिंशत्कृत्वो हुत्वा; यथोक्तं जुहुयात्।
चक्रवीशाऽमितानां कुम्भदेवानां चाऽर्चनं हविर्निवेदनं च हीनं चेत्; वैष्णवं विष्णुसूक्तं; पुरुषसूक्तं वैष्वक्सेनं गारुडं सौदर्शनं च हुत्वा; पुनरभ्यर्च्य; निवेदयेत्।
देवस्यालङ्कारे हीने देवस्याऽलङ्कारे हीने वैष्णवं, श्रीदेवत्यं च, जुहुयात्।
अलङ्कारद्रव्येषु निर्माल्यानिर्माल्यविभागः अलङ्कारद्रव्येषु पुष्पगन्धौ द्वौ निर्माल्यौ भवतः तौ हित्वा अन्यानि द्रव्याणि प्रक्षाल्य पञ्चगव्यैः प्रोक्ष्य तत्तद्द्रव्यैरलङ्कुर्यात्।
[[३१९]] नृत्त-गान-स्तोत्र-भक्तपरिवृतिच्छत्रपिञ्छादीनां हीने नृत्ते गेये च हीने वैष्णवं रौद्रं स्तोत्रे हीने ब्राह्मं, सारस्वतं; भक्तैः परितो हीने वारुणं, वैष्णवं, वैष्वक्सेनं च, छत्रपिञ्छादौ हीने वैष्णवं, सौम्यं; चामरादौ हीने वैष्णवं, हवीरक्षकदेवत्यं च, जुहुयात्॥
देवस्य यानात्पतने देवेशे यानात्पतिते शीघ्रमुद्धत्य ’क्षमस्वे’ति प्रणम्य, शुद्धोदकैरभिषिच्य; वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, दिनाधिदैवत्यं च हुत्वा; पुनरुत्सवं कारयेत्।
चक्रवीशादिबिम्बाभावे
चक्रवीश (शामिता) शान्तानां बिम्बाऽभावे पृथक् पृथक् पात्रेषु समावाह्याऽभ्यर्च्य; तत्तद्देवत्यं हुत्वा; पश्चादुत्सवं कारयेत्।
एतेषां पतने एतेषां पतने पूर्ववदुद्धृत्य स्नापयित्वा तत्तद्दैवत्यं वैष्णवं च जुहुयात्।
भूमौ पतिते अन्नाऽर्घ्यपुष्पबलौ पूर्ववद्बलिमापाद्य, वैष्णवं च; बलिरक्षकदेवत्यं च जुहुयात्।
यानात्पतितस्याङ्गहीने
यानात्पतिते हीनाङ्गे पद्माग्नौ महाशान्तिं हुत्वा; तच्छक्तिं ध्रुवबेरे समारोप्य; कौतुकं, स्नपनं, बलिबेरं वा, अलङ्कृत्य; आवाह्याऽभ्यर्च्य; उत्सवं कारयेत्।
कौतुकादिबेराभावे
बेराभावे पात्रे रत्नं, सुवर्णं वा, निक्षिप्य; आवाह्य; अभ्यर्च्य; दिनेदिने महाशान्तिमहाहोमं च हुत्वा; उत्सवं कारयेत्। हीनाऽङ्गतद्बेरं पुनस्सन्धानविधिना सन्धानं कृत्वा; पुनः प्रतिष्ठां कारयेत्।
अष्टषष्टितमः पटलः [[३२०]] नदीपर्वतसमीपे देवालयसत्त्वे नदीसमुद्रपार्श्वे, पर्वतपार्श्वे वा, विमानं यत्र दृश्यते तत्र ध्वजारोहणं कृत्वा; तदालयं परितो बलिदानमुत्सवं च, कारयेत्, तत्समीपे ग्रामादौ सति तत्र बलिदानमुत्सवं च कारयेदित्येके।
गायकनर्तकयोः पतने गातुर्नर्तुश्च पतने श्रीदेवत्यं, वैष्णवं च, वादकानां पतने ब्राह्मं, रौद्रं च, आचार्यादीनां पतने, सङ्क्षोभे च, आर्षं, वैष्णवं च, ध्वजादीनां पतने ध्वाजं, वारुणं, वायव्यं च जुहुयात्।
