०५८ रामत्रयविधिः

अथ अष्टपञ्चाशत्तमः पटलः जामदग्न्यस्य लक्षणं जमदग्निरामं मध्यमं दशतालमितं द्विभुजं रक्ताभं श्वेतवस्त्रधरं दक्षिणेन हस्तेन परशुधरम् उद्देश्यवामकरं जटामकुटधरं सोपवीतं सर्वाभरणभूषितं स्थितमेवं कारयेत्। कौतुकं तद्रूपं चतुर्भुजं विष्णुं वा कारयेत्॥

तत्प्रतिष्ठा

अथ प्रतिष्ठाविशेषं वक्ष्ये - पूर्वोक्तयागशालामध्ये शय्यावेदिं परितः पञ्चाऽग्नीं ँश्च परिकल्प्य; आहवनीये प्रधानाग्नौ हौत्रं प्रशंस्य, ’रामम् ऋषिसुतं विष्णुं परशुपाणि’ मिति आवाह्य आहवनीये आज्याहुतीर्हुत्वा; ’विष्णुर्वरिष्ठ’ (वै॰म॰प्र॰८) इति मन्त्रेणाऽष्टोत्तरशतमावर्त्य हुत्वा अन्यत्सर्वं पूर्ववदाचरेत्।

नित्यार्चनायां ध्रुवबेरं तन्मूर्तिमन्त्रैरष्टोपचारैरभ्यर्च्य, कौतुकं पूर्ववत् षोडशोपचारमन्त्रैः संयोज्याऽर्चयेत्। स्नपनोत्सवादीनि विष्णोरिव समाचरेत्॥

राघवस्य लक्षणम् अथ राघवं रामं सविंशतिशताङ्गुलमितं द्विभुजं त्रिनतस्थितं दक्षिणेन हस्तेन शरधरं वामेन चापधरं श्यामाभं रक्ताम्बरधरं किरीटाद्याभरणाऽन्वितं कारयेत्। अभङ्गसमभङ्गमतिभङ्गमिति त्रिविधं नतमानमाभङ्गस्य त्रिमात्रं समभङ्गस्य वेदाङ्गुलमतिभङ्गस्य शराङ्गुलम् एतेषां पादाङ्गुष्ठान्तरमष्टादशाङ्गुलं विंशत्यङ्गुलं क्रमेण तत्त्रिभागैकपार्ष्ण्यन्तरमापादतलमस्तकं मध्यसूत्रस्य मूर्ध्नः पार्श्वे वामनेत्रसितमण्डले वामनासापुटेऽधराहनोर्वामपार्श्वे सव्यस्तनस्य दक्षिणपार्श्वे नाभेर्दक्षिणे वामोरुदक्षिणपार्श्वे वामाङ्घ्रिपार्श्वे प्रलम्बयेत्।

एतदाभङ्गसूत्रं समभङ्गस्य मुखं त(थो) च्चोक्तं वामस्तनपीठपार्श्वे नाभिमध्ये ऊरुमध्ये पार्ष्ण्यमध्ये तु प्रलम्बयेत् एतत्समभङ्गमात्रम्। अतिभङ्गस्य मुखं [[२८१]] पूर्ववन्नाभेर्वामे वामोरुमध्ये पार्ष्ण्यन्तरे च लम्बयेत् एतदतिभङ्गसूत्रम्। शेषं पूर्ववत् अधिकात् हिक्कासूत्रात् स्तनं द्विमात्रं सूत्रान्नाभि द्विमात्रं सूत्रान्मात्रार्थं जानुनीप्रमते (प्रमिति मति) भङ्गे अन्यसूत्रनिम्नं युक्तितः कारयेत्।

दक्षिणहस्तस्य तलाग्रं नाभिदघ्नं श्रोणीदघ्नं वामकोर्परान्तरं पार्ष्ण्यन्तरसमं वामहस्तं सचापम् उष्णीषद्वयस्योन्नतं तस्य नीव्रं मुखद्वलयं मौलिपार्श्वे धनुस्थितं राघवं कारयेत्।

सीतां देवस्य बाहुसमां देवस्योनार्धतालेन मानेनाभङ्गवशाद्रुक्माभां शुकपक्षनिभाम्बरां सर्वाभरणभूषितां धम्मिल्लबन्धयुतां करण्टिकामकुटयुतां वामहस्तेनोत्फुल्लपद्मधरां प्रसारितदक्षिणहस्तां देवस्य दक्षिणपार्श्वे किञ्चिद्देवं समीक्ष्य विस्मयोत्फुल्ललोचनां कारयेत्।

कटकाग्रस्योत्सेधं स्तनाक्षसमं नाभेर्मणिबन्धान्तरं सार्धत्रयोदशाङ्गुलं पार्श्वे मध्यबाह्वन्तरं सप्ताङ्गुलं प्रसारित करतलमध्योर्वन्तरं द्विमात्रं तच्छ्रोणीबन्धान्तरं चतुरङ्गुलं पार्श्वमध्यं बाह्वन्तरं रसाङ्गुलं शेषं युक्त्यैव कारयेत्।

वामपार्श्वे सौमित्रिं देवस्य कर्णान्तं बाह्वन्तं वा कनिष्ठदशतालेन समभङ्गवशान्मुखमध्यर्धार्काङ्गुलम् एव(मि)मष्टाननं भागचतुष्टयमन्यत्सर्वं पूर्ववदुद्दिष्टमुद्बन्धकुन्तलं युवराजभूषणान्वितं द्विभुजं रामवत् शरचापधरं सुवर्णवर्णं श्यामाम्बरधरं समभङ्गान्वितं कारयेत्।

