०५७ त्रिविक्रमविधिः

अथ सप्तपञ्चाशत्तमः पटलः नरसिंहलक्षणं तद्द्वैविध्यम् अथ नारसिंहविधिं वक्ष्ये - नारसिंहो द्विविधो गिरिजो स्थूणजश्चेति।

तयोर्मुखं सिंहस्येव अन्यन्नराकारम्। तस्य मूर्धादिपादपर्यन्तं सविंशतिशताङ्गुलं, शिरोमात्रात्रयं ततो नेत्रसूत्राऽन्तं षण्मात्रं तस्माद्घोणं चतुर्मात्रं तस्मादास्यं द्विमात्रम् अधरं द्व्यङ्गुलं नेत्राद्भ्रूः मात्राऽऽयता शेषं ललाटान्तं तारं, नवाङ्गुलं दृगन्तरम्, अध्यर्धनवाङ्गुल (त्रि) द्विमात्रं नेत्रायामं तस्यार्धविस्तारं कनीनिकायामविस्तारं यवं पञ्चद्वयविस्तारायामं सितमण्डलम् मध्ये ज्योतिर्यवं दृष्टिरष्टांशं तारं पार्श्वयोरुपरिष्ठाच्छ्वेतं शेषं यवत्रयमूर्ध्ववर्म तथा यवतारम् अधोगतं यवद्वयं ततो भागायते तत्पुच्छानने भ्रुवौ द्वादशाङ्गुलतारं नेत्रात्सूत्रसमं मुखम् आस्यतारं दशाङ्गुलं विवरं चतुरङ्गुलविस्तारं शेषं वर्तुलम् उन्नताश्चत्वारः पुरतो दन्ता अर्धमात्रविस्तृतायता’ जिह्वा षडङ्गुलायामा द्व्यङ्गुलविस्तृता भागसृक्कात् कपोलान्तं घोणं चतुष्कलं कर्णमूलां तदधस्तात्कपोलं षडङ्गुलम् अपाङ्गात्कर्णमूलान्तं पञ्चाङ्गुलं कलाकर्णमूलं कर्णं त्रिमात्रार्धायामं चतुर्यवं सप्तपञ्चाशत्तमः पटलः [[२७६]] कलातारं सूकरकर्णवत् रौद्रवक्त्रं सटायुतं तीक्ष्णेक्षणम् अन्याङ्गायामविस्तारं वराहस्योक्तमार्गेण कारयेत्॥

गिरिजस्य लक्षणं नृसिंहं देवं सिंहासने पादं दक्षिणं प्रसार्य; वाममाकुञ्च्य; समासीनं चतुर्भुजं शङ्खचक्रधरं कुन्देन्दुधवलप्रभं रक्तवस्त्रधरं सर्वाभरणभूषितं करण्डिकामकुटयुतं, पूर्वं दक्षिणकरमभयं दानं वा, वामं कट्यवलम्बितमूरुस्थं वा, कारयेत्। तद्दक्षिणे देवीं श्रियं वामपादं समाकुञ्च्य, दक्षिणं प्रसार्य आसीनां पद्मधरवामहस्ताम्, आसने निहितदक्षिणहस्तां सुवर्णाभां सर्वाभरणभूषिताम्, वामपार्श्वे महीं देवीं दक्षिणं पादमाकुञ्च्य वामं प्रसार्याऽऽसीनामुत्पलधरदक्षिणहस्ताम् आसने निहितवामहस्तां सस्यश्यामाभां सर्वाभरणभूषितां कारयेत्। अथवा नृसिंहमासनस्योर्ध्वे वामं पादं प्रसार्य अन्यमाकुञ्च्य; तज्जानूर्ध्वे दक्षिणहस्तं गजहस्तवत् प्रसार्य; वाममूरौ सन्यस्य; आसीनं शङ्खचक्रधरं देवीभ्यां सहितं रहितं वा कारयेत्।

केवलं नृसिंहं देवं पद्मपीठोपरिष्ठात् द्वौ पादौ व्यत्ययेन न्यस्य; उत्कुटिकासनेन आसयित्वा ऊरुमध्ये वस्त्रेणाबध्य; सर्वाभरणसंयुक्तं चतुर्भुजं शङ्खचक्रधरम् अन्यहस्तौ जानूपरिष्ठात्प्रसारितौ च कारयेत्।

स्थूणजस्य लक्षणम् अथ स्थूणजं नारसिंहं सोपाने सिंहासने वामं पादमाकुञ्च्य; अन्यं प्रसार्य; समासीनं चतुर्भुजं शङ्खचक्रधरम् अभयदानदक्षिणकरम् ऊरुप्रसारितवामहस्तं ससटस्कन्धसंयुक्तं तीक्ष्णदंष्टे्रक्षणं भयानकं श्वेताभं रक्ताम्बरधरं सर्वाभरणसंयुक्तं कारयेत्॥

तस्य कोपशान्त्यर्थं पार्श्वयोर्दक्षिणवामयोः श्रीमह्यौ, प्रह्लादं वन्दमानं च कारयेत्। दक्षिणे नारदं वीणाहस्तं भित्तिपार्श्वे परितः प्रागाद्यैशानान्तमिन्द्रादिलोकपालान्वन्दमानाँश्च कारयेत्।

