०५९ कृष्णकल्क्यादिमूर्तिविधिः

अथ एकोनषष्टितमः पटलः

कृष्णस्य

अथ कृष्णस्य लक्षणं वक्ष्ये - मध्यमं दशतालमितं द्विभुजं श्यामाभं रक्तवस्त्रधरं सर्वाभरणभूषितम् उद्बन्धकुन्तलं दक्षिणेन हस्तेन क्रीडायष्टिधरमुद्धृतवामकूर्परं हिक्का सूत्रादधो दशाङ्गुलं दक्षिणकरकटकाग्रं नाभिदघ्नं वा तस्मात् षट्सप्ताऽष्टदशाङ्गुलं निम्नं, नासाग्रात् पादतलान्तं हिक्कासूत्राद्वामेऽङ्गुलं सूत्रात्तस्यार्धं हृदयं नाभेर्दक्षिणे कलाङ्गुलं मेढ्रं भागं वामे जान्वन्तं जगतीयवं सूत्रान्मात्रत्रयं पार्ष्ण्यन्तरम् एवं समभङ्गसूत्रमन्यत्सर्वं राघवस्योक्तवत्।

एकोनषष्टितमः पटलः [[२८४]] दक्षिणे रुक्मिणीदेवीं हेमाभां धम्मिल्लकुन्तलयुतां वा प्रसारितदक्षिणहस्तां, सपद्मवामहस्तां, वामपार्श्वे सत्यभामां श्यामाभां धम्मिल्लकुन्तलयुतां सोत्पलदक्षिणहस्तां प्रसारितवामकरां सर्वाभरणसंयुक्तां कारयेत्। वामपार्श्वे गरुडं प्राञ्जलीकृत्य स्थितं कारयेत्। देवस्य दक्षिणहस्तं लीलायष्टियुतं वामं सशङ्खं वा कारयेत्। तद्रूपं कौतुकं विष्णुं चतुर्भुजं वा कारयेत्॥

नवनीतनटस्य वामपदं समाकुञ्च्य स्थितं दक्षिणमुत्तानकुचितं, दक्षिणहस्तमभयं नवनीतयुतं वा वामं प्रसार्य अनुत्तानं सर्वाभरणभूषितम् अम्बरहीनम् अम्बराधारयुतं नवनीतनृत्तरूपं कारयेत्।

एवमेव कालियाऽहिफणोपरिस्थितं दक्षिणकरं सपतकं वामकरेणाऽहिपुच्छं सङ्गृह्य नृत्यन्तं कारयेत्। कृष्णरूपाण्यसङ्ख्यानि वक्तुं न शक्यानि तस्माद्यथेष्टरूपं कारयेत्॥

तत्प्रतिष्ठा

अस्य प्रतिष्ठाविशेषं वक्ष्ये - पूर्वोक्तयागशालामध्ये शय्यावेदिं परितः पञ्चाग्नीन् पौण्डरीकाग्निं च सङ्कल्प्य; पौण्डरीके प्रधानाग्नौ हौत्रं प्रशंस्य, ’कृष्णं पुण्यं नारायणं त्रिदशाधिप’मिति कृष्णस्य; ’रुक्मिणीं सुन्दरीं देवीं रमा’ मिति रुक्मिण्याः; ’सत्यभामां सतीं सन्नतीं क्षामा’मिति सत्यभामायाः; गरुडस्य पूर्ववत्, ’नवनीतनटं कृष्णं देवकीसुतं बालरूप’मिति नवनीतनटस्य, ’कालियमर्दनं कृष्णं गोपालं वटपत्रशायिन’ मिति कालियमर्दनस्य; अन्येषां रूपाणां तत्तत्कर्मनाम संयोज्य; आवाहनादीनि कारयेत्। ’सत्यस्सत्यस्थ’ (वै॰म॰प्र॰७) इति मन्त्रेणाऽष्टोत्तरशतमावर्त्य हुत्वा; शेषं पूर्ववदाचरेत्।

