अथ एकषष्टितमः पटलः भूपरीक्षादौ प्रायश्चित्तम् अथ भूपरीक्षादिप्रायश्चित्तविधिं व्याख्यास्यामः न्यूनातिरिक्तव्याघातेषु प्रायश्चित्तं न कुर्याच्चेत्, विनाशाय भवति। तस्मात्प्रायश्चित्तं समाचरेत्। प्राय इति शब्देन दोषसम्पातानां चित्तमिति तस्य प्रतिषेधः, तस्मात्प्रायश्चित्तमित्युच्यते। भूपरीक्षादिक्रियां यस्मिन्नहनि कारयेत्, तस्मिन्नहनि कारयेत्, तस्मिन्नहनि तदर्थं गमनकाले विघ्नश्चेत्, वैष्णवं वैघ्न्यं च जत्प्वा; दुर्दर्शं सौरं, दुर्वाक्ये श्रुते ब्राह्मं सारस्वतं च, जत्प्वा; देवं ध्यायन्, गच्छेत्।
तत्काले कलहरुधिरस्रावाऽग्निदाहेषु वैष्णवं, सौम्यं वैष्वक्सेनं, सौदर्शनं, गारुडं च, लौकिकाग्नौ हुत्वा; पुनरारभेत।
भूपरीक्षादिकाले तत्पांसुक्षये पूर्णाहुतिं, मिन्दाहुतिं च जुहुयात्।
तत्तदभिमिमन्त्रक्रमेणाऽऽहुतं चेत्, तस्मिन् शुद्धे देशे च औपासनाऽग्निमाधाय; वैष्णवं व्याहृत्यन्तं दशशो जुहुयात्।
कर्षणप्रायश्चित्तम्
कर्षणकाल वृषभे अङ्गहीने रौद्रं, ब्राह्मं, हलादीनामुक्तवृक्षालाभे प्रमाणहीने च वैष्णवं, सौम्यम्, आग्नेयं, प्राजापत्यं च, रज्जुच्छेदे वारुणं, सीतायां श्रीदेवत्यं, वात्रे(र्त्रे) ज्येष्ठामन्त्रं, वृषे वायव्यं, क्षिणिये वासवं युगे शेषमन्त्रं, प्रतोदे याम्यं, व्याहृतिपर्यन्तं जुहुयात्।
कर्षणकाले कपालास्थितुषकेश वल्मीक पङ्कसङ्करादिदर्शने तद्व्यपोह्य; तस्मिन् पञ्चगव्येनाऽभ्युक्ष्य; सौम्यमाग्नेयं वैष्णवं च जुहुयात्।
विष्वक्सेनानपायिनोरर्चनाहीने वैष्णवं, तद्देवत्यं च हुत्वा; पुनरर्चयेत्।
बीजावापने हीने वैष्णवं, सौम्यं, वायव्यं, हुत्वा; बीजदानं कुर्यात्।
एकषष्टितमः पटलः [[२९०]] गोगणनिवेदने हीने वैष्णवं, वैष्वक्सेनं, गारुडं, सौदर्शनं च, हुत्वा; पलालभारान् तृणानि वा आस्तीर्य गोगणेभ्यो निवेदयेत्।
पददेवताबलौ हीने विपरीते वा तत्पददेवतामन्त्रपूर्वं वैष्णवं ब्राह्मं, वासवं, याम्यं, वारुणं, कौबेरं च हुत्वा; आराध्य; तथैव बलिमर्चयेत्।
ब्रह्मपद्माऽवटक्रियायां हीनायां कार्यमारब्धं; वैष्णवं ब्राह्मं वारुणं महीदेवत्यं हुत्वा; आरभेत।
शकुनपरिच्छेदहीने दिग्देवत्यम् आदित्यं वैष्णवं च हुत्वा; दिक्परिच्छेदं कुर्यात्।
विमानार्थं भूखननकाले शल्यलोष्ठपाषाणादिदर्शने वैष्णवं ब्राह्मं पञ्चभूमिदैवत्यं व्याहृत्यन्तै(ती)श्च जुहुयात्।
आद्येष्टकाप्रायश्चित्तम्
आद्येष्टिकाशिलाया वा प्रमाणे हीने अधिके च वैष्णवं विष्णुसूक्तं च जुहुयात्।