उक्तकाले वर्षादिना उत्सवाकरणे वर्षधाराऽतिवाताऽशनिपातविद्युल्लेखायुते काले देवेशस्य उत्सवं न कुर्याच्चेद् वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, श्रीभूमिदेवत्यं च हुत्वा; उत्सवं कारयेत्।
वीथिमध्ये वर्षादिस्पर्शे वीथ्यन्तरे वर्षधाराप्रवेशे तृणपांसुयुतवातस्पर्शे च देवेशं संस्नाप्य; वैष्णवं, दिग्देवत्यं, वारुणं, वायव्यं, यद्देवादींश्च हुत्वा; पुनरुत्सवं कारयेत्।
उत्सवकाले कलहादौ उत्सवकाले कलहरुधिरस्रावेषु सत्सु वैष्णवमाग्नेयं ब्राह्मं रौद्रं दिनाधिदैवत्यं च जुहुयात्।
आलयाभ्यन्तरे शस्त्रादिना मरणे आलयाभ्यन्तरे शस्त्राद्यैर्मरणे सति तच्छीघ्रमपहाय अब्जाऽग्नौ महाशान्तिं तद्दिनाधिदेवत्यं च जुहुयात्।
[[३२१]] वीथ्यां मरणसम्भवे वीथ्यां मरणादौ सम्भूते तच्छीघ्रं व्यपोह्य शान्तिहोमं हुत्वा उत्सवं
कारयेत्
एकनाडिका यामादर्वाक्कालं गतं चेत्पुनरुत्सवं कारयेत्।
अशीतिदण्डाभ्यन्तरे शवे सति आलयस्याऽशीति दण्डाभ्यन्तरे वीथ्यां शवे सति तत्रोत्सवं न कुर्यात्, कुर्याच्चेद्राजराष्ट्रविनाशाय भवति, तस्माच्छीघ्रमपहाय, प्रायश्चित्तं महाशान्तिं पार्षदं च हुत्वा पुनरुत्सवं कारयेत्।
उत्सवमध्ये अन्योत्सवशुभकर्मकरणे ध्वजारोहणादूर्ध्वं तीर्थदिनात्पूर्वम् अन्योत्सवं शुभकर्माणि न कुर्यात्; कुर्याच्चेदाभिचारिकं भवति; तद्दोषशमनार्थं वैष्णवं विष्णुसूक्तं पुरुषसूक्तं पार्षदं च हुत्वा ब्राह्मणान् भोजयेत्।
तीर्थदिनात्पूर्वरात्रौ प्रतिसरबन्धनशयनाभावे तीर्थदिनात्पूर्वरात्रौ प्रतिसरबन्धने शयने वा हीने वैष्णवं श्रीभूमिदेवत्यं सौदर्शनं च हुत्वा ते समाचरेत्।
तीर्थस्नानकाले अतीते हीने वा तीर्थस्नानकाले अतीते हीने वा वैष्णवं वारुणं स्कन्ददेवत्यं च जुहुयात्।
तीर्थदिने रात्रौ ध्वजावरोहणहीने तद्रात्रौ ध्वजावरोहणे हीने ध्वाजं गारुडं वैष्णवं च जुहुयात्॥
अष्टषष्टितमः पटलः [[३२२]] अवरोहणे बलिहीने अवरोहणे बलौ हीने ध्वजदेवं सम्पूज्य, वैष्णवं, तदालयगतपरिषद्देवत्यं च हुत्वा ध्वजावरोहणं कारयेत्।
उत्सवान्तस्नपनहीने
उत्सवान्तस्नपने हीने वैष्णवं विष्णुसूक्तं जयादिमूर्तिमन्त्रांश्च जुहुयात्।
अनुक्तदोषप्रायश्चित्तम्
अत्रानुक्तदोषाणां प्रायश्चित्तं वैष्णवं विष्णुसूक्तं पुरुषसूक्तं गायत्रीं च जुहुयादिति विज्ञायते॥
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे उत्सवप्रायश्चित्तविधिर्नाम अष्टषष्टितमः पटलः ॥ ६८ ॥