नित्यार्चनायां ध्रुवबेरमष्टोपचारैः कौतुकं षोडशोपचारमन्त्रैः संयोज्याऽर्चयेत्।

स्नपनोत्सवादीनि पूर्ववत्कारयेत्॥

[[२८५]] रुक्मिणीसत्यभामयोः पृथक् प्रतिष्ठा चेत् श्रीभूम्योरिव कारयेत्॥

कल्किनः

कर्किणं मध्यमदशतालमितम् अश्वाकारं मुखम् अन्यं नराकारं च चुतर्भुजं शङ्खचक्रखड्गखेटकधरम् उग्ररूपं भयानकम् एवं देवरूपं कृत्वा, तद्रूपं कौतुकं विष्णुरूपं चतुर्भुजं वा, कारयेत्॥

तत्प्रतिष्ठा

अस्य प्रतिष्ठाविशेषं वक्ष्ये - पूर्वोक्तयागशालामध्ये शय्यावेदिं परितः पञ्चाग्नीन् पौण्डरीकाग्निं च सङ्कल्प्य; पौण्डरीके प्रधानाग्नौ हौत्रं प्रशंस्य; ’कल्किणं विष्णुं कामरूपं संहारात्मक’मित्यावाहनादीनि कृत्वा; ’धूर्नो वहन्ता’ (वै॰म॰त्र॰७) मित्यष्टोत्तरशतं हुत्वा; अन्यत्सर्वं समानं कुर्यात्। नित्यार्चनायां पूर्वोक्तार्चाक्रमेणमूर्तिमन्त्रं संयोज्याऽर्चयेत्। अवताराणां पूर्ववत्त्रेताग्निविधानेन एकाग्निविधानेन वा अग्नीन् सङ्कल्प्य; तत्प्रधानाग्नौ हौत्रशंसनादीनि कारयेदित्येके॥

आदिमूर्तिविधिः

अथ आदिमूर्तिविधिं वक्ष्ये। अनन्तोत्सङ्गे समासीनं दक्षिणं प्रसार्य वाममाकुञ्च्य दक्षिणहस्तमनन्तोत्सङ्गे न्यस्य वामं वामजानूर्ध्वे प्रसार्य चतुर्बाहुं शङ्खचक्रधरं फणाभिः सप्तभिः पञ्चभिर्वा छन्नमौलिं, प्रवालाभं सर्वाभरणभूषितं कृत्वा; तद्दक्षिणे भृगुं वामे मार्कण्डेयम् एकजानुक्रमेणाऽऽसादयित्वा, दक्षिणे ब्रह्माणं वामे शङ्करं च कृत्वा; तद्रूपं कौतुकं च कृत्वा प्रतिष्ठोक्तक्रमेण प्रतिष्ठां कारयेत्। ’आदिमूर्तिममितमहिमानम् अत्यन्ताद्भुतं सर्वाधार’मित्यादिमूर्तेः नागराजस्य पूर्ववदावाहनादीनि कारयेत् अन्यत्सर्वं पूर्ववदाचरेत्॥

एकोनषष्टितमः पटलः [[२८६]]

अनन्तशयानस्य

अनन्तभोगशयने प्रतिष्ठा चेत् अनन्तशयनादिपञ्चमूर्तिमन्त्रैरावाहनादीनि कारयेत्। पुष्पन्यासकाले आसीनमेव स्मरेत्। सुप्तं प्रबुद्धं देवेशं जाग्रद्भावेन संयुक्तं हरिं प्रणवेनोत्थाप्य; पादपार्श्वे पञ्चायुधांश्च तत्तन्मूर्तिमन्त्रैस्समर्चयेत्।

अनन्तस्य फणापार्श्वे ’अनन्तं नागराजं सहस्रशीर्षं शेषं विष्णुसख’मिति मूर्तिमन्त्रैरर्चनं, पुष्पन्यासं कुर्यात्। कौतुकं विष्ण्वादिपञ्चमूर्तिमन्त्रैः पूर्ववदर्चयेत्।

उद्वासनकाले मन्त्रेण देवेशं शाययेत्। भोगशयने द्वाराभ्यन्तरे जयां विजयां च समर्चयेत् अन्यत्सर्वं पूर्ववदाचरेदित्याह मरीचिः।

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे कृष्णकल्क्यादिमूर्तिविधिर्नाम एकोनषष्टितमः पटलः ॥ ५९ ॥