०५३ उत्सवविधिः

अथ त्रिपञ्चाशत्तमः पटलः

उत्सवविधिः

पश्चादालयाभिमुखे दक्षिणे आग्नेयां वा यागशालां षोडशस्तम्भसंयुक्तां पञ्चहस्तादहीनां चतुर्द्वारयुताम् एकद्वारयुतां वा मण्टपं कूटं वा कारयति।

तां तोरणपूर्णकुम्भवितानध्वजदर्भमालाद्यैरलङ्कृत्य; तन्मध्ये अष्टतालायतविस्तारां पूर्ववत्सभ्याग्निकुण्डं कृत्वा; उपलिप्य; पैष्ट्या भूमिमलङ्कृत्य; वेद्यां द्व्यङ्गुलोत्सेधानि अङ्गुलोत्सेधानि वा धान्यान्यास्तीर्य; नवभागं विभज्य; पुष्पदर्भाक्षतानवकीर्य; दीपाङ्कुराष्टमङ्गलपञ्चायुधानि परितो विन्यस्य खण्डस्फुटितकालरहितान् नवान् नवकुम्भान् समाहृत्य; एकं द्रोणद्वयपूर्णं प्रधानकुम्भम् अन्यान् द्रोणपूर्णान् सङ्गृह्य; ’इन्द्रं नरोन’ इति तन्तुना यवान्तरम् अङ्गुल्यन्तरं वा परिवेष्ट्य; ’शुचीवोहव्या’ इति प्रक्षाल्य; नादेयं तोयं दिवा सङ्गृह्य; ’धारा’स्विति वस्त्रेणोत्पूय, उशीरादिगन्धैर्वासयित्वा; ’इदमापःशिवा’ इति कुम्भान् सम्पूर्य अक्षतं कूर्चं च निक्षिप्य; पृथक् पृथग्वस्त्रयुग्मेनाऽऽवेष्ट्य; नवरत्नानि विष्णुगायत्र्या मध्यादिकुम्भेषु सन्न्यस्य; रत्नालाभे सुवर्णं निक्षिप्य; प्रधानकुम्भे पञ्चायुधानि च सौवर्णानि निक्षिप्य; तत्क्रमेण वेद्यां विष्णुसूक्तेन कुम्भान् समारोप्य; तान् पिधानैरपिधाय; सभ्याऽग्निकुण्डे त्वाघारं हुत्वा, आचार्यस्तद्वेद्यां दक्षिणे चोत्तराऽभिमुखस्तिष्ठन् प्राणायामं कृत्वा, समाहितो देवं ध्यायन् तन्मध्ये प्रधानकुम्भे देवेशं विष्णुं देव्यौ च, प्राच्यां पुरुषं, दक्षिणस्यां सत्यं, प्रतीच्यामच्युतम् उदीच्यामनिरुद्धम्, आग्नेय्यां कपिलं; र्नैऋत्यां यज्ञं; वायव्यां नारायणम्; ऐशान्यां पुण्यं च; समावाह्य; पाद्याद्यैरभ्यर्च्य; अग्निं प्रज्वाल्य; पश्चादौत्सवं बिम्बमासाद्य; अष्टोपचारैरभ्यर्च्य; पुण्याहं वाचयित्वा; हेमादिपात्रे तण्डुलोपरि न्यस्तं सौवर्णं तान्तवं प्रतिसरपूर्ववद्बद्ध्वा; यस्य देवस्य यजनार्थं प्रतिसरबन्धः कृतः तस्य हविः [[२६१]] प्रतिषिद्धं तस्माद्रात्रावुत्सवान्ते स्नानकाले प्रतिसरं विमोच्य स्नापयित्वा; अभ्यर्च्य; हविर्निवेदयेत्।

उत्सवाधिदैवत्यहोमः

पश्चाद्यज्ञशालामागत्य; अग्निं प्रज्वाल्य; परिषिच्य; हौत्रं प्रशंस्य; अतो देवाद्यैः विष्णोर्नुकाद्यैः सहस्रशीषाद्यैः देवादि तदालयगतपरिषद्देवानां मूर्तिमन्त्रैश्च हुत्वा; उत्सवाधिदैवत्यं तिथिवारनक्षत्रदैवत्यं च, क्रमाज्जुहुयात्।

उत्सवाऽधिदेवत्यं स्रुवेणाज्येन तिथिदैवत्यमुपभृता साज्येन पक्केन वारदैवत्यमाज्येन अग्निहोत्रहवण्या नक्षत्रदेवत्यमाज्येन जुहुयात्। सर्वालाभे तत्तत्स्मृत्वा स्रुवेण होतव्यम्। यावत्सङ्ख्याऽऽहुतिः तावत्समिद्धोमं चरुहोमं च कुर्यात्।