तासामग्रविपर्यासे अधोमुखे च दिग्देवत्यं वैष्णवं च हुत्वा देवानामादिमन्त्रान् जपेत्।
तस्मिन् रत्नन्यासे विहीने विष्णुसूक्तं जुहुयात्।
गर्भन्यासप्रायश्चित्तम्
गर्भन्यासे विहीने वैष्णवं विष्णुसूक्तं श्रीभूमिदेवत्यं च हुत्वा; विधिना गर्भन्यासं कारयेत्।
गर्भभाजने प्रमाणहीणे अधिके च सौरं, सौम्यमाग्नेयं च, यजेत्।
[[२९१]] द्रव्याणां सङ्करे स्थानविपर्यासे च वैष्णवं, तत्तत्स्थानाधिदेवत्यं च, जुहुयात्।
अनुक्ते देशे न्यस्तं चेत्, वैष्णवं विष्णुसूक्तं पुरुषसूक्तं श्रीभूमिदेवत्यं च हुत्वा; तत्तत्थाने निवेशयेत्।
मूर्धेष्टकाशिलाप्रमाणहीनप्रायश्चित्तम्
मूर्धेष्टकाशिलाप्रमाणे हीने अधिके च आद्येष्टकावत् प्रायश्चित्तं समाचरेत्।
स्थूपिकीले तदाधारे च प्रमाणहीने उक्तवृक्षालाभे च वैष्णवं, सौम्यमाग्नेयं, श्रीभूमिदेवत्यं च हुत्वा; विधिना कारयेत्।
विमाने समाप्ते मासादूर्ध्वं कलभक्रिया सुधावर्णाऽनुलेपनेषु हीनेषु वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, श्रीभूमिदेवत्यं च हुत्वाऽऽरभेत। आग्नेयं भूमिदेवत्यं च हुत्वा; विधिना कारयेत्। आलयस्य कवाटे हीने धात्रादिषङ् देवत्यं वैष्णवं श्रीभूमिदेवत्यं च जुहुयात्। प्राकारगोपुरादिषु हीनेषु महत्तरो दोषो भवेत् वंशहानिः, शत्रुवृद्धिश्च भवेत्। विष्वक्सेने हीने कुलोत्सादनं, तत्पीठे हीने धनधान्यायुष्यहानिः, कूपाऽऽराममहानसपुष्पसञ्चयस्नानोदकपानीयस्थान स्नपनालयाऽऽस्थानमण्टपादिषु हीनेषु तत्सर्वं निष्फलं भवति।
तस्मात्सर्वप्रयत्नेन कारयेत्। वैष्णवं विष्णुसूक्तं पुरुषसूक्तं श्रीभूमिदेवत्यं तत्तदधिदेवत्यं जुहुयात्।
अनुक्तप्रायश्चित्तम्
प्रथमेष्टकादिस्थूपिकीलविन्यासान्तमनुक्तप्रायश्चित्तं वक्ष्ये। तदालयात्पुरतो दक्षिणे वा पद्माग्नौ वैष्णवं विष्णुसूक्तं पुरुषसूक्तं श्रीभूमिदेवत्यं स्थूप्याद्युपाननाऽन्तरङ्गनामभिरङ्गहोमं ’दद्भ्यः स्वाहा’दीन् ब्राह्मं रौद्रं वैघ्नम् आग्नेयं दुर्गासूक्तं प्राजापत्यं च जुहुयात्।
एकषष्टितमः पटलः [[२९२]] समाप्ते विमाने अज्ञानादर्थलोभाद्वा ध्रुवबेरं विना कौतुकं स्थापितं चेत्, तदाभिचारिकं भवति, ग्रामस्य यजमानस्य राज्ञो राष्ट्रस्य च विनाशो भवति। तस्मान्महाशान्तिं त्र्यहं हुत्वा; वैष्णवान् सम्पूज्य, ब्राह्मणान् भोजयित्वा; ’क्षमस्वे’ति देवं प्रार्थ्य; बालालये प्रतिष्ठाप्य; ध्रुवबेरं, ध्रुवार्चाबेरं वा स्थापयेत्।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे भूपरीक्षादिप्रायश्चित्तविधिर्नाम एकषष्टितमः पटलः ॥ ६१ ॥