अथ षट्पञ्चाशत्तमः पटलः
वराहत्रैविध्यम्
अथ वराहस्त्रिविधो भवति आदिवाराहः प्रलयवराहो यज्ञवराह इति।
एतेषां मुखं वराहस्येव मूर्धादिपादपर्यन्तं मध्यमदशतालेन नयेत्। मूर्ध्नः केशान्तं चतुर्मात्रं, तस्मादृगन्तं भागं श्रोणान्तं रुद्रमात्रं कलायुतं कण्ठं कण्ठाद्धृदयान्तं हृदयात् नाभ्यन्तं नाभेर्मेढ्रमूलान्तं त्रयोदशाङ्गुलम् ऊरुत्रयोदशद्वयं जानुवेदाङ्गुलं जङ्घोरुसमा तलं भागं तदायामं सप्तदशाङ्गुलं नेत्रं त्र्यङ्गुलं भ्रूनेत्रतत्सृक्कं भूताङ्गुलं सृत्क्काद्वेदाङ्गुलं हनु नेत्रान्तरं त्रिमात्रं नेत्रायामद्व्यङ्गुलं नेत्राच्छ्रोत्रं सप्ताङ्गुलं कर्णतारं द्वियवं त्र्यङ्गुलं द्विगुणं तदायामम् एकाङ्गुलविस्तारं मुखम् एकाङ्गुलं नेत्रव्यासं नासामूलविस्तारं सप्ताङ्गुलं तन्मध्ये शराङ्गुलं नासाग्रं तालं भागार्धमात्रं श्रोत्रं तथैकाङ्गुलं पुरव्यासम् अधरं त्रिकलाङ्गुलं निर्गमं मूलतारं भागं तदर्धं तस्याग्रविस्तारं, दंष्ट्रायामं द्विमात्रं कण्ठतारं नवाङ्गुलं तथैव बाहुमूलविस्तारं?) मध्यम दशातालोक्तमार्गेण कारयेत्॥
आदिवराहः
आदिवराहं चतुर्भुजं शङ्खचक्रधरं सस्यश्यामनिभं नागेन्द्रफणामणिस्थापितदक्षिणपदं रसातलादुत्क्रमणाय कुञ्चितवामपादं तदूरौ महीं दधानं दक्षिणहस्तेन देव्याः पादौ गृह्णन्तं वामहस्तेन तामुपगूहन्तं मुखेन देवीं जिघ्रन्तं कृत्वा; तां महीं प्राञ्जलीकृतहस्तां प्रसारितपादां पुष्पाम्बरधरां श्यामाभां किञ्चिद्देवं समीक्ष्य व्रीलाहर्षसंयुक्तां सर्वाभरणसंयुतां देवस्य स्तनान्तां नाभ्यन्तां वा पञ्चतालेन मानेन कारयेत्॥
प्रलयवराहः
अथ वक्ष्ये प्रलयवराहं वामपादं समाकुञ्च्य; दक्षिणं प्रसार्य; सिंहासने समासीनं नीलाभं चतुर्भुजं शङ्खचक्रधरमभयदक्षिणहस्तम् ऊरुप्रतिष्ठितषट्पञ्चाशत्तमः पटलः [[२७४]] वामहस्तं पीताम्बरधरं सर्वाभरणभूषितं कारयित्वा; तस्य दक्षिणे देवीं महीं पादं वाममाकुञ्च्य, दक्षिणं प्रसार्य आसीनां श्यामाभां सर्वाभरणभूषिताम् उत्पलधरवामकराम् आसने निहितदक्षिणकरां किञ्चिद्देवं समीक्ष्य विस्मयोत्फुल्ललोचनां कारयेत्॥
यज्ञवराहः
अत यज्ञवराहं श्वेताभं चतुर्भुजं शङ्खचक्रधरं वामपादं समाकुञ्च्य दक्षिणं प्रसार्य सिंहासने समासीनं पीताम्बरधरं सर्वाभरणभूषितं कारयेत्।
तस्य दक्षिणे देवीं श्रियं हेमाभां वामपादं समाकुञ्च्य दक्षिणं प्रसार्य आसीनां पद्मधरवामहस्ताम् आसने निहितदक्षिणहस्तां; वामपार्श्वे महीं देवीं सस्यश्यामनिभां दक्षिणपादमाकुञ्च्य वामं प्रसार्याऽऽसीनाम् उत्पलधरदक्षिणहस्ताम् आसने निहितवामहस्तां देवं किञ्चित्समीक्ष्य विस्मयोत्फुल्ललोचनां कारयेत्॥
त्रयाणां वराहाणां तद्रूपं कौतुकं च बिम्बं चतुर्भुजं वा कारयेत्॥
तेषां प्रतिष्ठा एषां प्रतिष्ठाविशेषं वक्ष्ये - पूर्ववद्यागशालां सर्वालङ्कारसंयुक्तां तन्मध्ये शय्यावेदिं चतुर्दिशं तद्भित्तिसमविस्तारां पादहीनविस्ताराम् अर्धविस्तारां वा तत्तुरीयांशोत्सेधां तत्परितः पञ्चाग्नी्ँश्च परिकल्प्य; सभ्ये प्रधानाग्नौ हौत्रशंसनं कृत्वा ’वाराहं वरदं महीधरं वज्रदंष्ट्रिण’मित्यादि वराहस्य; ’गां पृथुगामुर्वी’ मिति मह्याः; ’प्रलयवराहं प्रलयहरं भूरिशब्द जगत्रायक’मिति प्रलयवराहस्य; देव्याः पूर्ववत्। ’यज्ञवराहं देवमयं यज्ञेशं यज्ञवर्धन’मिति यज्ञवराहस्य; श्रीभूम्योः; पूर्ववत्।
एवमावाहनजुष्टाकारस्वाहाकाराँश्च कृत्वा; आदिवराहस्य प्रधानाग्नौ ’क्ष्मामेक’ (वै॰ म॰ प्र॰ ८) मिति मन्त्रेणाऽष्टोत्तरशतं हुत्वा; प्रलयवराहस्य [[२७५]] ’स्वयमादि’ (वै॰म॰प्र॰८) रित्यष्टोत्तरशतं हुत्वा; यज्ञवराहस्य ’यं यज्ञै’ (वै॰म॰प्र८) रिति मन्त्रेणाऽष्टोत्तरशतं जुहुयात्। एष विशेषः अन्यत्सर्वं समानम्।
त्रयाणां ध्रुवबेराणि तत्तन्मूर्तिमन्त्रैरष्टोपचारैरभ्यर्च्य; पश्चात्कौतुकानि तत्तन्नाम संयोज्य; षोडशोपचारैरभ्यर्चयेत्। स्नपनोत्सवादीनि सर्वाणि पूर्वोक्तवत्कारयेत्।
इति श्री वैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे वराहविधिप्रतिष्ठा नाम षट्पञ्चाशत्तमः पटलः ॥ ५६ ॥