०६६ \(बलि\)विधिः

अथ षट्षष्टितमः पटलः

नित्यार्चनाप्रायश्चित्तम्

अथ नित्यार्चनाप्रायश्चित्तविधिं वक्ष्ये - सूर्योदयान्मध्याह्नादस्तमयाच्च पूर्वं कवाटोद्घाटने हीने नित्याग्नौ, छुल्यां वा, अग्निं परिस्तीर्य, आज्येन वैष्णवं, धात्रादिदेवत्यं दौवारिकं च, हुत्वा; शीघ्रमुद्धाटयेत्।

मार्जनोपलेपननिर्माल्यशोधनेषु हीनेषु वैष्णवं, वारुणं, वायव्यं, वैष्वक्सेनं च जुहुयात्।

[[३०७]] सर्वेषां द्रव्याणां तोयं प्रतिनिधिस्तस्मात्तोयं सङ्गृह्य अर्चनमारभेत।

देवे स्नानविहीने वैष्णवं, वारुणं च, हुत्वा; ’आपोहिष्ठा’द्यैर्मन्त्रस्नानं कृत्वा; अभिषेकस्याऽशक्तौ कुशोदकैः प्रोक्ष्य; वस्त्रादीन् व्यपोह्य; धौतं परिधापयेत्। नित्यस्नापनमशक्यं चेत् विष्णुपञ्चदिनेषु स्नापयेदिति केचित्।

ध्रुवबेरे पीठे पूर्वविन्यस्तपुष्पाणि संशोध्य पुष्पन्यासं कुर्यात्। तेनैव ध्रुवबेरस्य नित्यार्चनं भवेत्।

पुष्पन्यासं हित्वा; कौतुकस्य नित्यार्चने कृते वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, विष्णुगायत्रीं च हुत्वा; तदैव पुष्पन्यासं कुर्यात्।

सम्बन्धकूर्चे हीने वैष्णवं, मुनिमन्त्रं च, हुत्वा; कूर्चं सन्न्यसेत्।

धात्रादिपरिषदामर्चने हीने तत्तद्देवत्यं, वैष्णवं च हुत्वा; पश्चात्परिषदोऽर्चयेत्।

आसनादिसर्वोपचारविपर्यासे ’क्षमस्वे’ति देवं प्रणम्य; पुनरर्चयेत्॥

एतेष्वेकं हीनं चेत् तत्तद्देवतामन्त्रं, वैष्णवं च, जप्त्वा; पुनस्तदुपचारादिसर्वोपचारैरर्चयेत्।

उक्तद्रव्यालाभे पुष्पं, तोयमक्षतं वा, गृहीत्वा; तत्तद्द्रव्यं ध्यात्वाऽर्चयेत्।

अर्चनाकाले अजस्रदीपः मूषिकाक्रिमिकीटपतङ्गशलभादिपतनेन स्वयमेव मरुता वा विच्छिन्नश्चेत् द्विगुणं दीपं समुद्दीप्य; सौरं, रौद्रमाग्नेयं, वैष्णवं च, हुत्वा; पुनरर्चयेत्।

तत्काले सर्वदीपा नश्यन्ति चेत् महत्तरो दोषो भवति, देवं शुद्धोदकैस्संस्नाप्य, कुशोदकैश्चाभिषिच्य; पूर्ववत्प्रायश्चित्तं, शान्तिं च हुत्वा; देवमभ्यर्च्य; द्विगुणं हविर्निवेद्य; आचार्याय दक्षिणां दद्यात्।

षट्षष्टितमः पटलः [[३०८]] दीपेषु बहुषु वर्तमानेषु एकं(को) नष्टं (श्चे) चेत्, तन्न दोषाय भवति।

अर्चनाकालादन्यस्मिन् अजस्रदीपे विच्छिन्ने वैष्णवं, विष्णुगायत्रीमाग्नेयं च हुत्वा; द्विगुणमुद्दीपयेत्।

मन्त्राणां स्खलने तन्मूर्त्या सप्रणवया कारयेत्।

अर्चनाकाले पटे हीने प्राजापत्यं वैष्णवं च हुत्वा प्रच्छन्नपटं कृत्वार्चयेत्।

वेददूषकादिदर्शने

वेददूषक-पाषण्ड-पापरोगान्वितानां प्रतिलोमाद्यन्त्यजातीनां च दर्शने वैष्णवं, ब्राह्मं, रौद्रमाग्नेयं च, व्याहृत्यन्तं हुत्वाऽर्चयेत्।

आवरणाद्बाह्ये पञ्चाशद्दण्डाभ्यन्तरे मनुष्याणां मृतिर्भवति चेत् शवोद्धरणात्पूर्वं देवेशस्यार्चनं हविर्निवेदनं न कारयेत्। ध्रुवकौतुकयोः पुष्पन्यासमेव कारयेत्। पश्चात्कालातीते शान्तिं हुत्वा; द्विगुणमर्चयेत्।

