अथ पञ्चषष्टितमः पटलः
प्रतिष्ठाप्रायश्चित्तम्
अथ प्रतिष्ठाप्रायश्चित्तं वक्ष्ये - अङ्कुरार्पणकाले ब्रह्मसोमादिदेवानामर्चने, हविर्निवेदने च, हीने; तत्तद्देवत्यं, वैष्णवं च हुत्वा; पुनरभ्यर्च्य; हविर्निवेदयेत्।
अङ्कुरार्पणहीने वैष्णवं, विष्णुसूक्तं पुरुषसूक्तं, ब्राह्मं, सौम्यं, व्याहृतीश्च हुत्वा पुनरप्यङ्कुरार्पणं कुर्यात्।
अङ्कुरार्पणं कृत्वा, पश्चात्कर्म नाऽऽचरेच्चेत् राजराष्ट्रनाशाय भवति।
तस्माद्यत्नतः कुर्यात्।
तद्दोषशमनार्थं महाशान्तिं हुत्वा; ’क्षमस्वे’ति देवं प्रणम्य, पुनरप्यङ्कुरार्पणपूर्वं कर्म समाचरेत्।
अक्षिमोचनात्पूर्वं पीठसङ्घातकाले रत्नानामलाभे वैष्णवं, विष्णुसूक्तं पुरुषसूक्तं च हुत्वा; तत्तत्स्थाने सुवर्णं निक्षिपेत्।
अक्षिमोचनकाले गवादिदर्शनद्रव्यहीने गोदानसूक्तं तत्तद्द्रव्याधिदेवत्यं वैष्णवं च हुत्वा; पश्चात्तत्तद्द्रव्यं विधिवद्दर्शयेत्।
अक्षिमोचने हीने, अर्कराहुसौराणामुदये अन्धे चैकनेत्रे नक्षत्रे अक्षिमोचने कृते च, सर्वनाशाय भवति। वैष्णवं विष्णुसूक्तं, नवग्रहदेवत्यं च हुत्वा; पुनरक्षिमोचनं कारयेत्।
पञ्चगव्यक्षीरोदकेष्वधिवासने हीने वैष्णवम्, आर्षं, विष्णुसूक्तं च हुत्वा; जलाधिवासं त्र्यहमष्टाहं वा कारयेत्।
यज्ञशालायां महावेद्यां च प्रमाणहीनायामधिकायां च अन्यदेशे कृतायाम् अलङ्कारहीनायां तत्तद्देशाधिपदेवत्यं, वैष्णवं, विष्णुसूक्तं, श्रीभूमिदेवत्यं च, जुहुयात्।
[[३०१]] ध्रुवबेरस्याऽक्षिमोचनान्ते बेरशुद्धिक्रियायां हीनायां विपरीतायां वा वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, रौद्रमार्षं, वारुणं च हुत्वा; पुनराचरेत्।
अग्निकुण्डे प्रमाणहीने प्रायश्चित्तम् अग्निकुण्डानि हीनाधिकप्रमाणेन कृतानि चेत् ब्राह्मं, सौम्यमाग्नेयं च जुहुयात्।
परिस्तरणादौ प्रमाणहीने प्रायश्चित्तम् परिस्तरणकूर्चप्रणिध्याज्यपात्रस्रुवादिषु प्रमाणहीनेषु अधिकेषु च, मिन्दाहुतिं, सावित्रीं च, व्याहृत्यन्तं जुहुयात्।
यथोक्ते स्थाने पञ्चाग्नीन् परिकल्प्य, प्रोक्ष्णोल्लेखने कृते मथिताग्न्यलाभे तु आचार्याऽगारतः श्रोत्रियाऽगारतो वा अग्निमाहृत्य गार्हपत्याग्निकुण्डे निधाय आघारं हुत्वा वैष्णवं, भूमिदेवत्यम्, आग्नेयं जुहुयात्।
तमग्निं वर्धयित्वा, अन्वाहार्ये प्रणीय, पश्चादाहवनीये प्रणिधाय, पश्चादावसथ्ये प्रणीय, ततस्सभ्ये प्रणीय, ततः पद्माग्नौ प्रणयनं कुर्यात्। विपरीते तत्तन्मन्त्रहीने च वैष्णवम्, आग्नेयं, ब्राह्मं, सौम्यं च, हुत्वा; अग्निं प्रणयेत्।