[[२७७]] यानकनरसिंहस्य लक्षणम् अथ यानकं नारसिंहं वीशस्कन्धोपरिष्ठात्, शेषोत्सङ्गे समासीनं तत्फणैः पञ्चभिः छन्नमौलिं चतुर्भुजं शङ्खचक्रधरं सर्वाभरणभूषतं कारयेत्।

अथवा अष्टाभिर्द्विरष्टाभिर्वा भुजैर्युक्तं भयानकं दैत्यवधानुरूपं नृसिंहं स्थौणं कारयेत्।

तत्प्रतिष्ठा

अथ नारसिंहप्रतिष्ठाविशेषं वक्ष्ये - पूर्ववद्यागशालां शय्यावेदिं पञ्चाग्नींश्च परिकल्प्य; आहवनीये प्रधानाग्नौ हौत्रशंसनं ’नारसिंहं तपोनाथं महाविष्णुं महाबल’मिति गिरिजस्य, देव्योः पूर्ववत्। ’नारसिंहं तपोनाथं भक्तवत्सलम् अनन्तबल’मिति स्थूणजस्य, देव्योः लोकपालानामन्येषां च पूर्ववदावाहनं ’सामवेदं शैषिकं द्विजराज’मिति वाहनस्य; ’प्रह्लादं दैत्यपतिं विष्णुभक्तं महाबल’ मिति प्रह्लादस्य आवाहनजुष्टाकारस्वाहाकारान् - कृत्वा; ’यो वा नृसिंह’ (वै॰म॰प्र॰७) इति मन्त्रेणाऽष्टोत्तरशतमावर्त्य हुत्वा; शेषं सर्वं प्रतिष्ठोक्तविधिना कारयेत्। ध्रुवबेरं तन्मूर्तिमन्त्रैरष्टोपचारैरभ्यर्च्य; कौतुकबेरं पूर्वोक्तषोडशोपचारमन्त्रैः तन्नाम संयोज्य; अर्चयेत्। स्नपनोत्सवादीनि विष्णोरिव समाचरेत्।

वामनलक्षणम्

अथ वामनं पञ्चतालमितं द्विभुजं छत्रदण्डधरं कौपीनवाससं शिखापुस्तकमेखलोपवीतकृष्णाजिनसमायुतं पवित्रपाणिं बालरूपं ब्रह्मवर्चस्विनं कारयेत्।

मूर्ध्नः केशान्तमात्रार्धं केशान्तात् दृगन्तं यवद्वयाधिक त्रिमात्रं तस्मात्पुटान्तं सयवत्र्यङ्गुलं तत्समं हन्वन्तं गलं द्वियवाधिकद्विमात्रं तस्माद् हृदयं द्वियवाधिकषण्मात्रं हृदयान्नाभ्यन्तं तत्समं नाभेर्मेढ्रमूलान्तं तत्समं तस्मादूरुस्सूर्यमात्रो सप्तपञ्चाशत्तमः पटलः [[२७८]] जानुद्व्यङ्गुलं द्वादशाङ्गुलाजङ्घातलं वलिं द्विमात्रां(त्रं) तलायामं द्वादशाङ्गुलं मुखस्यतारं दशाङ्गुलं यवोनकलाङ्गुलं नेत्रं नेत्राद् भ्रूस्तावत् केशान्तं शिरोभागं द्वियवद्विविस्तारं पुरोगतं दृशोस्तारं कारयेत्। षड्भिः षोडशभिः यवोनं कोलकं नेत्रान्तरं श्रोत्रं दृशौ च द्वियवतारं पञ्चमात्रं श्रोत्रविस्तृतं कला तत्त्रिगुणायामं नासाग्रं मात्रार्धं विस्तृतानासाग्रविपुलं मात्राद्वयमर्धं तदर्धं मध्यमूलं त्रियवाङ्गुलमुन्नतनासाग्रं गोजीमूलाद्वियवोनद्व्यङ्गुलतारमधरं तदर्धतद्द्विगुणदीर्घं दीर्घाद् द्विगुणमास्यमुत्तरोष्ठविशालं यवद्वयं पालीपञ्चषड्यवमधरोष्ठमधोहनुष्षड्यवाकला कण्ठाद्धनुपर्यन्तं निर्गममष्टाङ्गुलविशालं हिक्का तस्मात् द्विसप्ताङ्गुलं दीर्घं दोर्दशाङ्गुलं प्रकोष्ठं मणिबन्धात्तलं भागं तस्मान्मध्याङ्गुली समाधस्वतृतीयवाधिकं नखायामम् अङ्गुलमुन्नतं दीर्घ प्रदेशन्यनामिके कलायते अङ्गुष्ठकनिष्ठायामविस्तृते नवाष्ट सप्तषट्पञ्चयवं तारक्रमादङ्गुष्ठादि कनिष्ठान्ताङ्गुलीनां कलाद्वयं तस्य विपुलं तस्य बहुलं हव्यवाहनाङ्गुलमग्रतारं त्रिभागात् द्विभागं नखविस्तृतं स्वितातृकं नखायामं त्रिमात्रार्धचतुर्मात्रं षडङ्गुलं षड्यवं भागं क्रमान्मणिबन्धं प्रकोष्ठं कोर्परं बाहुमूलम् अष्टादशाङ्गुलं वक्षस्थलस्य विपुलं मुखं मध्यं कलामुखं श्रोणीतारं षोडशाङ्गुलं मुखमङ्गुलोनमूरुमूलं जानुविशालं सप्ताङ्गुलं जङ्घातारं पञ्चार्धाङ्गुलं नलकाविशाल सार्धरुद्राक्षाङ्गुलमग्रविस्तारं पञ्चाङ्गुलं चतुर्यवं कलायताङ्गुलं तर्जनीसमायतादीर्घार्धविस्तृताङ्गुष्ठमङ्गुलीनां विपुलं शेषं युत्तै्यव कारयेत्।