हनूमन्तं प्रमुखे किञ्चिद्दक्षिणमाश्रित्य स्थितं देवस्य स्तनान्तं नाभ्यन्तम् ऊरुमूलान्तं वा सप्ततालमितं द्विभुजं दक्षिणेन हस्तेन आस्यं वामेन स्ववस्त्रं च पिदधानं किञ्चिदूर्ध्वाननं कारयेत्। मूर्ध्नः कला भ्रूअतं तस्मादृक्कलामात्रत्रयं नासिकान्तं तथाधरं मात्रं कण्ठं दशाङ्गुलं हृदयं हृदयान्नाभ्यन्तं नाभेर्मेढ्रान्तं च तस्मादूर्वन्तं विंशतिमात्रं जानुं द्व्यङ्गुलं जङ्घासप्तदशाङ्गुलं कलातलं तदायामं दशाङ्गुलं बाहुं विंशत्यङ्गुलं तच्चतुर्थैरहीनं प्रकोष्ठतलं पादायामसमम् अष्टपञ्चाशत्तमः पटलः [[२८२]] शेषाङ्गं नरस्योक्ततारान्मात्रोनम् ऊरोर्बाह्वोः कटिमध्ये श्रोण्यां च कलोनं पादमात्राविहीनं शरार्धाङ्गुलहीनमङ्गुलिद्वियवहीनम् अत्रानुक्तं सर्वं युक्त्यैव कारयेत्॥

राघवस्य प्रतिष्ठा राघवस्य प्रतिष्ठा विशेषं वक्ष्ये। पूर्वोक्तयागशालामध्ये शय्यावेदिं परितः पञ्चाग्नींश्च परिकल्प्य; सीतालक्ष्मणसंयुक्तं देवं हनुमता सार्धम् एककुम्भे समावाह्य; एकवेद्यां सौमित्रेः पृथक्शयनं वेद्यधस्ताद्धनूमतःशयनं च सङ्कल्प्य; अन्वाहार्ये प्रधानाग्नौ हौत्रं प्रशंस्य; ’रामं दाशरथिं वीरं काकुत्स्थ’मिति राघवस्य, ’सीतामयोनिजां लक्ष्मीं वैदेही’मिति सीतायाः, ’रामानुजं सौमित्रं लक्ष्मीवर्धनं लक्ष्मण’मिति लक्ष्मणस्य, ’कपिराजं हनूमन्तं शब्दराशिं महामति’मिति हनूमतश्चावाहनादीनि कारयेत्। ’रायामीश’ (वै॰म॰प्र॰७) इति मन्त्रेणाऽष्टोत्तरशतं हुत्वा, अन्यत्सर्वं पूर्ववत्कारयेत्।

मत्स्याद्यवताराणां रूपभेद एव शक्तिभेदो नैव भवेत् तस्मात् प्रतिष्ठादीनि सर्वाणि विष्णोरिव समाचरेत्।

अवताराणां ध्रुवबेरं कौतुकं च प्रत्येकं कर्तुमशक्तश्चेत्, पूर्वोक्त एकबेरक्रमेण षण्मानसहितं शिलाजं लोहजं वा कृत्वा; अर्चास्थाने ब्राह्मपदे ध्रुवस्थाने दैविके वा प्रतिष्ठाप्य; षोडशोपचारैरर्चयेदित्येके।

लक्ष्मणस्य पृथक् प्रतिष्ठा चेत् राघवस्योक्तक्रमेण सीतायाः श्रीदेव्या इव भरतशत्रुघ्नयोश्च रामलक्ष्मणयोरिव सर्वं समाचरेत्। मूर्तिमन्त्र एव विशेषः। तथा हनूमतो वायोरिव प्रतिष्ठामाचरेत्।

नित्यार्चनायां राघवस्य तन्मूर्तिमन्त्रैरष्टोपचारैरभ्यर्च्य; कौतुकस्य पूर्वोक्तषोडशोपचारमन्त्रैस्तत्तन्मूर्तिमन्त्रान् संयोज्याऽर्चयेत्॥

[[२८३]] बलरामस्य लक्षणम् अथ बलरामं मध्यमं दशतालमितं द्विभुजं त्रिनतस्थितं दक्षिणहस्तेन मुसलधरं वामेन हलधरं श्वेताभं रक्तवस्त्रधरम् उद्बन्धकुन्तलं दक्षिणे रेवतीं देवीं पद्मकिञ्जल्कवर्णां पुष्पाम्बरधरां दक्षिणेन हस्तेन पद्मधरां प्रसारितवामहस्तां कारयेत्। तद्रूपं कौतुकं विष्णुं चतुर्भुजं वा कारयेत्॥

तत्प्रतिष्ठा

अस्य प्रतिष्ठाविशेषं वक्ष्ये। पूर्वोक्तयागशालामध्ये शय्यावेदिं परितः पञ्चाग्नींश्च परिकल्प्य; आहवनीये प्रधानाग्नौ हौत्रं प्रशंस्य, ’रामं यदुवरं विष्णुं हलायुध’मिति रामस्य, ’रेवतीमिन्दिरां लक्ष्मीं रामप्रिया’मिति रेवत्याश्च आवाहनादीनि कृत्वा; ’रायामीश’ इति मन्त्रेणाऽष्टोत्तरशतं हुत्वा; अन्यत्सर्वं पूर्ववत्कारयेत्। नित्यार्चनायां ध्रुवबेरं तन्मूर्तिमन्त्रैरष्टोपचारैरभ्यर्च्य; कौतुकं षौडशोपचारमन्त्रैस्तन्मूर्तिमन्त्रान् संयोज्याऽर्चयेत्। स्नपनोत्सवादीनि पूर्वोक्तवत्कारयेत्।

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे रामत्रयविधिर्नाम अष्टपञ्चाशत्तमः पटलः ॥ ५८ ॥