०६० मानुषवासुदेवादिविधः

अथ षष्टितमः पटलः

मानुषवासुदेवस्य

अथ मानुषवासुदेवमायताश्रे विमाने मध्यमदशतालमितं द्विभुजं शङ्खचक्रधरं, दक्षिणे रुक्मिणीं देवीं, तद्दक्षिणे हलमुसलधरं बलभद्रं, तद्दक्षिणे प्रद्युम्नं द्विभुजं, क्षुरिकाधरदक्षिणहस्तं, कट्यवलम्बितवामहस्तं, तद्दक्षिणे विरिञ्चं चतुर्बाहुं चतुराननं, देवस्य वामपार्श्वे अनिरुद्धं द्विभुजं खड्गखेटकधरं, तद्वामे साम्बं द्विभुजं दानदक्षिणकरं, तद्वामे गरुडं च कारयेत्। तेषां वर्णाऽम्बराऽऽभरणानि भृगूक्तविधानेन कारयेत्। देवान् एतान् स्थितानेव संस्थाप्य, तद्रूपं कौतुकं कारयेत्। अथवा विष्णुं चतुर्भुजम् एवं संस्थापयेत्॥

दैविकवासुदेवस्य

दैविकं वासुदेवं सिंहासने समासीनं चतुर्भुजं शङ्खचक्रधरं श्रीभूमीभ्यां सहितं तथा दक्षिणवामयोः पूर्वोक्तान् देवान् बलभद्रस्य दक्षिणे देवीं रेवतीं, [[२८७]] प्रद्युम्नस्य रोहिणीम् अनिरुद्धस्योषां साम्बस्य इन्दुकरीं च सहैव स्थापयेत्।

एतेषां कौतुकबिम्बानि पूर्ववत् कारयेत्॥

तत्प्रतिष्ठा

एतेषां प्रतिष्ठाविशेषं वक्ष्ये - पूर्वोक्तयागशालामध्ये शय्यावेदिं परितः पञ्चाग्नीन् पौण्डरीकाग्निं च कृत्वा; अन्वाहार्यस्य दक्षिणे च आवसथ्यस्योत्तरे चौपासनाग्निकुण्डे कृत्वा; वासुदेवयोस्सभ्ये बलभद्रस्याऽऽहवनीये प्रद्युम्नस्यान्वाहार्ये अनिरुद्धस्य गार्हपत्ये साम्बस्य आवसथ्ये दक्षिणोत्तरयोः औपासनाऽग्निकुण्डयोश्च हौत्रं प्रशंस्य; ’भद्रेशं पुण्यमूर्तिं वासुदेवं पुण्यात्मक’मिति वैदिकवासुदेवस्य; देव्योर्मुन्योश्च पूर्ववत्; ’बलिनं हलधरं नागराजं सङ्कर्षण’मिति बलभद्रस्य, रोहिणीपतिं प्रद्युम्नं वीरं बलशासन’मिति प्रद्युम्नस्य, ’पुरुषं सत्यमच्युतमनिरुद्ध’मिति अनिरुद्धस्य ’साम्बं जाम्बवतीसुतं भद्रं सुन्दर’मिति साम्बस्य; ’पितामहगरुडयोश्च पूर्ववत् मूर्तिमन्त्रैरावाहनादीनि कृत्वा सभ्याग्नौ वासुदेवयोः, पुरुषसूक्तम् आहवनीये विष्णुसूक्तम् अन्वाहार्ये वैष्णवं, गार्हपत्ये विष्णुगायत्रीम्, आवसथ्ये चैकाक्षरादिसूक्तं च प्रत्येकं दशकृत्वो ब्रह्मणो ब्राह्मं, गरुडस्य गारुडं, तथा हुत्वा; अन्यत्सर्वं पूर्ववदाचरेत्॥

आलेख्यदेवानाम्

अथ आलेख्यदेवानां स्थापनविधिं वक्ष्ये - द्विविधमालेख्यं भवति, पटे भित्तौ च तेषां मानाङ्गुलेन सप्ताङ्गुलात् द्व्यङ्गुलमानेषु इष्टमानं विनिश्चित्य; पश्चात्तदुक्ततालविभागेन साङ्गोपाङ्गतत्तद्वर्णाम्बराभरणाद्यैर्युक्तं, नयनानन्दनं, समालिख्य, शुभे नक्षत्रे स्थापनं कारयेत्॥

तत्प्रतिष्ठा

तद्दिनात्पूर्वमङ्कुरानर्पयित्वा; सम्भारानाहृत्य; पूर्वेद्युरेव पूर्वाह्ने तत्तद्देवाभिमुखे चाऽऽहवनीयाग्निकुण्डं च कृत्वा आघारान्ते वास्तुहोमाङ्गहोमौ हुत्वा; षष्टितमः पटलः [[२८८]] पूर्ववदक्षिमोचनं कृत्वा; अग्निं सुसंरक्ष्य; बेरशुध्यर्थम् उत्पूतैराधावैः पवमानाद्यैः समभ्युक्ष्य; पुण्याहं वाचयित्वा; तद्रात्रावग्निं प्रज्वाल्य; परिषिच्य; वैष्णवं व्याहृत्यन्तं हुत्वा; तत्तद्देवाभिमुखे धान्योपरि कुम्भं सन्यस्य; तत्तद्रूपं मनसा ध्यात्वा कुम्भेऽम्भसि समावाह्य; पूर्ववत् सप्तकलशैः तत्तत्कुम्भं बिम्बं चाभ्युक्ष्य; व्रीहिभिः स्थण्डिलं कृत्वा; वस्त्राण्यास्तीर्य; प्रतिसरबन्धनं शयनं च समन्त्रकं कृत्वा; अग्निं परिस्तीर्य; हौत्रं प्रशंस्य; तत्तन्मूर्तिमन्त्रैरावाहनादीनि कृत्वा; तत्तन्मन्त्रैरष्टाधिकशतमावर्त्य हुत्वा; रात्रिशेषं व्यपोह्य; प्रभाते स्नात्वा; देवान् प्रणम्य; मुहूर्ते प्राप्ते तत्तन्मन्त्रेण स्थापनं कृत्वा; तत्तद्धृदये तत्तद्बीजाक्षरं न्यस्य; तत्तन्मन्त्रेण तत्तत्कुम्भोदकेन आवाह्य; पुण्याहान्ते अभिमुखे देशे (धान्यपीठे) देवमभ्यर्च्य, हविर्निवेदयेत्॥

आचार्यादिभ्यो दक्षिणां दद्यात्। नित्यार्चनामाचरेदित्याह मरीचिः॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे मानुषवासुदेवादिविधर्नाम षष्टितमः पटलः ॥ ६० ॥

कर्षणादिप्रतिष्ठान्तं, प्रतिष्ठाद्यर्चनान्तम्, अर्चनादिस्नपनान्तं, स्नपनाद्युत्सवान्तं प्रकरणं समाप्तम्॥

[[२८९]]