होतव्यसमिदादि

प्रथमदिने पालाशं, द्वितीये बैल्वं, तृतीये शमिं, चतुर्थे नैयग्रोधं, पञ्चमे औदुम्बरं, षष्ठे चाश्वत्थं, सप्तमे खादिरम्, अष्टमे प्लाक्षं, नवमे पालाशम्, इध्मं जुहुयात्। एतेषामलाभे पालाशमश्वत्थं वा जुहुयात्। आज्यालाभे आज्यमिश्रचरुणा होतव्यम्। दधिक्षीराज्यमिश्रं लाजमुपजुह्वाऽऽदाय वैष्णवेन जुहुयात्॥

द्विगुणार्चनाद्यर्थं पद्मादिसङ्ग्रहः देवस्य द्बिगुणार्चनार्थं, कुम्भदेवाराधनार्थं, होमार्थम्, आस्थानाऽर्चनार्थं, बलिदानार्थं च, प्रथमदिने पद्मं; द्वितीये बिल्वपत्रं; तृतीये करवीरं; चतुर्थे कुमुदं; पञ्चमे नन्द्यावर्त्तं; षष्ठे तुलसीं; सप्तमे स्थलारविन्दम्, अष्टमे विष्णुक्रान्तं, नवमे पङ्कजम्, एतेषामलाभे करवीरं, तुलसीं वा आहरेत्॥

त्रिपञ्चाशत्तमः पटलः [[२६२]] कुम्भस्थदेवपूजनं बलिहरणक्रमश्च कुम्भस्थान् देवान् एकादशोपचारैर्वा अभ्यर्च्य; द्विकालं हविर्निवेदयेत्।

तद्वेद्यां पश्चिमे विष्टरे देवेशं दक्षिणे चक्रम्, उत्तरे विष्वक्सेनं च संस्थाप्य; अभ्यर्च्य; पश्चिमे देवाभिमुखे धान्यपीठे बलिरक्षकं च, आराध्य; मुखवासं प्रदाय; देवेशमभ्यर्च्य; हविर्निवेद्य; विधिना अन्नबलिम् अर्घ्यबलिं पुष्पबलिं वा आराध्य; चक्रमग्रे, वीशं शान्तं बलिबेरं च क्रमेण नयेत्।

पूर्ववद्बेराभावे चक्रादीन् पात्रेषु समावाह्य; अभ्यर्च्य; नयेत्। अथवा चक्रं बलिबेरं च नयेत्। पूर्ववत्प्रभूतं बलिमाहृत्य; शिष्येण वाहयित्वा; पुष्पगन्धधूपदीपाऽक्षतयुतं बलिदाता अग्रतो गच्छेत्। पूर्ववद्वारपालादिभ्यः बलिं दत्वा; ग्रामस्य बाह्यवीथ्यां, महत्वे अभ्यन्तरवीथ्यां वा, प्रदक्षिणवशेन दिक्पालानां मध्ये ब्रह्मणश्च बलिनिर्वापं कारयेत्। ग्राममध्ये विमानं चेत् मध्यादिनवदिक्षु बलिं दद्यात्। पश्चिमादिविमानेषु ब्रह्मबलिं विना दद्यादित्येके।

यत्र वास्तुविन्यासविशेषो नास्ति, तत्राऽष्टदिक्षु, नवदिक्षु वा, बलिं क्षिपेत्। पौराणिकी श्रेणी चेत् चतुष्कोणेषु सन्धिषु सर्वत्र क्षिपेत्। दण्डकश्चेत् पश्चिमे वरुणर्निऋतिवायुभ्यो मध्ये ब्रह्मयमकुबेरेभ्यो पूर्वे इन्द्रानलेशेभ्यो दद्यात्। दक्षिणोत्तरं चेत् दक्षिणे यमर्निऋतिपावकेभ्यो मध्ये ब्रह्मवरुणेन्द्रेभ्यः उत्तरे कुबेरपवनेशेभ्यो बलिं दद्यात्। नदीतीराद्रिस्थाने(षु) आवरणाद्बहिरष्टदिक्षु क्षिपेत्। अथवा ग्रामो योजनादर्वाक् चेत् तत्र गत्वा बलिमाचरेत्।

तस्मिन् स्थाने दर्भान् विकीर्य; तत्तद्दिगीशाय बलिं दत्वा; प्रागाद्यष्टदिक्षु सर्वेभ्यो देवेभ्यो, भूतेभ्यो, न्यक्षेभ्यो, राक्षसेभ्यः पिशाचेभ्यः, नागेभ्यो, गन्धर्वेभ्यो, अष्टादशगणेभ्यश्च, बलिं दद्यात् उत्तमम्॥

प्रागादिचतुर्दिक्षु सर्वेभ्यो भूतेभ्यो यक्षेभ्यो राक्षसेभ्यो बलिं दद्यान्मध्यमम्।

