०५२ मृत्सङ्ग्रहणविधिः

अथ द्विपञ्चाशत्तमः पटलः

उत्सवारम्भः

अथ उत्सवारम्भः - यजमानस्सर्वदोषशान्त्यर्थं विष्णोरुत्सवं कारयेत्।

आलयाभिमुखेऽन्यस्मिन् शुभ्रेदेशे वा आस्थानमण्टपं कूटं वा पञ्चहस्तादिभेदेन प्राङ्मुखं दक्षिणामुखम् आलयद्वारदिङ्मुखं वा परिकल्प्य, तत्प्रमुखे द्वात्रिंशत्स्तम्भादिशतस्तम्भान्तैः स्तम्भैर्युक्तं नृत्तमण्टपं कूटं प्रपां वा कृत्वा, प्रपायां मध्ये वर्षनिवारणं कूटं युक्तितः कारयेत्।

द्रव्यसम्भाराः

तत्सर्वं वितानध्वजपताकमुक्तादामस्तम्भवेष्टनतरङ्गदर्भमालाद्यैरलङ्कृत्य; द्वारेषु तोरणपूर्णकुम्भदर्भमालाक्रमुकदीपाङ्कुरैरलङ्कुर्यात्। शिबिकारथरङ्गडोलाद्विपञ्चाशत्तमः पटलः [[२५८]] यन्त्रमुखमण्टपगज तुरग गरुड सिंह व्याल हंस भ्रमणादीनि यानानि शक्तितः कारयेत्। मालादीप यन्त्रदीप हस्तादिदीप शूलदीपादीन्, भेरी पटह मर्दल गोमुख ताल काहल मुरज शङ्ख जर्झर मञ्जुल दर्दुर शङ्ख श्रृङ्ग धारा वीणा वेणु झल्लरीश्च शक्तितः कारयेत्। छत्राणि नानाविधानि पिञ्छान्यनेकविधानि व्यजनानि चामराणि विविधान् ध्वजान् पताकाँश्च वितानतरङ्गस्तम्भवेष्टनान्याहृत्य; यथोक्तं समित्पुष्प दर्भहोमद्रव्यबलिद्रव्यपुष्पगन्धधूपदीपार्घ्यद्रव्यं हविर्द्रव्यं नववस्त्रतन्तु हेमरत्न धान्यतण्डुलघृतदधिक्षीराणि दीपार्थं घृतं तैलं वा आहरेत्। हविरर्थं तण्डुलं, बहूपदंशगुलफलसहितं भक्तानां ब्राह्मणादीनां भोजनार्थानि यानि द्रव्याणि तानि सर्वाणि च सम्भरति।

नर्तकान् गायकान् भक्तान् परिचारकाँश्च यत्नेनाऽऽह्वयेत्।

आचार्यो यजमानयुतः पूर्वेद्युरेव पूर्वाह्णे देवेशस्य द्विगुणार्चनार्थं कुम्भदेवाराधनार्थं होमार्थं बलिदानार्थमास्थानार्चनार्थं च पञ्चपदार्थान् पञ्च परिचारकाँश्च वरयेत्। तद्ग्रामवासिनस्सर्वे अनन्यतत्पराश्च अलङ्कृता हर्षयुता भवेयुः।

उत्सवे अङ्कुरार्पणं तद्ग्रामवीथीश्च संशोध्य; गृहद्वाराणि दीपाङ्कुरोदकुम्भाद्यैरलङ्कृत्य; देवालयं मृष्टसिक्तोपलेपनाद्यैस्संशोध्य; पैष्ट्या भूमिमलङ्कृत्य; लाजाऽक्षतकुसुमान्यवकीर्य; उत्सवं यद्दिने कर्तुमुद्योगः तद्दिनात्पूर्वं नवमे सप्तमे पञ्चमे तृतीये वाह्नि अङ्कुरार्पणं कुर्यात्।

उत्सवादिदिने प्रभाते स्नात्वा आचार्यो यजमानयुतः प्रथमदिनोत्सवाद्यवभृथान्तं हविष्याशी अनन्यतत्परो नववस्त्रोत्तरीयाभरणयुतः पुरुषसूक्तपूर्वमरुणनारायणाद्यष्टाक्षरपारायणं कुर्यात्। तद्दिनेष्वाशौचं न भवेत्। ततो देवालयं प्रविश्य; देवं प्रणम्य; उत्सबबिम्बं देव्यौ च तदलाभे स्नापनं [[२५९]] तदलाभे कौतुकं वा आहृत्य मध्याह्नार्चनान्ते स्नपनोक्त विधानेन यथाशक्तिकलशैः स्नापयित्वा; अथवा शुद्धोदकैरभिषिच्य; हविर्निवेदयेत्। तदालयगतदेवेभ्यः सर्वेभ्यः परिवारदेवेभ्यश्च यावत्तीर्थान्तं तावत्त्रिकालं द्विगुणं हविर्निवेदयेत्। परिवारदेवानां बिम्बाभावे तत्तत्पीठे तथैवाभ्यर्च्य; एककालं वा हविर्निवेदयेत्। सायाह्ने यजमानेन आचार्यः शिष्यैस्सार्धं वस्त्रोत्तरीयाभरणैरलङ्कृतः, चक्रवीशशान्तान् सप्तविंशतिविग्रहैरभ्यर्च्य; अलङ्कृत्य; यानमारोप्य; शिरसा धारयन् तीर्थाङ्कुरार्थं मृत्सङ्ग्रहणार्थं भक्तानां ब्राह्मणानां शिरोभिः पालिकादीन् धारयन् वस्त्रमाल्यालङ्कृतं खनित्रं चाऽऽनीय; सर्ववाद्यसमायुक्तं सर्वालङ्कारसंयुतं ’विष्णुर्मां रक्ष’त्विति अग्रतो गच्छेत्।

मृत्सङ्ग्रहणम्

आलयाद् ग्रामाद्वा प्राचीमुदीचीमैशानीं वा दिशां गत्वा; संशोध्य, उपलिप्य; तस्मिन् भूलोकवद्वर्तुलमुल्लिख्य; तन्मध्ये महीं देवीं ध्रुवबेरस्य बाहुसमां स्तनान्तां वा ऊर्ध्ववक्त्रामैशान्यां न्यस्तमौलिकां र्नैऋत्यां न्यस्तपादां दक्षिणमाकुञ्च्य, वामं प्रसार्य शयानां, द्विभुजां धृतोत्पलदक्षिणहस्ताम् ऊरुप्रसारितवामहस्तां यथालाभाभरणाम्बरान्वितां नवतालमानेन कल्पयित्वा; ’आपोहिष्ठाद्यैरभ्युक्ष्य’ एकादशोपचारैरभ्यर्च्य; तामनुमान्य; ललाटे बाह्वो स्तनयोर्वा मेदिनीमिति मन्त्रेण ’त्वां खनामी’ति आचार्यः प्राङ्मुख उदङ्मुखो वा खनित्वा; हेमादिपात्रे मृदं गृहीत्वा; वस्त्रैराच्छाद्य; तत्क्रमेण ग्रामं प्रदक्षिणीकृत्य; देवालयं प्रविश्य; अङ्कुरार्पणस्थाने मृदं सन्यस्य विधिना अङ्कुरार्पणं कारयेत्॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे उत्सवद्रव्य मृत्सङ्ग्रहणविधिर्नाम द्विपञ्चाशत्तमः पटलः ॥ ५२ ॥

द्विपञ्चाशत्तमः पटलः [[२६०]]