अथ पञ्चपञ्चाशत्तमः पटलः
मत्स्याद्यवतारविधिः
अथ मत्स्याद्यवतारविधिं वक्ष्ये-ग्रामादौ यथोक्ते देशे पूर्वोक्तेषु विमानेषु मत्स्यकूर्मवराहनारसिंहवामनजामदग्न्यराघवबलभद्रकृष्णकल्किन इति।
एतेषां दशावताराणां प्रत्येकं पूर्वोक्तोद्देशमानेन ध्रुवबेरं निश्चित्य पश्चान्निर्देशमानं कुर्यात्।
मत्स्यस्य लक्षणम् पूर्वं मत्स्यस्य देहलब्धाऽङ्गुलेन भागाधिकं द्वितालं, नासाग्रात्पुच्छपर्यन्तं, नासाग्रान्नेत्रद्वयान्तं चतुरङ्गुलं, नेत्रात्कर्णं द्विमात्रं, तस्मात्पुच्छमूलं त्रिषडङ्गुलं, तस्मात्पुच्छाग्रं चतुरङ्गुलं, कुक्षिपुच्छविस्तारकर्म ग्रहवेदाऽङ्गुलं, तत्तत् त्रिगुणपरिणाहं पुच्छमध्यविष्कम्भम्, एकाऽङ्गुलमग्रविस्तारं, षडङ्गुलं, मात्राद्यर्धमात्रं, पक्षायामविस्तारं, तस्यायामं सप्तांशं कृत्वा, द्व्यंशं त्र्यंशं वा पीठोत्तुङ्गं सप्ताङ्गुलविस्तारं समवृत्तं पद्माकारम्। अत्रानुक्तं शिल्पशास्त्रोक्तवत्। एवं ध्रुवबेरं कारयेत्।
कौतुकं विष्णुं चतुर्भुजमेव कारयेत्। तद्रूपं न कारयेत्।
मत्स्यप्रतिष्ठा
अथ (अस्य) प्रतिष्ठाविशेषं वक्ष्ये - तदालयाभिमुखे पूर्ववद्यागशालां कृत्वा; तोरणाद्यैरलङ्कृत्य; पञ्चाग्नीन् पौण्डरीकाग्निं च कारयित्वा; तस्य पञ्चपञ्चाशत्तमः पटलः [[२७२]] प्रधानं पौण्डरीकाग्निस्तस्मिन् हौत्रशंसनं कृत्वा; ’मत्स्यं विष्णुं भद्रं क्रीडात्मक’ मिति चतुर्भिर्मन्त्रैरावाह्य; निरूप्य; आज्याहुतीर्हुत्वा; ’यत् स्वयं सृष्ट’(वै॰म॰ प्र॰)मिति मन्त्रेणाऽष्टोत्तरशतं हुत्वा; अन्यत्सर्वं प्रतिष्ठोक्त विधिना कारयेत्।
नित्यार्चनायां ध्रुवबेरं मूर्तिमन्त्रैरष्टोपचारैरभ्यर्च्य, कौतुकं पूर्वोक्तषोडशोपचारमन्त्रैः मूर्तिमन्त्रान् संयोज्य अर्चयेत्। स्नपनोत्सवादीनि सर्वाणि पूर्वोक्तविधिना कारयेत्।
कूर्मस्य लक्षणं प्रतिष्ठा च अथ कूर्मस्य लक्षणं वक्ष्ये। देहलब्धाङ्गुलेन एकाङ्गुलं शिरोमानं, द्विमात्रं कण्ठं(कर्णं) एकाऽङ्गुलं, त्र्यङ्गुलं हृदयान्तं, तत्समं नाभ्यन्तं, त्रिमात्रं पृष्ठान्तं, प्रकोष्ठं पाणितलं प्रत्येकमेकाऽङ्गुलं, तथैवोरुजङ्घापादतलं, तस्याऽयामसमं वैपुल्यं, पञ्चवर्णसमायुक्तं, अन्तश्वेतनिभं; तस्याऽऽयामं षड्भागं कृत्वा; द्विभागं त्रिभागं वा पीठोत्तुङ्गं वस्वङ्गुलविस्तारं पद्माकारं, शेषं युक्त्यैव कारयेत्॥
तस्य प्रतिष्ठाविशेषं वक्ष्ये - पूर्वोक्तयागशालामध्ये शय्यावेदिं परितः पञ्चाग्नीन् परिकल्प्य; गार्हपत्ये प्रधानाग्नौ हौत्रशंसनं कृत्वा; ’अकूपारं कूर्मरूपं विष्णुं वसुधाधर’मिति चतुर्भिः मन्त्रैरावाह्य; तथैव जुष्टाकारस्वाहाकारौ कृत्वा; ’रायामीश’ (वै॰म॰प्र॰७) इति मन्त्रेणाऽष्टाधिकशतमावर्त्य जुहुयात्।
अन्यत्सर्वं विष्णोरिव समाचरेत्। कूर्मस्य कौतुकं विष्णुं चतुर्भुजमेव कुर्यात्।
तद्रूपं नैव कारयेत्।
नित्यार्चनायां तन्मूर्तिमन्त्रैर्ध्रुवबेरमष्टोपचारैरभ्यर्च्य; कौतुकबिम्बं यथोक्तषोडशोपचारमन्त्रैः तन्मूर्तिमन्त्रान् संयोज्यार्चयेदन्यत्सर्वं समानमिति विज्ञायते॥
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे मत्स्यकूर्मविधिर्नाम पञ्चपञ्चाशत्तमः पटलः ॥ ५५ ॥
[[२७३]]