अथ चतुःपञ्चाशत्तमः पटलः अशक्तौ उत्सवविधिः एवं कर्तुमशक्तश्चेत् पूर्ववत् द्विगुणार्चनं हविर्निवेदनं कुम्भदेवाराधनं होमं बलिदानं च द्विकालं कृत्वा; देवेशं सायाह्ने पूर्ववदलङ्कृत्य; उत्सवं कारयेदिति॥
अतिवातादिदोषे
अतिवाताऽतिवृष्टि शत्रुचोरादिभीत्या सङ्कुले सति आलये प्रथमावरणे द्वितीये वा बलिनिर्वापणमुत्सवं कारयेत्॥
[[२६५]] अवताराणामुत्सवे विशेषः अवताराणामुत्सवं यदि कुर्यात् पूर्वेद्युः रात्रिपूजावसाने अभ्यर्च्य हविर्निवेद्य; प्रतिसरं बध्वा; शयनाधिवासं कृत्वा; प्रभाते देवमुत्थाप्य; पाद्याचमनं दत्वा; आस्थानमण्टपे सिंहासने विष्टरे वा संस्थाप्य; अभ्यर्च्य; राजवदुपचारं कृत्वा; संस्नाप्य; अभ्यर्च्य; गोभ्यस्तृणमुष्टिं प्रदाय; महाहवि; प्रभूतं वा, निवेद्य; पानीयाचमनमुखवासं दत्वा; सायमेवोत्सवं कारयेत्।
हिरण्यपशुघृत तण्डुलताम्बूलादीन्याचार्याय तच्छिष्येभ्यस्सोदकं दद्यात्।
तीर्थदिनात्पूर्वदिने प्रातस्सन्ध्यार्चनान्ते पूर्ववद्धोमाद्यं सर्वं कृत्वा; देवं चित्रर(क)क्ष्यादिना सायुधमलङ्कृत्य; गजाऽश्वाद्यारूढजनैस्सार्धं मृगयोत्सवं कारयेत्। अथवा अवभृथदिनात् द्वितीये चतुर्थे वा शान्तमलङ्कृत्य; मृगयोत्सवं कारयेत्॥ तद्रात्रौ पूर्ववत्सर्वं कृत्वा; देवं ग्रामं प्रदक्षिणं कारयित्वा; अभ्यन्तरं प्रविश्य, संस्नाप्य; अभ्यर्च्य; हविर्निवेद्य; अभ्यन्तरे अन्तर्मण्डले शयनस्थाने वा पूर्ववत्प्रतिसरं बध्वा; तथैव शाययित्वा; प्रभाते देवेशमुत्थाप्य; पाद्याद्यैरभ्यर्च्य; तीर्थस्नानकालात्पूर्वं हविर्निवेदयेत्। अन्यत्सर्वं पूर्ववत्कारयेत्॥
उत्सवाधिदेवत्यकथनम्
उत्सवाधिदेवत्यं तिथिवारनक्षत्रदेवत्यं च क्रमेण वक्ष्ये। प्रथमे ब्राह्मं, द्वितीये चाऽऽर्षं, तृतीये रौद्रं, चतुर्थे वासवं, पञ्चमे सौम्यं, षष्ठे वैष्णवं, सप्तमे सर्वदेवत्यम् अष्टमे याम्यं नवमदिने वारुणं च जुहुयात्।
प्रथमतिथावाग्नेयं, द्वितीयायां प्राजापत्यं, तृतीयायां कौबेरं, चतुर्थ्यां वैघ्नं, पञ्चम्यां श्रीदेवत्यं, षष्ठ्यां कौमारं, सप्तम्यामादित्यं, अष्टम्यां रौद्रं, नवम्यां दौर्गं, दशम्यां याम्यम्, एकादश्यामैन्द्रं, द्वादश्यां वैष्णवं, त्रयोदश्यां मातृदेवत्यं, चतुर्दश्याम् ऐशं, पञ्चदश्यां सौम्यं च जुहुयात्; सूर्यवारादिषु तत्तद्देवत्यं जुहुयात्।
चतुःपञ्चाशत्तमः पटलः [[२६६]] ’अग्नये कृत्तिकाभ्यः स्वाहे’त्यादि तत्तन्नक्षत्रे जुहुयात्। वैष्णवं विष्णुसूक्तं पुरुषसूक्तं तदालयगतपरिषद्देवानां मूर्तिमन्त्रांश्च आज्यमिश्रचरुणा वैष्णवान्तं सायं प्रातर्जुहोति।
