अथ एकपञ्चाशत्तमः पटलः उत्सवविधिः तत्त्रैविध्यम् अथ देवेशस्योत्सवविधिं व्याख्यास्यामः त्रिविध उत्सवः, नित्योत्सवः, शान्त्युत्सवः श्रद्धोत्सव इति। द्वादशमासेषु एकस्मिन्मासे अब्दं प्रति तत्काले नित्यं सङ्कल्प्य, यः क्रियते स नित्योत्सवः; भयप्रमाददुर्भिक्षव्याधिग्रहपीडाद्यशुभशान्त्यर्थं सङ्कल्प्य यः क्रियते स शान्त्युत्सवः श्रद्धावित्ते यदा युक्ते तदा यः सम्यक् क्रियते स श्रद्धोत्सवः भवेत्।
उत्सवदिनसङ्ख्या कालश्च नवाहं, सप्ताहं, पञ्चाहं वाप्युत्सवः राज्ञो राष्ट्रस्य ग्रामस्य यजमानस्य वा, जन्मर्क्ष प्रतिष्ठादिने विष्णुपञ्चदिनेषु मासनक्षत्रे विषुवे अयने वा अवभृथं सङ्कल्प्य, तत्पूर्वे च उत्सवदिनं निश्चित्य; तद्दिनं त्रिगुणं द्विगुणं वा कृत्वा; तदादावुत्सवादौ वा सायं ध्वजारोहणं कारयेत्।
ध्वजदण्डलक्षणम्
ध्वजदण्डमृजुं कृमिकोटररहितमनुद्वेजिनं विमान(स्य)समं पादाधिकमर्धाधिकं पादहीनम् अर्धहीनं वा चतुर्विंशत्यङ्गुलपरिणाहं, यथालाभपरिणाहं वा, वेणुजाति चम्पकक्रमुकं वा अन्यं शुभवृक्षसारं वा; गृह्णीयात्। आगस्त्यं वेति केचित्॥
ध्वजपटलक्षणादि
ध्वजपटमहतं शुद्धं दृढं शुक्लं कार्पासतन्तुना कृतं, चतुर्दशत्रयोदशद्वादशैकादशनवाऽष्टसप्तषड्ढस्तानामन्यतमायामं सप्तषट्पञ्चचतुस्तालविस्तृतं वस्त्रद्वयं संयोज्य, एकं वेति केचत्। केशादीन् परिहृत्य, जलेन पेषयित्वा, अग्रेणाऽग्रं पुच्छेन पुच्छं कृत्वा, ऊर्ध्वभागे तत्पटविस्तारार्धाऽऽयतम् एकपञ्चाशत्तमः पटलः [[२५४]] शूर्पाकारमग्रं, कृत्वा, पटस्याधोभागे तद्विस्ताराऽर्धाऽऽयतविस्तारौ पादौ मध्यादाप्रान्तं क्रमात् कृशौ युक्तितः कुत्वा, अग्रादधः पादोर्ध्वे च तिर्यग्यष्टिं वैणवीम् अन्यैः शुभैर्वृक्षैर्वा, तत्पटविस्तारायामामङ्गुलाग्रपरिणाहां योजयेत्।
ध्वजपटे लेख्यगरुडलक्षणम् एवं कृतध्वजपटमध्ये गरुडं मूलबेरस्य बाहुसमं कर्णान्तं स्तनान्तं नाभ्यन्तं शुद्धद्वारसमं पादाधिकमर्धाधिकं पादहीनमर्धहीनं वा गर्भगेहस्याऽर्धं त्रिपादं समं वा एतेष्विष्टमानेन नवतालविभागेन वा वामपादं समाकुञ्च्य; अपक्षीणं दक्षिणं किञ्चित्प्रसार्य स्थितं; द्विभुजं प्राञ्जलिं पक्षद्वययुतं सुवर्णवर्णं ललाटे ताम्रचूडं नासाग्रं श्यामवर्णं करापादतलं रक्ताभं नखदशनं शङ्खाभम् एवं पञ्चवर्णयुतं सर्वाभरणभूषितं सुमुखाख्योरगारूढदक्षिणभुजं कौबेरमकुटोज्ज्वलं शुकश्यामवाससं समेखलकिङ्किणीजालयुतं हाराङ्गदनूपुरकिरीटसहितं जवेन ब्रह्मलोकाद्देवानुत्सवार्थमाह्वयन्तं च लेखयेत्।
तस्योर्ध्वे चोभयोःपार्श्वयोश्चक्रशङ्खौ दीपधरौ चामरे उपरिछत्रम् अष्टमङ्गलान् धूपदीपपात्रे घण्टां चन्द्रसूर्यौ सनकसनत्कुमारौ च अन्यानि वर्णचिह्वानि अधस्तात्पूर्णकुम्भाङ्कुरांश्च लेखयेत्। अन्यत्र पटं सर्वं कृष्णेन परिपूरयेत्।
