अथ त्रिषष्टितमः पटलः
कर्षणादिपुनःसंस्कारः
अथ कर्षणादिपुनस्सङ्कारविधिं वक्ष्ये। तत्राऽऽलये तृणगुल्मलतादीन् संशोध्य; शिलाप्रक्षेपणम्, इष्टकाप्रक्षेपणं दारुप्रक्षेपणं सुधावर्णलेपनं च, कृत्वा; आलयस्योत्तरे वास्तुहोमं हुत्वा; पुण्याहान्ते पर्यग्निं कृत्वा; पञ्चगव्यैस्समभ्युक्ष्य; कर्षणार्थमालयाऽभिमुखे व्रीहिभिः स्थण्डिलं कृत्वा; देवेशं, विष्वक्सेनम् अनपायिनं च अभ्यर्च्य; हविर्निवेद्य; सुवर्णेन हलं कृत्वा; आचार्यो हस्तेन गर्भागारादिसर्वत्र विष्णोर्नुकाद्यैः; कर्षयित्वा यथोक्तानि बीजानि भारमर्धं वाहृत्याऽभ्युक्ष्य; तस्मिन् सोममभ्यर्च्य; विष्णुगायत्र्या अभिमन्त्र्य, ’सोमं राजान’मिति सर्वत्र वापनं कृत्वा; तस्योपरि दूर्वादितृणभारात्रिषष्टितमः पटलः [[२९४]] नास्तीर्य; तान् गोदानसूक्तमुच्चार्य; गोगणेभ्यो निवेद्य; आलयं संशोध्य; ब्रह्मादीनां पञ्चानां, सावित्रादीनामष्टानाम्, ईशादीनां द्वात्रिंशद्देवानां, नागादीनां पञ्चविंशद्देवानां, रत्यादीनां चतुसॄणां च, द्रोणैः द्रोणार्धैर्वा तण्डुलैरेकपात्रे चरुं पक्त्वा; सघृतं बलिमाहृत्य; पूर्वमुदकं पुष्पं बलिम् उदकं च, तत्तन्नाम्ना दत्वा; अग्निं परिस्तीर्य; वैष्णवं विष्णुसूक्तं पुरुषसूक्तं दिग्देवत्यं च हुत्वा; चतुर्वेदादिमन्त्रान् देवं ध्यायन् जप्त्वा; आद्येष्टकास्थानं संस्पृश्य अन्तः परिषेकं कृत्वा; अग्निं परिस्तीर्य; गर्भविन्यासार्थं वैष्णवं, विष्णुसूक्तं पुरुषसूक्तं श्रीसूक्तं महीसूक्तं दिग्देवत्यं च हुत्वा; ’नागराजाय स्वाहा, सर्वरत्नेभ्यः स्वाहा सर्वधातुभ्यः स्वाहा सर्वबीजेभ्यः स्वाहा, सर्वलोहेभ्यः स्वाहा, नदीभ्यः स्वाहा, पातालेभ्यः स्वाहा, नागेभ्यः स्वाहा, दिग्गजेभ्यः स्वाहेति हुत्वा; अभ्यन्तरं द्वारदक्षिणस्तम्भाद्दक्षिणे मेदिनीमभ्यर्च्य; पुरुषसूक्तं मेदिन्यादीन् जप्त्वा; तत्तत्स्थानं संस्पृश्य; अन्तःपरिषेकं कृत्वा; परिषिच्य; अन्त्येष्टकार्थं वैष्णवं विष्णुसूक्तं पुरुषसूक्तं विमानपालदेवत्यं च हुत्वा; विमानस्योपरिष्ठात् स्थूपिकीलादधस्तात्, चतुर्वेदादिमन्त्रान् विष्णुसूक्तं जप्त्वा; अभिमृशेत्।
ध्रुवबेरं मानहीनं चेत् प्रायश्चित्तं ध्रुवबेरं मानहीनं चेत्, अग्निं परिस्तीर्य; ध्रुवस्थापनोक्तवद्धोमं हुत्वा; पूर्ववद्रत्नन्यासमन्त्रान्, स्थापनसूक्तं च, जप्त्वा; संस्थाप्य; नवीकरणं कृत्वा; कौतुकादिभिस्सह प्रतिष्ठां कारयेत्॥