एककालमर्चने हीने द्वितीये द्विगुणं, तृतीये त्रिगुणं कुर्यात्।

एकाहमर्चने हीने वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, श्रीभूमिदेवत्यं च, हुत्वा; द्व्यहे द्विगुणं, त्र्यहे त्रिगुणं, एवं द्वादशाहान्तं वर्धयेत्।

द्वादशाहे अतीते चेत् औपासनाग्निमाधाय; वैष्णवं, विष्णुसूक्तं, तदालयगतपरिषद्देवतामन्त्रं च हुत्वा; वित्तानुसारेण देवं कलशैः संस्नाप्याऽभ्यर्च्य, हविर्निवेदयेत्।

मासं हीनं चेत् आलयाभिमुखे सभ्याग्निमादाय वैष्णवं विष्णुसूक्तं पुरुषसूक्तं श्रीभूमिदेवत्यं सर्वदेवत्यं च हुत्वा; देवमष्टचत्वारिंशत्कलशैः संस्नाप्याऽभ्यर्च्य हविर्निवेदयेत्। एवं मासे प्रकुर्वीत।

द्वितीये द्विगुणं, तृतीये त्रिगुणम्, एवं संवत्सरान्तं वर्धयेत्।

[[३०९]] संवत्सरे अतीते पद्माग्नौ सप्ताहं महाशान्तिं हुत्वा; वैष्णवान् सम्पूज्य; ब्राह्मणभोजनं च कृत्वा; देवं शताष्टकलशैस्संस्नाप्य; पुनः प्रीतष्ठां कारयेत्।

पुनः प्रतिष्ठायामक्ष्युन्मेषाऽधिवासौ हित्वाऽ अन्यत्सर्वं पूर्ववदाचरेत्।

हविषिहीने तद्ग्रामवासिनस्सर्वेजनाः क्षुत्पिपासादिभिः पीडिता भवेयुः।

तस्मात्प्रयत्नतो देवस्य हविस्सम्यङ् निवेदयेत्।

एककाले हविषिहीने द्वितीये द्विगुणं, तृतीये त्रिगुणं, निवेदयेत्।

एकाहे अतीते वैष्णवं, श्रीभूमिदेवत्यं, मूर्तिहोमं च हुत्वा; देवं शुद्धोदकैस्संस्नाप्य; महाहविः प्रभूतं निवेदयेत्।

सोपदंशं हविरपक्कं, शीतं, पर्युषितं, स्थालीशेषं, पात्रान्तरगतं, विवृतं, स्रावितं, लङ्घितं, विकृतम्, अन्त्यजातिदृष्टं च, देवेशाय निवेदयेच्चेत्, वैष्णवं, श्रीभूमिदेवत्यम्, आग्नेयं, वारुणं, वायव्यं च, दशशो हुत्वा, पुनश्च हविर्निवेदयेत्।

अशुचिना स्पृष्टं हविर्निवेदयेच्चेत् देवं संस्नाप्य; वैष्णवं, विष्णुगायत्रीं च, त्रयस्त्रिंशत्कृत्वो हुत्वा, शान्तिहोमविधिना शान्तिं हुत्वा; देवं प्रोक्षणैःप्रोक्ष्य; पुण्याहं वाचयित्वा; द्विगुणमभ्यर्च्य; हविर्निवेदयेत्।

शर्कराङ्गारव्रीहितुषादियुते हविषि निवेदिते अष्टाक्षरेण, विष्णुगायत्र्या, वैष्णवैश्च, संस्तूय; ’क्षमस्वे’ति प्रणम्य याचेत।

मक्षिकापतङ्गमशकपिपीलिकाक्रिमिकीटकेशाद्यैस्संयुक्ते हविषि निवेदिते, देवं शुद्धोदकैस्संस्नाप्य; वैष्णवं विष्णुगायत्रीं, श्रीभूमिदेवत्यं च, अष्टोत्तरशतं हुत्वा; द्विगुणं निवेदयेत्। महाहविष्येतैस्संयुक्ते सति, तत्र पुरुषाशनमात्रं व्यपोह्य; भस्मजलैः कुशेन आपोहिरण्यपवमानैः प्रोक्ष्य; तन्निवेदयेत्।

षट्षष्टितमः पटलः [[३१०]] प्रायश्चित्तार्चनार्थम् अर्कोदयात्पूर्वं पक्कं हविरुपदंशं च सोष्णं चेत् तस्मिन्काले निवेदयेत्। अस्तमयात्पूर्वं पक्कं हविरुपदंशं च सोष्णम् अस्तमयात्पश्चात् देवस्य सायमर्चनं कृत्वा; तद्धविर्निवेदयेत्।

ताम्बूलम् असंस्कृतं लेपकेशान्वितं जन्तुस्पृष्टं निवेदयेच्चेत् वैष्णवं, श्रीभूमिदेवत्यं च, हुत्वा; पुनस्ताम्बूलं निवेदयेत्।