ध्वजदण्डायामं षड्भागं पञ्चभागं चतुर्भागं वा कृत्वा एकांशां वैणवीं यष्टिं सङ्गृह्य; दण्डाग्रे यज्ञोक्तवृक्षैरन्यैश्शुभैर्वा द्वितालायामानि तद्दण्डार्हविस्ताराणि मध्ये छिद्रयुतानि यष्ट्याधाराणि त्रीणि समाहृत्य; अचलानि संयोजयेत्।
तेषामग्रे यष्टियोजनार्थं सुषिरं कृत्वा दण्डाग्रे यमं यमद्वयं वा वैणवमधिकं यन्त्रवलयं कृत्वा तत्रेकमाधारं तदधश्चक्रं तयोर्मध्ये चैकं क्रमेण संयोज्य तद्यष्ट्यग्रे द्विभागं त्रिभागं वा हित्वा यन्त्रवलयं ताम्रेणाऽऽयसेन वा कृत्वा [[२५५]] संयोज्य; ध्वजदण्डद्विगुणायामाम् अङ्गुलाग्रपरिणाहां त्रिवृतां तन्तुना रज्जुं कृत्वा, संयोजयेत्। दण्डं प्रक्षाल्य; दर्भमालया वेष्टयेत्।
यूथाधिपाऽक्षहन्तयोःपृष्टे चक्रस्य पृष्टे वा षट्तालं पञ्चतालं चतुस्तालं वा व्यपोह्य; पञ्चतालं चतुस्तालं त्रितालं वा अवटं खनित्वा, मध्ये प्राग्दक्षिणपश्चिमोत्तरेषु पञ्चरत्नानि विक्षिप्य; शाल्यादिधान्यं निधाय; तदवटे ध्वजारोहणकालात्पूर्वं शकुनसूक्तं जपन् ध्वजदण्डं संस्थाप्य; वाद्यघोषयुतं ध्वजाग्रयष्टिः यत्र विमानं तद्दिग्गता यथा भवति तथा संस्थापयेत्।
तन्मूले प्रतिदिक् द्वादशाङ्गुलविस्तारोत्सेधं त्रिवेदिसहितं पीठं कारयेत्।
अथवा द्वित्रिहस्तायतविस्ताराम् एकहस्तोत्सेधाम् एकवेदिं कृत्वा तदूर्ध्वे अष्टदलैरावृतं पद्मं कारयित्वा, आलयाभिमुखे मण्टपं प्रपां वा वितानध्वजाद्यैरलङ्कृत्य; प्राच्यां ध्वजपटविस्ताराधिकाऽऽयामं तस्यार्धविस्तारं ध्वजस्य पश्चिमे चतुर्विंशत्यङ्गुलायामं चक्रस्योत्तरे तथैव विष्वक्सेनस्य धान्यैस्त्रिवेदिसहितं पीठं कृत्वा; वायव्याम् ऐशान्यां वा कुण्डमौपासनं कृत्वा; आघारं हुत्वा; अग्नेः पश्चिमायां धान्यपाटे प्राङ्मुखं ध्वजं संस्थाप्य, वास्तुहोमं हुत्वा; पर्यग्निपञ्चगव्याभ्यां संशोध्य; ’दद्भ्यः स्वाहेत्यादिगारुडं ध्वाजं वैष्णवं च हुत्वा, तत्तन्मन्त्रेणाऽक्षिमोचनं कृत्वा, गवादिदर्शनद्रव्याणि दर्शयित्वा, ’आपोहिष्ठा मयोभुवादिनाऽभ्युक्ष्य; पश्चाच्चतुराढकसम्पूर्णं कालविहीनं कुम्भं तन्तुना परिवेष्ट्य, प्रक्षाल्य, अद्भिरापूर्य, वस्त्रयुग्मेनावेष्ट्य, ’इदमापःशिवा’ इत्यभिमृश्य, अक्षतान् स्वर्णं कूर्चं च विक्षिप्य; गरुडस्याऽभिमुखे धान्यपीठे सन्यस्य, गरुडं ध्यायन् कुम्भेऽम्भसि समावाह्य, कुम्भं गरुडं च तथा स्नानायाऽभ्युक्ष्य; तथैव प्रतिसरं बध्वा; धान्योपरि पञ्चवस्त्राण्यास्तीर्य; शयनं सङ्कल्प्य; अग्निं प्रज्वाल्य हौत्रं प्रशंस्य; ध्वाजं गारुडं वैष्णवं च हुत्वा; तद्बीजाक्षरं तस्य हृदये न्यस्य; कुम्भस्थां शक्तिं कूर्चेनादाय; गरुडं ध्यायन् एकपञ्चाशत्तमः पटलः [[२५६]] मूर्तिमन्त्रैरावाह्य; आनम्य, तन्मण्टपे कृते धान्यपीठे ध्वजं पश्चिमाभिमुखं प्रस्थाप्य, पश्चिमे प्राङ्मुखं चक्रम् उत्तरे दक्षिणामुखं शान्तं च, संस्थाप्य, गरुडं गरुडगायत्र्या शान्तचक्रौ तत्तन्मन्त्रेण