अथ द्विषष्टितमः पटलः ध्रुवबेरस्थानहीनादौ प्रायश्चित्तं समाप्ते विमाने मासादूर्ध्वं ध्रुवबेरस्थापने हीने वैष्णवं, विष्णुसूक्तं, रौद्रम्, ऐन्द्रम्, आग्नेयं, वारुणं, बार्हस्पत्यं, श्रीभूमिदेवत्यं च, शान्तिं हुत्वा; वैष्णवान्सम्पूज्य, आचार्याय दक्षिणां दत्वा; ब्राह्मणान् भोजयित्वा; आरभेत।
मासद्वयातीते द्विगुणम्। त्रिमासे अतीते त्रिगुणम्।
एवं संवत्सरान्तं वर्धयेत्। संवत्सरेऽतीते तु महत्तरो दोषो भवति।
जलाधिवासात्पूर्वं ध्रुवबेरस्याङ्गहानिश्चेत्, वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, श्रीभूमिदेवत्यं, दद्भ्यः स्वाहेत्यङ्गहोमं जुहुयात्।
आचार्याय दक्षिणां दत्वा सन्धानायोग्यं चेदपरं बेरं समाहरेत्।
शिलाग्रहणक्रियां विना बेरं सलक्षणं शिल्पिना कृतं चेत्, वैष्णवं शान्तिं हुत्वा; तद्बेरं भूमौ पिधाय, वास्तुहोमं हुत्वा; पर्यग्निपञ्चगव्याभ्यां संशोध्य; तद्बेरं परितः पूर्ववत् बलिं दत्वा; देवान् समाराध्य; पश्चात्समन्त्रकं सङ्गृह्य; विधिना स्थापयेत्।
[[२९३]] जलाधिवासात् पश्चात् स्थापनात्पूर्वं देवदेव्यादीनामङ्गहानिश्चेत्, वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, श्रीसूक्तं, महीसूक्तं, ब्राह्मं, रौद्रं, मुन्योर्मन्त्रं च हुत्वा; तदङ्गहीनं सन्धानं कृत्वा, अयुक्तं विधिवत् त्यक्त्वा; पुनर्बेरं समाहृत्य स्थापयेत्।
स्थापिते महाबेरे मासादूर्ध्वं संस्कारहीने वा, अब्जाऽग्नौ वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं श्रीभूमिदेवत्यं, ब्राह्मं, रौद्रं, पारिषदं हुत्वाऽऽरभेत।
मासद्वयेऽतीते द्विगुणं, मासत्रये त्रिगुणम्, एवं संवत्सरान्तं वर्धयेत्।
संवत्सरान्ते पुनः स्थापयेत्। द्वादशे वर्षे अतीते विमानस्य कर्षणादिपुनस्संस्कारं बेरस्य शिलाशूलग्रहणमन्यत् सर्वं च कृत्वा पुनः प्रतिष्ठां कारयेत् इत्याह मरीचिः।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे ध्रुवबेरस्थापनहीनादि प्रायश्चित्तविधिर्नाम द्विषष्टितमः पटलः ॥ ६२ ॥