अथ पञ्चाशत्तमः पटलः
उत्सवचक्रविधानम्
अतोत्सवचक्रं सौवर्णं राजतं ताम्रम् आयसं दारवं वा कृत्वा; मानाऽङ्गुलेन, मात्राङ्गुलेन वा; ध्रुवबेरस्य, कौतुकस्य वा, देहलब्धाङ्गुलेन वा; षोडशाऽङ्गुलं, द्वादशाऽङ्गुलमष्टाङ्गुलं वासमवृत्तं; तस्यापरपट्टविस्तारं त्र्यङ्गुलं, द्व्यङ्गुलम्, एकाङ्गुलं वा; तन्मध्यघनमेकाङ्गुलम्, आरकूटस्य विस्तारं [[२५१]] त्र्यङ्गुलं, द्व्यङ्गुलं वा, पद्मं; सविशेषमरायामम् अराणि वेणुपत्रसमानि, चतुरश्राणि वा, चतुर्विंशत्यरमुत्तमं, विंशत्यरं मध्यमं, षोडाशारमधमम्।
तन्मूर्न्धिपार्श्वयोश्च ज्वालायामं त्र्यङ्गुलं, प्रभाज्वालासमज्वाला वा, तत्पट्टमध्ये वल्लीसमचतुर्लेखा युञ्जीत। तस्याधस्तात्पलकाः कुम्भतापीश्च युगाङ्गुलविस्तारोछ्रयाः, षण्मात्रायता, उभयोः पार्श्वेयोः द्वौ सिंहौ चक्रमुद्वहन्तौ वा कारयेत्, दन्तद्रव्येण सहजमेव कुर्यात्। अथवा चन्दनेन वृक्षेण वा कुर्यात्।
दण्डायामं चक्रायामात् त्रिगुणं, द्विगुणं, समं वा; षोडशाऽङ्गुलं, द्वादशाङ्गुलं, नवाङ्गुलं वा, मूलनाहं; तदष्टाऽंशोनमग्रनाहो; मूलादूर्ध्वं क्रमात् कृशदण्डादधस्तात्पीठं चतुरङ्गुलोन्नतम्, अष्टाङ्गुलोन्नतविस्तारायामं, चतुरश्रं, वृत्तं वा, पद्माकारम् अष्टदलैरावृतं कृत्वा; सुदृढं संयोजयेत्। अत्राऽनुक्तं सर्वं शिल्पिशास्त्रोक्तविधिना कारयेत्।
अथवा नवतालेन चक्रं, मानाङ्गुलेन सप्ताङ्गुलं, नवाङ्गुलमेकादशाङ्गुलं वा, द्विभुजं, प्राञ्जलीकृत्य स्थितं, किरीटाद्याभरणान्वितं, त्रिभागैकभागं, पीठं, तस्योपरिभागे चक्रविस्तारं मानाङ्गुलेन द्वादशाङ्गुलमुत्तमं; नवाङ्गुलं मध्यमं; षडङ्गुलमधमम्। अन्यत्सर्वं पूर्ववत्। तस्य शिरश्चक्रं संयोज्य सुदृढं कुर्यात्॥
चक्रप्रतिष्ठाविधिः
अथ चक्रस्य प्रतिष्ठां वक्ष्ये - शुभे कर्तुरनुकूले नक्षत्रे कुर्यात्।
तद्दिनात्पूर्वमङ्कुरानर्पयित्वा, तच्चक्रं संशोध्य, वास्तुहोमं हुत्वा, पर्यग्निपञ्चगव्याभ्यां संशोध्य, पुण्याहं कृत्वा, जले गव्ये कुशोदके च प्रत्येकमधिवासयेत्।
प्रतिमा चेत् पूर्ववदक्षिमोचनं तन्मन्त्रेण कारयेत्।
अधिवास्य, आलयाभिमुखे यागशालां कृत्वा, तोरणाद्यैरलङ्कृत्य; तन्मध्ये शय्यावेदिं चक्रस्याऽध्यर्धविस्तारां तत्तृतीयां (तुरीयां) शोत्सेधां चतुरश्रां पञ्चाशत्तमः पटलः [[२५२]] कृत्वा; तत्प्राच्यामौपासनाग्निकुण्डं, तत्प्राच्यां स्नापनश्वभ्रं च कृत्वा; पूर्वेद्युरपराह्णे अधिवासगतं चक्रमादाय; शुद्धोदकैस्संस्नाप्य; आलयमावेश्य; यज्ञालयात्पश्चिमेविष्टरे प्राङ्मुखं संस्थाप्य; आघारं हुत्वा; चतुराढकसम्पूर्णं खण्डस्फुटितकालरहितं कुम्भं सङ्गृह्य; तन्तुना परिवेष्ट्य; अद्भिः प्रक्षाल्य अद्भिरापूर्य; वस्त्राभ्यां वेष्टयित्वा; पञ्चरत्नानि वर्णं वा पञ्चायुधांश्च विक्षिप्य; चक्रस्याऽभिमुखे धान्यपीठे सन्यस्य; आचार्यश्चोत्तराभिमुखो भूत्वा चक्रं ध्यायन्, कुम्भाम्भसि समावाह्य; तच्चक्रं कुम्भं च समादाय स्नपनश्वभ्रं प्रतिष्ठाप्य; सप्तभिः कलशैः तथैवाऽभिषिच्य वस्त्राद्यैरलङ्कृत्य; शय्यावेद्यां धान्योपरि पञ्चशयनानि पञ्चवस्त्राण्यास्तीर्य; कुम्भं चक्रं च समारोप्य; तदैव प्रतिसरं बध्वा; तन्मन्त्रेण शाययित्वा उत्तराछादनं कृत्वा; तथैव हौत्रप्रशंस्य; चक्रादिपञ्चायुधान् मूर्तिमन्त्रैस्समावाह्य; आवाहनक्रमेण जुष्टाकारस्वाहाकारौ कृत्वा; वैष्णवं सौदर्शनं चक्रगायत्रीं च, अष्टोत्तरशतमावृत्या हुत्वा, रात्रिशेषं व्यपोह्य; प्रभाते स्नात्वा; आलयमाविश्य; चक्रमुत्थाप्य; अभ्यर्च्य, मुहूर्ते समनुप्राप्ते यजमान आचार्यादिभ्यो दक्षिणां दद्यात्, कुम्भं चक्रं च समादाय; आलयं प्रदक्षिणीकृत्य; अभ्यन्तरे मुखमण्टपे वा दक्षिणपार्श्वे कृतेपीठे रत्नं सुवर्णं वा निक्षिप्य; तन्मन्त्रेण प्रतिष्ठाप्य; तद्बीजाक्षरं सन्यस्य; कुम्भस्थां शक्तिं कूर्चेनाऽऽदाय; तन्मन्त्रेण तन्मूर्तिमन्त्रैरावाह्य; आसनाद्यैरभ्यर्च्य, हविर्निवेदयेत्। एवं यः कुरुते भक्त्या रिपून् सर्वान् जित्वा इष्टान् कामानवाप्य; विष्णुलोके महीयते इति विज्ञायते।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे चक्रलक्षणचक्रप्रतिष्ठाविधिर्नाम पञ्चाशत्तमः पटलः ॥ ५० ॥
[[२५३]]