आसनाद्यैरेकादशोपचारैरष्टोपचारैर्वाभ्यर्च्य; मुद्गान्नं गरुडस्य अन्ययोः शुद्धान्नं निवेद्य; पानीयाचमनमुखवासं दत्वा; पुण्याहं वाचयित्वा; आग्नेय्यां धान्योपरि न्यस्य भेर्यां ’भूतेशं महाभुजं विष्णुभक्तं गदाधर’मिति भूतेशमावााह्य, अभ्यर्च्य; हविर्निवेद्य; वस्त्राद्यैर्वादकमलङ्कृत्य; आचार्य प्राङ्मुख उदङ्मुखो वा ’उपश्वासयपृथिवी’ मिति भेरीसूक्तं जप्त्वा यष्टिमादाय; दक्षिणेन हस्तेन ’भूर्भुवस्व’रिति वदन् त्रिस्सन्ताडयेत्। पश्चाद्वादकस्सर्ववाद्यसमायुक्तां भेरीं सन्ताडयेत्।
पश्चादाचार्यो द्रोणैर्द्रोणार्धैराढकैस्तदर्धं वा तण्डुलैः पक्कमन्नं कटाहे प्रक्षिप्य; पक्कैश्च मुद्गनिष्पावतिलतिल्वापूपसक्तुलाजैः युक्तं यथालाभैर्वा युतं प्रभूतं बलिमाहृत्य; शिष्येण वाहयित्वा; वाद्यघोषणपूर्वमेव ध्वजं रथे शिबिकायां वाऽऽरोप्य अनुचक्रवीशशान्तान्नयेत्। अथवा शिरसा धारयेत्।
अन्नबलिम् अर्घ्यबलिं पुष्पबलिं बलिबेरमारोप्य; आचार्यः पुरतो गच्छेत्। तदालयगतद्वारपालेभ्यो लोकपालेभ्यः विमानपालेभ्योऽनपायिभ्यश्च बलिं दत्वा; ग्रामं गत्वा इन्द्रादिक्रमेण बलिं दद्यात्। पश्चिमविमानं चेद्वरुणादिक्रमेण बलिं दद्यात्। यस्यां दिशि विमानं तद्दिक्पालकपूर्वमेव बलिं दत्वा; उत्सवं घोषयेत्। ग्रामे ’यज्ञस्य घोषदसी’त्यादि यथाकामं तद्दिग्द्देवत्यमन्त्रांश्च घोषयेत्। अन्यत्र गद्यैः पद्यैस्तद्देशभाषयाऽन्यया गाधया च घोषयेत्। ’सर्वे देवास्सर्वा देव्यः, सर्वे ऋषयः सर्वा ऋषिपत्न्यः, सर्वे पितरः सर्वाः पितृपत्न्यः, सिद्धविद्याधरगरुडगन्धर्वयक्षकिन्नरनागभूताऽसुरराक्षसाद्यष्टादशगणास्सर्वेप्यायां’ त्वित्युक्त्वा; घोषयेत्।
एवं ग्रामं प्रदक्षिणीकृत्य, शकुनसूक्तं जपन् आलयं प्रदक्षिणीकृत्य, विष्वक्सेनानपायिनौ स्वे स्वे देशे प्रतिष्ठाप्य, ध्वजस्थानमाविश्य, ध्वजं [[२५७]] यानादावरोप्य, पाद्याद्यैरभ्यर्च्य, अनुमान्य, यन्त्ररज्जुं समादाय, ध्वजं घण्टायुतं ’स्वस्तिदाविशस्पति’रिति बध्नीयात्। आचार्यः प्राङ्मुख उदङ्मुखो वा स्थित्वा, दण्डाग्रे ’सुपर्णोसी’ति यन्त्रेण संयोजयेत्। ’भूरसी’त्यादिना मन्त्रेण ध्वजदण्डस्य मूलं हस्ताभ्यामवलम्ब्य, ’ध्वजं प्रतिष्ठापयामी’ति प्रतिष्ठाप्य, आसनाद्यैरभ्यर्च्य, पुण्याहं वाचयित्वा, ब्रह्मघोषं च कृत्वा, मुद्गान्नं निवेद्य, पानीयाचमनमुखवासं निवेदयेत्।
ध्वजगरुडनिवेदितान्नभक्षणफलम्
ध्वजस्थ गरुडस्य निवेदितमन्नं पिण्डं कृत्वा ’या स्त्री पुत्रकाम्या अश्नीयात्, सा बलारोग्यायुष्मन्तं पुत्रं प्रसूयेत। यावत् ध्वजारोहणं तावद्धविस्त्रिकालं द्विकालमेककालं वा निवेदयेत्। जयमत्युछ्रितं धन्यं ध्वज’ मिति चतुर्भिर्नाममन्त्रैरहरहस्त्रिसन्ध्यं सप्तविंशतिविग्रहैरर्चयेदित्याह मरीचिः।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे ध्वजारोहणविधिर्नाम एकपञ्चाशः पटलः ॥ ५१ ॥