त्रिविक्रमस्य लक्षणं त्रिविक्रमस्त्रिधा प्रोक्तः लोकेषु त्रिपादन्यासात् भूलोकाक्रमणार्थं जानुमात्रम्; अन्तरिक्षलोकाक्रमणार्थं नाभिमात्रं; स्वर्गलोकक्रमणार्थं ललाटमात्रं च; ऊर्ध्वपादो भवेत्। एतेषु यथेष्टं रूपं निश्चित्य; पूर्ववच्चतुर्विंशतितालविभागेन देवमष्टबाहुं चतुर्बाहुं, अष्टभुजे दक्षिणहस्तैः चक्रशराऽसिधरं, वामहस्तैः शङ्खशार्ङ्ग हलमुसलधरं; चतुर्भुजे दक्षिणेन चक्रधरं, वामेन शङ्खधरं, [[२७९]] अभयदानदक्षिणहस्तं, प्रसारितपादेन प्रसारितवामहस्तं, स्थितदक्षिणपादं प्रसारितोद्धृतवामपादं श्यामाभं रक्ताम्बरधरं सर्वाभरणभूषितं तत्पृष्ठे कल्पद्रुमम्, इन्द्रं, छत्रम् उभयोः पार्श्वेयोः जवनजलेशौ चामरधारिणौ तदूर्ध्वे दक्षिणे दिवाकरम् अदक्षिणे निशाकरं तथा सनकसनत्कुमारौ च कृत्वा; प्रसारितपादस्योर्ध्वभागे ब्रह्माणं तत्पादं प्रगृह्य हस्ताभ्यां प्रक्षालयन्तं, कृत्वा; तत्स्रोतसि गङ्गा श्वेताभां नाभेरूर्ध्वं शरीरभागां प्राञ्जलीकृतहस्तां च कारयेत्।

पादपार्श्वे नमुचिं भ्रममाणं वामपार्श्वे शुक्रं विघ्नकरं तं मुष्टिना प्रहरन्तं गरुडं, दक्षिणे वामनं, तत्पार्श्वे बलिं हेमाभं सर्वाभरणभूषितं सपत्नीकं हर्षेण कराभ्यां होमकलशमुद्धरन्तं तस्योर्ध्वे जाम्बवन्तं भेरीताडनपरं च कारयेत्। (अत्रानुक्तं) भृगूक्तविधिना त्रैविक्रमस्य कौतुकं चतुर्भुजमेव कारयेत्।

तयोः प्रतिष्ठा वामनत्रिविक्रमयोः प्रतिष्ठाविशेषं वक्ष्ये - पूर्वोक्तयागशालामध्ये शय्यावेदिं परितश्चाग्नीन् पौण्डरीकाग्निं च कारयेत्। एकाग्निविधिना कारयेदिति केचित्। एककुम्भे समावाह्य; एकवेद्यां शाययेत्। अन्वाहार्ये प्रधानाग्नौ हौत्रशंसनं ’त्रिविक्रमं त्रिलोकेशं’ विष्णुं सर्वाधारमिति त्रिविक्रमस्य। ’वामनं वरदं विष्णुं काश्यपम् अदितिप्रिय’मिति वामनस्य। अन्यदेवानां तत्तन्मूर्तिमन्त्रैरावाहनादीनि कारयेत्। ’यो वा त्रिमूर्ति’ (वै॰म॰प्र॰८) रिति मन्त्रेणाऽष्टोत्तरशतं हुत्वा; अन्यत्सर्वं हरेरिव कारयेत्। नित्यार्चनायां वामनं त्रिविक्रमं च तत्तन्मूर्तिमन्त्रैरष्टोपचारैरभ्यर्च्य; कौतुकं पूर्ववत् षोडशोपचारमन्त्रैः मूर्तिमन्त्रं संयोज्य, अर्चयेत्। स्नपनोत्सवादीनि पूर्ववत्कारयेत्।

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे नारसिंह वामन त्रिविक्रमविधिर्नाम सप्तपञ्चाशत्तमः पटलः ॥ ५७ ॥

सप्तपञ्चाशत्तमः पटलः [[२८०]]