अथ सप्तषष्टितमः पटलः
स्नपनप्रायश्चित्तम्
अथ स्नपनप्रायश्चित्तविधिं वक्ष्ये।
स्नपनत्रैविध्यं तदकरणे स्नपनं च त्रिविधं नित्यं नैमित्तिकं काम्यं चेति अयनद्वये तथा विषुवे च स्नपनं यत्तन्नित्यं चन्द्रसूर्ये राहुग्रस्ते वा यत्स्नपनं तन्नैमित्तिकं शेषेषु यत्स्नपनं तत्काम्यम्।
नित्यस्नपने हीने वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, वारुणं च, दशकृत्वो हुत्वा पुनः स्नपनं कारयेत्।
ग्रहणकाले देवस्य स्नपने हीने महत्तरो दोषो भवति, पूर्ववत्प्रायश्चित्तं हुत्वा; पश्चात्प्रयत्नेन स्नपनं कारयेत्।
काम्येषु स्नपनेषु हीनेषु पूर्ववत् प्रायश्चित्तं हुत्वा; शुद्धोदकैर्वा स्नापयेत्।
आलयाभिमुखे, उत्तरे वा स्नपनालयमुत्तमम्, ऐशान्यां मध्यमं, दक्षिणपश्चिमयोरधमम्।
[[३१३]] आग्नेयादिषु कोणेषु स्नपनं चेद्वैष्णवं विष्णुसूक्तं पुरुषसूक्तं दिग्देवत्यमन्त्रांश्च हुत्वा; स्नपनं कारयेत्।
सन्ध्याकाले नैमित्तिके स्नपने प्राप्ते तन्नैमित्तिकं समाप्य; पश्चान्नित्यपूजां समाचरेत्।
पूर्वरात्रौ प्रतिसरबन्धाद्यभावे पूर्वरात्रौ प्रतिसरबन्धनं, शयनं च विहीनं चेत् वैष्णवं श्रीभूमिदेवत्यं सौदर्शनं च हुत्वा; तत्काले शयनाधिवासं हित्वा प्रतिसरबन्धनमेव कारयेत्।
एकबेरे कौतुके च शयनं विना प्रतिसरबन्धनं सद्य एव कुर्यात्।
अङ्कुरार्पणे कृते स्नपने हीने वैष्णवं सौम्यं श्रीभूमिदेवत्यं वैघ्नं च हुत्वा; स्नपनं कारयेत्। अङ्कुरार्पणं विना स्नपनं कारयेदिति केचित्।
श्वभ्रे पङ्क्तौ वा प्रमाणहीने अधिके च वैष्णवं, श्रीभूमि(भू)दैवत्यं, पङ्क्तीशमन्त्रं च जुहुयात्।
विष्वक्सेनार्चने हीने वैष्णवं, वैष्वक्सेनं च जुहुयात्।
पङ्क्तीशस्याऽर्चने हीने तन्मन्त्रं, जयादींश्च जुहुयात्।
इन्द्रादीनामर्चने हीने तत्तन्मन्त्रं, वैष्णवं च जुहुयात्।
कलशेषु प्रमाणहीनेषु अधिकेषु च वैष्णवं, वायव्यम्, आग्नेयं च जुहुयात्।
मृत्सु हीनासु वैष्णवं, महीदेवत्यम्, पर्वतेषु हीनेषु तत्तद्वर्णहीनेषु प्रमाणहीनेषु च वैष्णवमाग्नेयं च, धान्येषु हीनेषु, वैष्णवं, वायव्यं च, अङ्कुरेषु हीनेषु गारुडं व्याहृतीश्च, अष्टमङ्गलेषु हीनेषु तत्तद्वर्णहीनेषु, प्रमाणहीने च, वैष्णवमैन्द्रं च जुहुयात्।
सप्तषष्टितमः पटलः [[३१४]] पञ्चगव्ये योगक्रियाहीने मन्त्रहीने च, वैष्णवं, रौद्रं च जुहुयात्।
पञ्चगव्यादिद्वादशप्रधानद्रव्येषु उक्तप्रमाणहीनेषु जलेन पूरयित्वा, तत्तदधिदैवतमन्त्रं, वैष्णवं च जुहुयात्।
द्रव्याणां सङ्करे वैपरीत्ये तत्तदधिदेवार्चने हीने मन्त्रसङ्कुले हीने च नित्याग्नावष्टोत्तरशतं वैष्णवं यजेत्।
पुण्यपुष्पाद्युक्तद्रव्यालाभे यथालाभं सङ्गृह्य; तत्तदधिदेवतामन्त्रं, वैष्णवं च जुहुयात्।
साधिते कलशे (भिन्ने) हीने अन्यं कलशमादाय तथैवाऽऽपूर्य, अभ्यर्च्य; वैष्णवं दशशो जुहुयात्।
विपर्यासोद्धृतद्रव्येण स्नापयेत् चेत् वैष्णवं, तत्तद्द्रव्याधिपदेवत्यं च हुत्वा; तद्द्रव्यं संशोध्य; शुद्धोदकैः स्नापयेत्।
कलशन्यासे कृते श्वकाकाद्यस्पृश्यस्पर्शने सति अन्यं कलशमादाय पूर्ववत् संसाध्य शान्तिं वैष्णवं च जुहुयात्।
द्रव्येषु क्रिमिकीटादिपतने सति तत्त्यक्त्वा अन्यद्द्रव्यं सङ्गृह्य वैष्णवं तद्द्रव्याधिपदेवत्यं च जुहुयात्।
रत्नानामलाभे वैष्णवं हुत्वा सुवर्णं निक्षिपेत्। द्वादशवस्त्रालाभे वैष्णवं, श्रीदेवत्यं च हुत्वा अष्टचत्वारि वा आछाद्य स्नपनं कारयेत्।
यथोक्तस्नपने येनकेनचिदसम्भृते सति विंशतिकलशादि पञ्चकलशान्तैः कलशैः स्नापयेत्। अथवा शुद्धस्नपनविधिना स्नापयेदित्येके।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे स्नपनप्रायश्चित्तविधिर्नाम सप्तषष्टितमः पटलः॥ ६७ ॥
[[३१५]]