अथ चतुःषष्टितमः पटलःठतमः पटलः स्नापनादिमण्टपादौ अग्निदग्धे अशनिवातहते वा प्रमादादालये स्नपनमण्टपे चास्थानमण्टपे महानसे प्राकारगोपुरस्नानोदकपानीयादिस्थानेष्वग्निदग्धेष्वशनिपातवाताहतेषु वा पद्माग्नौ पारमात्मिकमीङ्कारादीन् विच्छिन्नं, मिन्दाहुतिम्, आग्नेयं (च व्याहृत्यन्तं) हुत्वा; पुनस्सन्धानं कारयेत्।
शिलाग्रहणे दारुग्रहणे क्रियाहीने प्रायश्चित्तं शिलाग्रहणकाले, दारुग्रहणकाले वा, क्रियाहीने, विपरीते च; वैष्णवं, विष्णुसूक्तं, मिन्दाहुतिं, विच्छिन्नं च; व्याहृत्यन्तं जुहुयात्।
द्वारस्तम्भभुवङ्गपतङ्गकवाटबोधिकोत्तरतुलास्तम्भादिषु प्रमाणहीनेषु दुष्टेषु अग्निदग्धेषु जीर्णेषु क्रिमिदष्टेषु च तानि त्यक्त्वा; अन्यान्याहृत्य, पूर्ववत्संयोज्य; अभ्युक्ष्य, नित्याग्नौ वैष्णवं, सौम्यमाग्नेयं च, जुहुयात्।
गर्भन्यासार्थं पीठन्यासार्थं च रत्नानामलाभे सुवर्णं निक्षिप्य; विष्णुसूक्तं, धातूनामलाभे पारदं ब्राह्मं, रौद्रं च; बीजानामलाभे यवं, मुद्गं, वायव्यं, वैष्णवं च, प्रायश्चित्तं जुहुयात्।
[[२९७]] ध्रुवार्थं शूलग्रहणस्थापनविपर्यासे प्रायश्चित्तं ध्रुवबेरार्थं शूलाग्रहणे, शूलस्थापनविपर्यासे च; ब्राह्मं, रौद्रं, वैष्णवं, व्याहृत्यन्तं हुत्वा; विधिना संयोजयेत्।
अप्रमाणे विमाने प्रमाणहीनं बेरमज्ञानात् स्थापितं चेत्, तत् राजराष्ट्रविनाशाय भवति। तद्दोषशमनार्थं महाशान्तिं हुत्वा; तद्विमानं तत्तद्बेरं च विधिना कृत्वा; विधिवत् स्थापयेत्।
बेरोक्तशूलानां प्रत्येकं तदुक्तमानद्वित्रिचतुष्पञ्चषड्यवमानं हीनं चेत्, ताम्रेण सम्पूर्णं कृत्वा; वैष्णवं, पुरुषसूक्तं, ’दद्भ्यः स्वाहे’त्यङ्गहोमं च, हुत्वा पुनरारभेत।
स्नेहद्रव्यचूर्णकषायौषधिषु हीनेषु प्रयोगविपर्यासेषु च, रज्जुबन्धाऽष्टबन्धमृदालेपनघटीशर्करालेपनपटाच्छादनाऽऽभरणादिषु क्रमहीनेषु वर्णव्यतिक्रमे च, वैष्णवं, ब्राह्मम्, ऐन्द्रम्, आग्नेयं, महाभूतदेवत्यं, प्राजापत्यं च, व्याहृत्यन्तं हुत्वा; यथाविधि यथास्थाने क्रमेण कारयेत्।
मृण्मयमहाबेरस्य अर्धचित्रनिषेधः मृण्मयं महाबेरमर्धचित्रं न कुर्वीत।
सौवर्णं, राजतं, ताम्रजं, शिलाजं, दारवं, रत्नजं वा, अर्धचित्रं वा कारयेत्।
बेरेऽनुक्तवर्णानुलिप्ते कृत्रिमवर्णानुलिप्ते वा, निर्यासाद्भिः प्रक्षाल्य, पद्माग्नौ वैष्णवं, विष्णुसूक्तं, जयादींश्च, हुत्वा; पश्चादुक्तवर्णान् अनुलेपयेत्।
इष्टकाकल्पितं ध्रुवबेरं सुधया युक्तं नपुंसकवृक्षेण नपुंसकशिलया वा कृतम्, अयः पाषाणचूर्णलशुनहिङ्गुतैलाद्यैस्संयुक्तं, पक्कमृण्मयं शूलोपरि चतुःषष्टितमः पटलः [[२९८]] रज्जुबन्धहीनं, मृद्धीनं, घटीशर्कराकल्कहीनं, प्रमाणहीनमुक्तवर्णहीनं, भूषणहीनम्, अज्ञानादर्थलोभाद्वा स्थापितं चेत् तदाभिचारिकं भवति।