तीर्थदिने प्रातरुत्सवे कृते तत्राऽऽस्थानमण्टपे विष्टरे देवं संस्थाप्य, अष्टोपचारैरभ्यर्च्य, अभिमुखे गरुडं दक्षिणे चक्रम् उत्तरे विष्वक्सेनं च धान्यपीठे संस्थाप्य, अभ्यर्च्य, देवाभिमुखे गोमयेनोपलिप्य; धान्यान्यास्तीर्य; (ऊर्ध्वे) उलूखलमुसलौ सन्यस्य; वस्त्रेणाऽऽवेष्ट्य; तयोः ब्रह्मेशावभ्यर्च्य; हरिद्रायां लक्ष्मीमभ्यर्च्य; पुष्पादीन् संशोध्य; हरिद्रामुलूखले प्रक्षिप्य; ’अतोदेवादीन् जप्त्वा; आचार्यः किञ्चिदवघातं कृत्वा; ततो देवदासीभिर्भक्तैर्वा अवघातं कारयित्वा; चूर्णीकृत्य; कलशान् चतुरो, द्वावेकं वा, पूरयित्वा; देवाभिमुखे धान्योपरि दर्भानास्तीर्य; कलशान् सन्यस्य; वस्त्रेणाऽऽछाद्य; अधिदेवतां सिनीवालीमभ्यर्च्य; देवमाराध्य; सुगन्धितैले अधिदैवतं विष्णुमभ्यर्च्य; वैष्णवं मन्त्रमुच्चार्य; ततोऽभ्यञ्जनं कृत्वा; ’वेदाह’मिति चूर्णेनाऽभिषिच्य; तच्छिष्टेन चक्रादींश्च अभिषिच्य; तच्चूर्णं चक्रं च समादाय; ग्रामं प्रदक्षिणीकृत्य; चक्रसन्निधौ भक्तानां ब्राह्मणानां शिरस्सु तच्चूर्णं विकिरेत्।
तच्चूर्णं किञ्चिदपि शिरसा धारयेत्तस्याशुभानि विनश्यन्ति। बल्युत्सवाद्यनुगता ये सर्वे ते विप्रसमाः तस्मादस्पृश्यस्पर्शनं न दोषाय भवेत्॥
मध्याह्ने अवभृथं प्रधानं, (अपराह्ने वा) पूर्वाह्ने देवेशं यानमारोप्य; चक्रवीशशान्तान् पुरस्कृत्य; तीर्थस्नानाय गच्छेत्। आलयाभिमुखे विहितम् ऐशान्याम् उत्तरे वा तदभावे यथेष्टतटाके नद्यां नदीसङ्गमे समुद्रे वा तस्माद्धनुस्सहस्राभ्यामूर्ध्वं न गच्छेत्। तत्तीरे प्रपां कृत्वा; अलङ्कृत्य; यस्यां दिशि जलं तदभिमुखं देवं प्रतिष्ठाप्य; अभ्यर्च्य; तथैव चक्रादीन् संस्थाप्य; दशकलशानाहृत्य; तन्तुना वेष्ट्य संशोध्य; सिद्धार्थोदकाक्षतोदक कुशोदक जप्योदकरत्नोदकैः प्रधानान् पूरयित्वा; उपस्नानान् शुद्धोदकैः पूरयित्वा; [[२६७]] देवाभिमुखे धान्यवेद्यां मध्ये सिद्धार्थोदकं, पूर्वे अक्षतोदकं, दक्षिणस्यां कुशोदकं, प्रतीच्यां जप्योदकम्, उदीच्यां रत्नोदकं च, सन्यस्य; तत्तद्वामपार्श्वे तत्तदुपस्नानकलशान् सन्यस्य; वस्त्रेणाछाद्य; अधिदेवान् आदित्याऽप्सरः काश्यपबृहस्पतिमुनितक्षकसर्वमन्त्रविद्याधरविष्णुगन्धर्वान् दशैतान् कलशेषु क्रमेण अभ्यर्च्य; पुण्याहं कृत्वा; देवं पाद्याद्यर्घ्यान्तमभ्यर्च्य; मध्यमादिपञ्चकलशोदकैः ’शन्नोदेवीः, पूतस्तस्य, इमा ओषधय, अभित्वा शूर, चत्वारि वा’गिति ’वारीश्चतत्र’ इति सर्वोपस्नानैश्चाऽभ्युक्ष्य; तच्छिष्टोदकैः चक्रं संस्नाप्य; तच्चक्रं विष्वक्सेनं गरुडं च तीर्थजले निमज्जयेत्। केवलं चक्रं वा निमज्जयेत्। पश्चात्सर्वे जनास्तत्तीर्थे जले देवसन्निधौ स्नानं कुर्युः। ते सर्वे पापविमुक्ताः विष्णुलोकं गच्छन्ति।
देवं शुद्धोदकैस्संस्नाप्य; प्लोतेन विमृज्य; नववस्त्रोत्तरीयाभरणैरलङ्कृत्य; अष्टोपचारैरभ्यर्च्य; वस्त्राद्यैश्चक्रादीनलङ्कृत्य; अभ्यर्च्य; यानमारोप्य; वीथ्यां लाजाक्षतकुसुमान्यवकीर्य; चक्रवीशशान्तादीन् पुरस्कृत्य; आचार्यः शकुनसूक्तं पठन् तोयधारापुरस्सरम् अग्रतो गच्छेत्। सर्वालङ्कारसंयुक्तं सर्ववाद्यसमायुक्तं स्तोत्रध्वनिसमायुक्तम् आलयं प्रविशेत्। द्वारदेशे देवेशं दीपाङ्कुरोदकुम्भैः अर्चकाः प्रत्युत्थानं कुर्युः।
पश्चादास्थानमण्टपे देवं संस्थाप्य; चतुर्दिक्षु चतुर्वेदाध्यायनं कारयित्वा; स्तोत्रैर्जयशब्दैश्च संस्तूय; अभ्यन्तरे स्वे स्वे स्थाने संस्थाप्य; देव्योः चक्रादींश्च सप्तविंशतिभेदैरभ्यर्च्य; विष्णुसूक्तेन पञ्चप्रणामान् कृत्वा; अष्टाक्षरेण पुष्पाञ्जलिं दत्वा; यज्ञालयं गत्वा; अग्निं प्रज्वाल्य; परिस्तीर्य; पूर्णाहुतिं हुत्वा; अग्निं विसृज्य; कुम्भवेदिम् आसाद्य; कुम्भस्थान् देवान् मध्यादिक्रमेण प्रणवेन ध्रुवबेरे समारोपयेत्॥
बालालयं चेत् कौतुके समारोपयेत्।
चतुःपञ्चाशत्तमः पटलः [[२६८]] तद्रात्रौ ध्वजावरोहणं कुर्यात्। कलशबलिद्रव्यैर्युक्तमन्नं कटाहे प्रक्षिपेत्।
चक्रादीन्विना पूर्ववदालयगतेभ्यो ग्रामे ब्रह्मादिभ्यश्च वाद्यघोषसमायुक्तं बलिं दत्वा; सन्धिस्थान् देवान्विसृज्य; वाद्यघोषं विना तद्ग्रामस्थ देवालयेषु शून्यागारे चैत्यवृक्षमूले मातृदुर्गास्कन्दविघ्नेशशास्त्रादीनां गृहेषु स्मशानसमीपे वापीकूपतटाकाऽऽरामस्थानेषु ग्रामचतुस्सीमासु भूतक्रूरदेवस्थानेषु च एवं बलिं विक्षिप्य अग्निसन्निधौ स्नात्वा; आलयं प्रविश्य; देवं प्रणम्य; ध्वजमन्त्रेण ध्वजावरोहणं कृत्वा; तद्रात्रावुत्सवान्तस्नपनं च कारयेत्॥
तद्दिनात् तृतीयायां पञ्चम्यां वा रात्र्यामेवं बलिं दत्वा ध्वजाऽवरोहणं स्नपनं च कारयेदित्येके।
पुष्पयागविधिः