अन्येष्वर्चनाऽङ्गद्रव्येषु दुष्टेषु हीनेष्वपि तत्तदधिदैवतमन्त्रं, वैष्णवं च, हुत्वा; तत्तद्द्रव्यैरर्चयेत्।

अथवा सर्वेषां द्रव्याणामलाभे पुष्पं जलं वा प्रतिनिधिं सङ्कल्प्य; तत्तद्द्रव्यं स्मृत्वा; अर्चयेत्।

नित्यहोमे हीने वैष्णवं दशशो हुत्वा; यथोक्तहोमं द्विगुणं जुहुयात्।

अग्निसंरक्षणे अशक्तश्चेत् कुण्डात् ’अयं ते योनि’रिति समिध्यारोपयेत्।

अथवा स्वात्मन्यारोप्य, लौकिकाग्नावारोप्य, एवमहरहर्जुहोती(हुयादि)ति विज्ञायते।

बलिप्रायश्चित्तम्

अथ बलिविधिप्रायश्चित्तं वक्ष्ये - सुरर्षिमनुष्याणां बलमस्मात्प्रवर्धते, तस्माद्बलिरिति व्याख्यातः, तदर्थं देवेशं दिनेदिने त्रिषु कालेषु उक्तद्रव्येषु आवाह्य; अभ्यर्च्य; बलिभ्रमणं कारयेत्।

एवं कर्तुमशक्तश्चेदुक्ते पात्रे केवलं बलिद्रव्यं निक्षिप्य; तस्योपरि यथोक्तं बलिबेरं सन्यस्य; शिरसा धारयन्, त्रिकालं, द्विकालम्, एककालं वा, आलयं प्रदक्षिणं कारयेत्।

अथवा बलिद्रव्यं विना शिबिकादियाने गजे वा, आरोप्य; आलयं प्रदक्षिणं कारयेत्।

[[३११]]

बल्यकरणे

प्रातःकाले बलिभ्रमणे हीने वैष्णवं सौरं, सौम्यं, प्राजापत्यं च, जुहुयात्।

प्रदक्षिणे हीने अधिके च वैष्णवं, गारुडं, च हुत्वा; त्रिगुणं कुर्यात्।

एकाहे हीने नित्याग्नौ चुल्यां वा अग्निं परिस्तीर्य; वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, दिग्देवत्यं च, हुत्वा; विधिना प्रदक्षिणं कारयेत्।

द्व्यहे द्विगुणं, त्र्यहे त्रिगुणम्, एवं द्वादशाहान्तं वर्धयेत्।

द्वादशाहे अतीते अग्निमौपासनमादाय; वैष्णवं विष्णुसूक्तं, पुरुषसूक्तं श्रीभूमिदेवत्यं ब्राह्मं रौद्रं दिग्देवत्यं च हुत्वा; पूर्ववत् बलिभ्रमणं कारयेत्।

मासेऽतीते पौण्डरीकाग्निमादाय वैष्णवं, विष्णुसूक्तं पुरुषसूक्तं पारमात्मिक, ईङ्कारादींस्तदालयगतपरिषद्देवत्यं च, हुत्वा तथैव बलिभ्रमणं कारयेत्।

द्विमासे द्विगुणं, त्रिमासे त्रिगुणम्, एवं संवत्सरान्तं वर्धयेत्। संवत्सरे अतीते देवाभिमुखे, दक्षिणे वा, सभ्याऽग्निं संसाध्य; वैष्णवं विष्णुसूक्तं पुरुषसूक्तं, श्रीभूमिदेवत्यं, सर्वदेवत्यं च जुहुयात्। आचार्यदक्षिणां दत्वा; बल्युद्धरणं कारयेत्।

अन्नबलौ भूमौ पतिते अन्नबलौ भूमौ पतिते भिन्ने जीर्णे च पूर्ववत् बलिमापाद्य; वैष्णवं, गारुडं प्राजापत्यं च हुत्वा; प्रदक्षिणं कारयेत्।

बल्युद्धरणकाले येन केनचित् विघ्नश्चेत् सौरं; सौम्यं वैष्णवं च हुत्वा; पुनरारभेत। पात्रालाभे हविः पात्रमादाय वैष्णवं जुहुयात्।

प्रमाणहीने अन्नबलौ वैष्णवं प्राजापत्यं च जुहुयात्।

षट्षष्टितमः पटलः [[३१२]] देवस्यालङ्कारे हीने श्रीदेवत्यं, छत्रपिञ्छादीनामलाभे वारुणं, चामरादीनामलाभे वायव्यं, दीपालाभे च आग्नेयं वैष्णवं च, प्रत्येकं व्याहृत्यन्तं जुहुयात्।

दोषदुष्टहविर्निवेदनप्रायश्चित्तं कारयेत्।

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे नित्यार्चनप्रायश्चित्त- (बलि)विधिर्नाम षट्षष्टितमः पटलः ॥ ६६ ॥