पश्चात्तत्तदग्निषु आघारात्पूर्वतोऽन्तरा नैव गच्छेत्। अज्ञानाद्यदि गच्छेत्।
तद्दिक्पालदेवत्यं, वैष्णवमाग्नेयं च जुहुयात्।
तण्डुलैरेकजातीयैर्द्विप्रस्थैःचरुं, गव्यं नवनीतं च लौकिकाग्नौ पाचयित्वा; पुनस्तत्तदग्निषु समन्त्रकं संस्कुर्यात्।
आज्यस्थाल्यां मक्षिकादिपतने प्रायश्चित्तम् आज्यस्थाल्यां चरौ वा मक्षिकाक्रिमिरोमपिपीलिकादीनां पतिते तद्व्यपोह्य, अन्यद्गव्यमादाय, प्राजापत्यमाग्नेयं वैष्णवं च जुहुयात्। आज्याऽलाभे तं दोषं व्यपोह्य, दर्भैरुत्पूय, उद्दीप्याऽऽहरेत्। आघारे कृते तस्मिन्न(ग्नौगते) पञ्चषष्टितमः पटलः [[३०२]] ग्नावनुगते ’अयं ते योनि’रिति तद्भस्मनि समिधमारोप्य ’उद्बुध्यस्वे’ति लौकिकाग्नौ निधाय इन्धनानि विक्षिप्य, उज्वाल्य परिषिच्य, विच्छिन्नं, मिन्दाहुतीः वैष्णवं, व्याहृतीश्च यजेत्।
परिस्तरणादिसम्भाराणां दाहे भेदे छेदे नाशे च प्रायश्चित्तम् परिस्तरणादिसम्भाराणां दाहे भेदे छेदे नाशे च पुनस्तत्तत्संयोज्य, महाव्याहृतीराग्नेयं मिन्दाहुतीः वैष्णवं च जुहुयात्।
विशेषेऽनुक्ते स्रुवेण होमः विशेषेऽनुक्ते स्रुवेण होतव्यम्। हविर्विशेषेऽनुक्ते चाऽऽज्येन आज्यालाभे साज्येन चरुणा होममाचरेत्। उक्तद्रव्यस्य हीनं चेत्कापिलेन घृतेन वैष्णवं विंशतिकृत्वो यजेत्।
प्रायश्चित्ताग्निकुण्डे अनुक्ते नित्याग्निकुण्डे छुल्यां वा जुहुयात्।
क्रियाहीने विपर्यासे मन्त्राणां सङ्करे वा वैष्णवं व्याहृतीश्च यजेत्।
प्रायश्चित्तविशेषेऽनुक्ते वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं च जुहुयात्।
रत्नबीजाद्यलाभे
रत्नधातुबीजाद्यलाभे रुग्मपारदयवानाहृत्य रत्नानां वैष्णवं विष्णुसूक्तं, धातूनां दिग्देवत्यं वैष्णवं, बीजानां वायव्यं वैष्णवं च; प्रत्येकं विंशतिकृत्वो यजेत्।
वस्त्रे लक्षणहीने छेदादियुक्ते च तत्त्यक्त्वा, अन्यदाहृत्य, श्रीदेवत्यं, वैष्णवं च, यजेत्।
अण्डजादीनामलाभे प्रत्येकं वस्त्रमाहृत्य, वैष्णवं श्रीभूमिदेवत्यं च, जुहुयात्।
[[३०३]] तोरणेषु प्रमाणहीनेषु पृथक्पृथक्द्वाराधिपदेवत्यं, विंशतिकृत्वो जुहुयात्।
दर्भमालायां हीनायां दर्भमालायां हीनायाम् आर्षं वैष्णवं च यजेत्।
साधिते कुम्भे भिन्ने श्वकुक्कुटाद्यैः स्पृष्टे वा प्रायश्चित्तं कुम्भे प्रमाणहीने खण्डादिदोषयुक्ते वस्त्रवर्णचिह्नादिषु हीनेषु च तस्मिन् देवो न रमेत, तस्माद्यत्नेन तानि विक्षिप्य, वैष्णवं विष्णुसूक्तं पुरुषसूक्तं ब्राह्मं मुनिमन्त्रमाग्नेयं च दशकृत्वो जुहुयात्।