अथ पुष्पयागविधिं वक्ष्ये - प्रतिष्ठान्ते चोत्सवान्ते विषुवे अयने सूर्यचन्द्रोपरागे युगान्ते सङ्क्रान्त्यां श्रवणे राज्ञो ग्रामस्य यजमानस्य च जन्मर्क्षे दुस्वप्नराष्ट्रविभ्रमदुर्भिक्षानावृष्टिपरचक्रभयमहाव्याधिपीडनादिसर्वोपद्रवेषु च विधिना देवस्य स्नपनं कृत्वा; तदनन्तरे द्वितीयेऽहनि पुष्पयागं कुर्यात्।
प्रतिष्ठोत्सवौ विना अन्येषु विधिनाङ्कुरार्पणं कृत्वा; कर्म समारभेत।
ततो देवेशमास्थानमण्टपे सर्वालङ्कारसंयुक्ते धान्यराशौ संस्थाप्य; अभिमुखे धान्यपीठे पुष्पाधिदेवमाराध्य; पुष्पाणि सन्यस्य; नववस्त्रोत्तरीयाद्यैर्देवमलङ्कृत्य; त्रयोदशोपचारैरभ्यर्च्य; देवस्य दक्षिणे औपासनाग्निकुण्डं कृत्वा; आघारं हुत्वा; हौत्रं प्रशंस्य, देवेशादितदालयगत देवानाम् आवाहनं, जुष्टाकारस्वाहाकारं कृत्वा; तथैव पुष्पेशस्य कृत्वा; देवस्य वैष्णवं विष्णुसूक्तं पुरुषसूक्तं प्राजात्पत्यं व्याहृतीश्च हुत्वा; पद्मेन बिल्वपत्रेण वा विष्णुगायत्रीमष्टोत्तरशतं हुत्वा; श्रीदेवत्यं श्रीसूक्तं श्रीदेव्याः, पञ्चभूमिदेवत्यं महीसूक्तं च महीदेव्याः [[२६९]] तदालयगतदेवानामपि मन्त्रान् मूर्तिमन्त्रान्वा हुत्वा; पुष्पाधिदेवत्यं वैष्णवान्तं द्वादशकृत्वो जुहुयात्।
ऋत्विजस्सर्वे ’दधिक्राव्ण’ इति दधिप्राशनं कृत्वा नववस्त्रोत्तरीयकुण्डलादिभिरलङ्कृताः वाग्यता भवेयुः। शङ्खडिण्डिमकौहलझल्लरीमर्दलवीणावेणुमृदङ्गाद्यैः दक्षिणे पुराणवचनैः पश्चिमे स्तोत्रध्वनिभिः उत्तरे सूत्रशिक्षादिभिश्च घोषयेत्। प्रागादिचतुर्दिक्षु चतुर्वेदानध्यापयेत्।
प्रागादिचतुर्दिक्षु दक्षिणवामयोर्वा आचार्य ऋत्विजश्च परात्परतरं गुह्याद्गुह्यतरं सर्ववेदार्थसारम् (रभूतं) अष्टाक्षरद्वादशाक्षरं विष्णुगायत्रीं वा जपन्तः पुष्पाऽञ्जलिं पादतो दद्युः। अष्टोत्तरशतावसाने पाद्याद्यर्घ्यान्तमर्चयेत्।
स्तनदघ्नेषु पुष्पेषु पुष्पाण्यधो नयेत्। पुराणम्लानवस्त्रनिक्षिप्तानि दुर्गन्धदुर्मनुष्याधिष्ठितदेशजातानि पुष्पाणि वर्जयेत्। द्व्यहातीतानि पद्मानि पुराणानि त्यक्त्वा अन्यानि पुष्पाण्याहरेत्।
स्तनदघ्नं विंशतिकृत्वो दद्यात् उत्तमं द्वादशकृत्वो मध्यमम्। अष्टकृत्वो अधमम्।
एवं कृत्वा महाहविः प्रभूतं वा निवेद्य पानीयाऽऽचमनं मुखवासं दत्वा; अनुलेपनादीनि कृत्वा; अष्टाक्षरमहामन्त्रेण देवं प्रार्थयेत्। वैष्णवं, व्याहृतीश्च हुत्वा; अन्तहोमं जुहुयात्। ग्राममालयं वा नृत्तगीतवाद्ययुतं प्रदक्षिणं कारयेत्। एतेनाऽश्वमेधफलं प्राप्नोति। पुत्रकामः पुत्रान्, धनकामो धनानि, प्रतिष्ठाकामः प्रतिष्ठां, जयार्थीविजयं, श्रीकामः श्रियं, च लभेत। सर्वकामावाप्त्यर्थं, सर्वदोषोपशान्त्यर्थं, प्रायाश्चित्तार्थं च एतत् कुर्यात्। एतेनाऽर्चायां न्यूनं सम्पूर्णं भवति। आचार्यादिभ्यो दक्षिणां दद्यात्। एतं न शुश्रूषवे, नाऽभक्ताय, नाऽसम्मताय नाऽसच्छिष्याय, नाऽसत्पुत्राय दद्यात्। सुभक्ताय सुशिष्याय सुसंयतायैव दद्यात्। इत्याह मरीचिः॥