तन्मध्ये तद्दिगीशाय बलिं दद्यात् अधमम्।

[[२६३]] तत्तन्नाम्ना पूर्वमुदकं पुष्पं बलिम् उदकं च दद्यात् एवम् इन्द्रादीशानान्तं सर्वेषु स्थानेषु एकं विष्टरं निधाय; तस्मिन् बलिनिर्वापं कुर्यादिति केचित्।

एवं क्रमात् प्रदक्षिणवशेन बलिं दत्वा; आलयमाविश्य, भूतपीठे बलिशेषं निर्वपेत्। यदि राजधानी चेत् राजवेश्माभिमुखाऽङ्कणं त्रिधा कृत्वा; पश्चिमभागे प्रासादसमीपेवेन्द्राय, तत्पार्श्वयोर्जयश्रियै शचीदेव्यैच, द्वारपार्श्वयोश्शङ्खपद्मनिधिभ्यां च, बलिं दत्वा; सर्वत्र निर्वापणान्ते ’ये भूता’ इत्याकाशे विसृजेत्।

अथवा देवेशेन सहाऽग्रतो बलिमेवं क्षिपेत्॥

शिबिकादियानोत्सवः

शिबिकादियानं वस्त्रगन्धमाल्याद्यैरलङ्कृत्य; देवेशं नानावर्णाम्बरैर्नवैः कौशेयाद्यैः सूक्ष्मकार्पासतन्तुकृतैश्च रत्नयुतमकुटाऽङ्गदमकरकुण्डलकेयूरहारकटिसूत्रोदरबन्धनाऽङ्गुलीयकमुक्तादामप्रलम्बयज्ञोपवीताद्याभरणैः सुगन्धमाल्यैर्नानाविधगन्धैश्चाऽलङ्कुर्यात्। अज्ञानादर्थलोभाद्वा देवस्याऽलङ्कारे हीने सर्वहानिर्भवेत् यत्नेनालङ्कुर्यात्।

वस्त्रं जीर्णं स्फुटितमुपयुक्तं वा यो दद्यात् तस्य महत्तरो दोषो भवति।

नवं मृदुसूक्ष्मं वस्त्रं यो दद्यात् स कुलैस्सप्तभिर्युक्तो विष्णुलोकमवाप्नुयात्।

भक्तियुक्तैः शूद्रैरनुलोमैर्वाहयित्वा; न दोषो भवति। तत्प्रतिलोमैर्भक्तियुक्तैर्वाहनं दोषाय भवति। अकिञ्चनब्राह्मणैर्वाहनं तन्मुख्यं भवति।

देवेशं प्रणम्य, ’वेदाह’मिति यानमारोप्य; सौवर्णैः पुष्पैरन्यैर्वा प्रभामण्टपमलङ्कृत्य; योजयेत्। नर्तकगायकवादकाः चामरव्यजनमयूरतालवितानवृन्तादिधरा हेमरजतताम्रपरिच्छदढक्कावितानध्वज-पताकादिधराः तोयविक्षेपकाश्च जनाः पुरतो गच्छेयुः। छत्रधरा धूपदीपधराः परितो गच्छेयुः। वेदान् जयशब्दान् स्तोत्रादीनि च पठन्तोऽनुगच्छेयुः।

त्रिपञ्चाशत्तमः पटलः [[२६४]] उत्सवे देवेशं ये सेवन्ते ते सर्वे पदे पदे यज्ञफलं लभेरन्निति भृग्वादयो वदन्ति। तस्मादस्पृश्यस्पर्शनं न दोषाय भवेत्। तद्ग्रामवासिनो जना यानस्थं देवं स्वेषु गृहेषु दीपाङ्कुराद्यैः प्रत्युत्थानं कृत्वा नमस्कुर्युः। कदलीचूतपनसनालिकेराऽपूपलाजपृथुकादीनि ब्राह्मणानीतानि सङ्गृह्याऽमन्त्रकं निवेदयेत्।

शूद्रानुलोमानीतान्यपक्कानि निवेदयेत्। प्रतिलोमानि तानि तानि सर्वाणि वर्जयेत्। एवं ग्रामं प्रदक्षिणीकृत्य शकुनसूक्तेनाऽऽलयमावेश्य आस्थानमण्टपे सिंहासने विष्टरे वा देवं संस्थाप्य पाद्याद्यैरभ्यर्च्य मुखवासं दत्वा राजवदुपचारं कृत्वा शुद्धस्नपनविधिना संस्नाप्य अभ्यर्च्य महाहविः प्रभूतं वा निवेद्य पानीयाचमनमुखवासं दत्वा द्वितीयाहः प्रभृति नित्यं सायं प्रातर्नित्यार्चनान्ते द्विगुणार्चनं हविर्निवेदनं कुम्भदेवाराधनं होमं बलिदानं च कृत्वा सायं प्रातः एवमेवोत्सवं कारयेत्॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे उत्सवविधिर्नाम त्रिपञ्चाशत्तमः पटलः ॥ ५३ ॥