ब्राह्मणभोजनं च कृत्वा, आचार्याय दक्षिणां दद्यात्।
साधिते कुम्भे भिन्ने वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, ब्राह्ममैन्द्रमाग्नेयमार्षं च, विंशतिकृत्वो हुत्वा; आचार्यदक्षिणां दत्वा; विप्रान् भोजयित्वा; अन्यकुम्भं सङ्गृह्य; पूर्ववत्साधयेत्।
श्वकुक्कुटाद्यैरस्पृश्यैः पतितैश्च साधिते कुम्भे स्पृष्टे तं व्यपोह्य, अन्यकुम्भं सङ्गृह्य; पूर्ववत्। वैष्णवं विष्णुसूक्तं पुरुषसूक्तं ब्राह्मं सौरमाग्नेयं च अग्नौ प्रत्येकम् अष्टाधिकशतकृत्वो हुत्वा साधयेत्। आचार्याय दक्षिणां दत्वा वैष्णवान् सम्पूजयेत्। (ब्राह्मणभोजनं च कारयेत्) अस्पृश्यस्पृष्टे बिम्बे स्नपनोक्तक्रमेण स्नपनं कृत्वा पूर्ववत् प्रायश्चित्तं जुहुयात्।
श्वकुक्कुटाद्यैः स्पृष्टे होमे तत्कुण्डं व्यपोह्य, पूर्ववत्कुण्डं कृत्वा, आघारं हुत्वा, आग्नेयं वैष्णवं पञ्चवारुणं मूलहोमं च शतशो जुहुयात्।
वैष्णवान् सम्पूज्य, ब्राह्मणभोजनं च कुर्यात्।
पञ्चषष्टितमः पटलः [[३०४]]
स्रुवादीनामलाभे
स्रुवादीनामलाभे तत्तद्ध्यात्वा, स्रुवेण हुत्वा वैष्णवं ब्राह्ममाग्नेयं सौम्यमादित्यं च जुहुयात्।
समिधाम (द्य) लाभे पालाशीमाश्वत्थीं वाऽऽहृत्य तत्तत्समिधं ध्यात्वा, आग्नेयं वैष्णवं ब्राह्मं च जुहुयात्।
मासातीतदर्भादिनिषेधः
दर्भान् कुशान् समिधो वा मासातीतान् सङ्गृह्य तत्तत्कर्म कृत्वा तद्दोषशमनार्थं वारुणं, वैष्णवं, ब्राह्मं, सौम्यमाग्नेयम्, आदित्यं च जुहुयात्।
आजमाहिषदधिक्षीरनिषेधः
आजं माहिषं दधि क्षीरं च गृहीतं चेत्, वैष्णवं ब्राह्ममाग्नेयं सौरं च व्याहृत्यन्तं पृथक् पृथग्यजेत्।
अग्निकुण्डार्थं मृदो वालुकं वाऽऽशुभदेशात् समाहृतं चेत्, वैष्णवं वारुणं जुहुयात्।
इन्धनमार्द्रं सधूमं जन्तुकण्टकलेपयुक्तम् अग्नौ प्रक्षिपेच्चेत् तत्त्यक्त्वा, अन्यत्प्रक्षिप्य, आग्नेयं वैष्णवं व्याहृतीश्च जुहुयात्।
वस्त्रादिदाहे
वस्त्रादिद्रव्ये, दर्भादौ, प्रपायां वा, अन्यस्मिन् देवार्थं कल्पिते, अग्निना दग्धे, वैष्णवं ब्राह्यं सौरमाग्नेयं च प्रत्येकं दशपर्यायतो जुहुयात्।
कौतुकादिबेराणां चतुर्दशकलशन्यासविपर्यासे वैष्णवं, पङ्क्तीशदेवत्यं च स्नपनकाले बेरविपर्यासे पञ्चवारुणं वैष्णवं च, शयनविपर्यासे वैष्णवं श्रीभूमिदेवत्यं च, प्रत्येकं दशपर्यायतो जुहुयात्।