चतुःपञ्चाशत्तमः पटलः [[२७०]] अथातो यजमानः श्रद्धया प्रधानाचार्यपूर्वं पञ्चपदार्थिभ्यः पञ्चपरिचारकेभ्यश्च यथोक्तदक्षिणां सोदकं देवसन्निधौ दद्यात्। वैष्णवान् सम्पूज्य; नर्तकान् गायकान् परिचारकान् (अन्याँश्च) यथार्हं पूजयेत्। अत्रोपयुक्तं सर्वम् आचार्यायैव दद्यात्। हरेर्देवेशस्योत्सवे प्रवृत्ते तद्वास्त्वङ्गानां देवानाम् उत्सवं न कारयेत्। अन्यदेवोत्सवे प्रवृत्ते सौम्यमूर्तेर्हरेरुत्सवे न दोषाय भवेत् नराः कल्याणं न कुर्युः।
एवं यः कुरुते भक्त्या तस्य कायकृतं पापं तत्क्षणादेव नश्यति।
दशपूर्वान् दशापरानात्मानं चैकविंशतिकं देवैरप्य(न)भिलक्ष्यं विष्णोः परमपदं नयेत्। तद्ग्रामवासिनां सर्वेषां व्याधयः शान्तिं यान्ति प्रजावृद्धिश्च भवतीति विज्ञायते।
एकाहोत्सवः
अथैकाहोत्सवविधिं वक्ष्ये - राज्ञो ग्रामस्य वा यजमानस्य वा जन्मर्क्षे विष्णुपञ्चदिनेषु वा आरभेत। तद्दिनात्पूर्वम् अङ्कुरानर्पयित्वा; सम्भारानाहृत्य; पूर्वेद्युर्नित्यार्चनावसाने देवं विशेषतोभ्यर्च्य; हविर्निवेद्य; पूर्ववत्प्रतिसरं बध्वा; तथैव शाययित्वा; देवमुत्थाप्य; प्रातस्सन्ध्यार्चनान्ते नित्याग्निकुण्डे छुल्यां वा अग्निं परिषिच्य; तीर्थदिन उत्सवाधिदेवत्यं तदालयगतदेवानां मूर्तिमन्त्रैश्च आज्येन, आज्यमिश्रचरुणा वा, हुत्वा; पूर्ववद्बलिं निर्वाप्य; देवमलङ्कृत्य; यानमारोप्य; ग्राममालयं वा सर्ववाद्यसमायुक्तं सर्वालङ्कारसंयुक्तं प्रदक्षिणं कारयित्वा; आलयमावेश्य; चूर्णसंस्कारं कृत्वा; चूर्णेन स्नाप्य; देवाभिमुखे तथैव पञ्चकलशान् सोपस्नानान्वियस्य; देवमभ्युक्ष्य; तच्छिष्टतोयेन चक्रमभिषिच्य; तच्चक्रमादाय; तीर्थं प्रविश्य; निमज्य; जनानां तीर्थदानं कृत्वा; अन्यद्वस्त्रं परिधाप्य; आलयमावेश्य; देवं शुद्धोदकैस्संस्नाप्य; [[२७१]] गन्धोदकैश्चाऽभिषिच्य; अभ्यर्च्य; महाहविः, प्रभूतं वा, निवेद्य; पानीयाऽऽचमनमुखवासं दत्वा; पूर्वस्थाने संस्थाप्य; अभ्यर्चयेदित्याह मरिचिः॥
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे एककालोत्सवादिविधिर्नाम चतुष्पञ्चाशत्तमः पटलः ॥ ५४ ॥