तच्छीघ्रमपहाय, पद्माग्नौ वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, श्रीभूमिदेवत्यं, यद्देवादीन् ब्राह्मं, रौद्रम्, ऐन्द्रमाग्नेयं, वारुणं, सर्वदेवत्यं, पारमात्मिकं च जुहुयात्।
एषा महाशान्तिस्सर्वदोषोपशमनी भवति।
पश्चाद्बेरं विधिवत्संस्कृत्य, विधिना स्थापयेत्।
आरकूटाऽयोवृत्तलोहाद्यनुक्तद्रव्यैः कृतं, कौतुकादिबेरम्, अज्ञानात् स्थापितं चेत्, तदाभिचारिकं भवति। तद्दोषशमनार्थं महाशान्तिं हुत्वा, बेरं सलक्षणं कृत्वा; विधिना स्थापयेत्। कौतुकं स्थितमासीनं वा कारयेत्।
नैव शयानं दैविके चार्षे पौराणिके च यथापूर्वं तथाचरेत्। अन्यथा दोषो भवति।
कौतुकादिबेरे निर्दोषे अर्च्यमाने तत्रोत्कृष्टद्रव्यकृतबेरप्रवेशनं नैव कारयेत्। कुर्याच्चेद्यजमानविनाशनं भवति।
अर्च्यमाने कौतुकादिबेरे विरूपे, विवर्णे, झर्झराद्यैर्युक्ते, वा तच्छक्तिं महाबेरे समारोप्य, नवीकृत्य, बिम्बशुद्धिं कृत्वा, पुनः स्थापयेत्।
अर्च्यमानं कौतुकबिम्बं नृपादिभिः चोरैश्शत्रुभिर्वा अपहृतं चेत्, तद्देशशुद्धिं कृत्वा, महाशान्तिं हुत्वा, तस्मिन् रत्नं, सुवर्णकूर्चं वा निक्षिप्य; ध्रुवात् अर्कमण्डलाद्वा देवमावाह्य, नित्यं समभ्यर्च्य, पूर्वद्रव्येणोत्कृष्टद्रव्येण वा पूर्ववद्बेरं सलक्षणं कृत्वा; कालाऽनपेक्षं पूर्ववत्प्रतिष्ठां कारयेत्।
मधूच्छिष्टक्रियां विना बेरं कृतं चेत्, वैष्णवं, ब्राह्मं, रौद्रं, सौरमाग्नेयं च प्रायश्चित्तं यजेत्।
[[२९९]] अन्यालये स्थापितं ध्रुवं कौतुकं वा अज्ञानादन्यालये स्थापितं चेत् तद्दोषशमनार्थं महाशान्तिं हुत्वा, वैष्णवान् सम्पूज्य, ब्राह्मणान् भोजयित्वा, पूर्वस्थाने विधिना स्थापयेत्।
ग्रामादीनामालयस्य च विनाशे तद्बेरमाहृत्य, आलयान्तरे यावत् कालमर्चनं युक्तं तावत्कालं यथालाभमर्चयेत्।
पीठसङ्घाते कृते तद्बेरे दक्षिणावनते मृत्युः, पश्चिमावनते, अर्थहीनः उत्तरावनते अभिवृद्धिः, पूर्वावनते पुत्रहानिः, कुक्षिच्छिद्रे धान्यनाशः, उदरच्छिद्रे धनक्षयः, कृशे कार्श्यं, स्थूले महाव्याधिः, दीर्घेऽनायुष्यं, ह्रासे अनावृष्टिर्भवति।
अन्याङ्गेषु न्यूनाधिकेषु सर्वहानिर्भवति तस्मात्सर्वप्रयत्नेन बेरं सलक्षणं कृत्वा; विधिना स्थापयेत्।
ध्रुवस्थापनात्पश्चात्, महाप्रतिष्ठायाः पूर्वमनुक्तप्रायश्चित्तं वक्ष्ये। कापिलेन घृतेन पद्माऽग्नौ वैष्णवं, विष्णुसूक्तं, श्रीभूमिदेवत्यं व्याहृत्यन्तं, यजेत्।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे अग्निदाहाद्यशनिपात वाताहतचोरशत्रुभिः दूषितप्रायश्चित्तविधिर्नाम चतुष्षष्टितमः पटलः॥६४॥
चतुःषष्टितमः पटलः [[३००]]