[[३०५]] हौत्रशंसने विपरीते हीने च हौत्रशंसने विपरीते हीने च ब्राह्मं मुनिं जुहुयात्।
परिषद्देवानामावाहनजुष्टाकारस्वाहाकारार्चनेषु विपरीतेषु हीनेषु च, वैष्णवं, विष्णुसूक्तं, ब्राह्मं, रौद्रं च दशपर्यायतो जुहुयात्।
सर्वहोमविपरीते हीने च सर्वेषां होमानामुक्ते विपरीते हीने च पद्माग्नौ वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं च हुत्वा; यथोक्तं च जुहुयात्।
शयानं देवमुद्धरेच्चेत् श्रीभूमिदेवत्यं, चतुष्कृत्वो (चतुर्वारं) हुत्वा, तथैव शाययेत्।
अध्ययनहीने
अध्ययने हीने सारस्वतमष्टाधिकशतं जुहुयात्।
अस्य यज्ञस्य षोडशऋत्विजामभावे यथालाभं सङ्गृह्य कुण्डानां च लक्षणम्, आख्याम्, आघारविशेषं तत्तल्लोकाधिदैवतं, जातवेदस्वरूपं, ब्राह्मासनस्य लक्षणं, पात्राणां लक्षणं, होमद्रव्यम् ऋषिच्छन्दोऽधिदैवतम्, आघारप्रयोगं च सर्वं विधिना कारयेत्।
प्रतिष्ठादावाचार्यस्याशौचनिषेधः
पञ्चप्रतिष्ठायां त्रिविधोत्सवे च पुनश्चरणं कृत्वा; दीक्षितस्य आचार्यस्य अवभृथात्पूर्वम् आशौचं न स्यात्।
आचार्यस्थापकानां भर्त्सनादौ आचार्यस्थापकादीनां भर्त्सनं (हननं) शपनं वा कृत्वा; वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, ब्राह्मं, सारस्वतं च, हुत्वा; तान(नुज्ञा)वस्थाप्य; कार्यमारभेत।
पञ्चषष्टितमः पटलः [[३०६]] आचार्यदक्षिणाकालातीते वैष्णवं, मुनिमन्त्रम्, अष्टोत्तरशतं हुत्वा; यथोक्तदक्षिणां दद्यात्।
अल्पदक्षिणायागो यजमानं हन्ति, सदक्षिणो यज्ञः फलमनन्तं ददाति।
तस्माद्यज्ञस्य दक्षिणा जीवो भवेत्।
कौतुकादीनामलाभे सुवर्णं निक्षिप्य, वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, वायव्यं, दिग्देवत्यं च जुहुयात्।
सभ्याग्नौ शेषहोमहीने वैष्णवमाग्नेयं, व्याहृतीश्च, दशतो जुहुयात्।
नित्याग्निकुण्डे सभ्याग्निस्थापने हीने पूर्ववत्प्रायश्चितं हुत्वा; श्रोत्रियागारतोऽग्निमाहृत्य, निधायाघारं हुत्वा; नित्यहोमं समाचरेत्।
ध्रुवबेरात्कौतुकादिषु दीपाद्दीपमिव आवाहयेत्, अज्ञानात्तत्कुम्भजलेन तेषामावाहने कृते महत्तरो दोषो भवति। ततः शीघ्रं शुद्धोदकेन ’इषेत्वोर्जेत्वे’ति स्नापयित्वा; देवमनुमान्य; वैष्णवं विष्णुसूक्तं, पुरुषसूक्तं च हुत्वा; पूर्ववत् ध्रुवबेरादावाहयेत्।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे प्रतिष्ठाप्रायश्चित्तविधिर्नाम पञ्चषष्टितमः पटलः ॥ ६५ ॥