ध्रुवे नष्टे कृत्यं ध्रुवे नष्टे पूर्वद्रव्येण, उत्कृष्टद्रव्येण वा, बेरं सलक्षणं कृत्वा; प्रतिष्ठां कारयेत्।
नरवृषगजाद्यैरुत्पाटितं बेरमहीनाङ्गं चेत् बेरशुद्ध्यर्थं जलाधिवासं कृत्वा; तत्स्थाने रत्नन्यासं कृत्वा; पुनः प्रतिष्ठां कारयेत्।
[[२९५]] अन्याऽऽलयादपहृत (मात्रं) निष्पन्नक्रियं शिलाबेरं यदि स्यात् तद्भूमौ पिधाय; विधिनाऽऽहृत्य; शेषक्रियां कृत्वा; विधिना स्थापयेत्।
शिल्पिना शिलाग्रहणं कृत्वा; सलक्षणं कृतं बेरं स्थापितुमिच्छेच्चेत् विधिनाऽऽहृत्य; प्रतिष्ठां कारयेत्।
यथाविधि यथास्थानं स्थापितं निर्दोषं बेरं न चालयेत्। तदज्ञानाच्चालितं चेत्, राज्ञो राज्यस्य चाऽशुभाय नाशाय भवति। तद्दोषशमनार्थं पद्माग्नौ महाशान्तिं हुत्वा; विप्रशतं भोजयित्वा; सुवर्णदानं गोदानं च कृत्वा; पुनःप्रतिष्ठां कारयेत्।
आचार्याद्यैरविधज्ञैः स्थापितं बेरं क्षिप्रं चालयित्वा; यथाविधि विधिज्ञैः पुनःस्थापयेत्।
विधिज्ञैः स्थापितं बेरं चालितं चेत्; शान्तिं हुत्वा; वैष्णवान् सम्पूज्य; यथास्थानं यथाविधि स्थापयेत्।
विमानं ध्रुवं च, नदीतटाकसमुद्रसम्बाधमहावातादिना येन केन चिच्चालितं चेत्, तद्बेरं भूमौ पिधाय; तत्स्थाने पूर्ववद्विमानं कृत्वा; ध्रुवं बेरम् अचलं स्थापयेत्।
अथवा तत्समीपे ग्रामादौ सति तत्र विविक्ते देशे मनोरमे तथैव विमानमुत्कृष्टं वा कृत्वा; तद्बेरं सपरिषत्कमाहृत्य; संस्थाप्य; विधिनार्चयेत्।
ग्रामादौ हीने तस्माच्छतदण्डादूर्ध्वं विस्तीर्णे देशे पूर्ववत् विमानं कृत्वा; तद्देवं स्थापयेत्।
राजा राष्ट्रान्तरं जित्वा बेरमाहृत्य, स्थापितुं यदि इच्छेत्, स्वराष्टे्र मनोरमे देशे ग्रामविन्यासं कृत्वा; तद्वास्त्वङ्गाऽऽलये बेरं विधिना संस्थाप्यार्चनादीनि कारयेत्॥
त्रिषष्टितमः पटलः [[२९६]] अपौरुषस्य देवावासस्य समीपे पौरुषं विमानं कर्तुमिच्छेच्चेत् तस्मिन् प्राकाराभ्यन्तरे तद्बाह्ये वा, भूशुद्धिं विना प्रासादं प्रतिमां च, कृत्वा; प्रतिष्ठाप्यार्चयेत्।
तस्य मूलस्थानाऽर्चनसमफलमचिरादेव सिद्ध्यतीत्याह मरीचिः॥
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चानाकल्पे कर्षणादिपुनस्संस्कारविधिर्नाम त्रिषष्टितमः पटलः ॥ ६३ ॥