०४९ स्नपनविधिः

अथ एकोनपञ्चाशत्तमः पटलः अथ आचार्यो यजमानयुतो द्रव्यदेवाराधनार्थमेकं, कलशोद्धरणार्थं द्वौ, चत्वारो वा अभिषेकार्थमेकं, होमार्थमेकं, होतारमेकं, वरयित्वा; पूजयेत्, आचार्यः पूर्वरात्रौ देवेशं विशेषतोऽभ्यर्च्य; शयनस्थाने शयनं सङ्कल्प्य; तस्मिन् स्नापनं बिम्बं, तदलाभे चोत्सवं, तदलाभे कौतुकं, समारोप्य; पूर्ववत्प्रतिसरं बध्वा; शाययित्वा; प्रभाते स्नात्वा आलयमाविशेत्।

यजमानः आचार्यादीन्वस्त्रोत्तरीयाद्यैरलङ्कृत्याऽभिपूजयेत्, आचार्योऽभ्यन्तरं प्रविश्य; देवेशं प्रणम्य; उत्थाप्य; पाद्याद्यर्घ्यान्तमभ्यर्च्य; मुखवासं निवेदयेत्। अथवा तत्काले शयनं सङ्कल्प्य; देवमारोप्य प्रतिसरं बध्वा, यामं मुहूर्तं वा; शाययेत्। आसन्ने काले शयनं विना कौतुकं बन्धयेदिति केचित्।

शकुनसूक्ततोयधारापुरस्सरं वाद्यघोषसमायुक्तं, देवमानीय, स्नानवेद्यां प्राङ्मुखमालयद्वारदिङ्मुखं वा ’परं रंह’ इति स्थापयित्वा; पाद्याचमनं प्रदाय; यजमानस्य यदुपचारः इष्टस्तं दत्वा; त्रयोदशोपचारैरभ्यर्च्य; प्राच्यामाहवनीयाग्निकुण्डं कृत्वा; आघारं हुत्वा; वैष्णवं जुहुयात्।

हौत्रं प्रशंस्य देवेशं द्रव्यदेवांश्च तत्तन्मूर्तिमन्त्रैरावाह्य; आवाहनक्रमेण निर्वाप्य स्वाहाकारं कृत्वा; द्रव्यं प्रति द्रव्याधिदेवत्यं वैष्णवं च हुत्वा; पश्चात् स्नापयेत्।

[[२४७]]

स्नपनविधिः

अभिमुखे दक्षिणे वा आसीनस्तद्बिम्बार्हं तिष्ठन्वा देवमानम्य; प्राणायामं कृत्वा; ईशानेन्द्रयोर्मध्ये नादेयाद्यामृत् एकस्मिन्पात्रे गृहीत्वा; ’उदुत्य’मिति सन्यस्य; तासु मेदिनीमभ्यर्च्य; ’एकाक्षर’मिति मृदा स्नापयेत्।

’इन्द्रादीशानपर्यन्तं द्वारवामपार्श्वेषु अष्टकोणेषु च, ’इदं विष्णु’रिति हिमवदादीन् पर्वतान् सन्यस्य; तेष्वग्निमभ्यर्च्य; ’विश्वे निमग्न’ इति पर्वतेन प्रदक्षिणं, प्रणामं च, कारयेत्।

यमपावकयोर्मध्ये ’शुक्रन्त’ इति शाल्यादीनि धान्यानि एकस्मिन् पात्रे सङ्गृह्य; सन्न्यसेत्। तेषु वायुमभ्यर्च्य; ’प्राणप्रसूति’रिति स्नापयेत्। यमानिलयोर्मध्ये अभ्यन्तरे ’सोम ओषधीना’(वै॰ म॰ प्र॰ २) मिति अङ्कुरान् सन्यस्य; तेषु तार्क्ष्यमभ्यर्च्य; ’वितत्य बाण’ (वै॰ म॰ प्र॰ ९) मिति देवमाराधयेत्।

द्वारदक्षिणपार्श्वेषु, कोणेषु च, ’शसानी (वै॰ म॰ प्र॰ ६)ति श्रीवत्सादीन् मङ्गलान् सन्यस्य; तेष्विन्द्रमभ्यर्च्य; ’त्वं वज्रभृ’ (वै॰ म॰ प्र॰ १) दिति मङ्गलैः प्रदक्षिणं प्रणामं च कारयेत्। ऐशान्यां सोपस्नानं पञ्चगव्यं ’त्र्यम्बक’ (वै॰ म॰ प्र॰ ३) मिति तस्मिन् शर्वम्, उपस्नाने विश्वान् देवान् समभ्यर्च्य, ’वसोःपवित्र’मिति पञ्चगव्येन स्नापयेत्। ’वारीश्चतत्र’ इति सर्वोपस्नानैरभिषेचयेत्।

पूर्ववत् द्वारोत्तरपदे घृतं ’घृतप्रतीक’ (वै॰म॰प्र॰-१) इति सन्यस्य; तस्मिन् सामवेदमभ्यर्च्य; उपस्नाने अप्सरसश्चाभ्यर्च्य; ’अग्नआयाही’ति घृतेन स्नापयेत्। पूर्वद्वारदक्षिणे ’यन्मधुन’ (वै॰म॰प्र॰३) इति मधु सन्यस्य; तस्मिन् ऋग्वेदम्, उपस्नाने प्राणानावाह्य, अभ्यर्च्य, ’अग्निमील’ इति मधुना स्नापयेत्।

एकोनपञ्चाशत्तमः पटलः [[२४८]] आग्नेय्यां ’दधिक्राव्ण्णे’ति दधि सन्न्यस्य तस्मिन् यजुर्वेदम् उपस्नाने रुद्रमभ्यर्च्य, ’इषेत्वोर्जेत्वे’ति दध्ना स्नापयेत्।

दक्षिणद्वारपूर्वे ’शन्नोदेवी’ रिति क्षीरं सन्न्यस्य, तस्मिन्नथर्ववेदम्. उपस्नाने अश्विनावभ्यर्च्य; ’शन्नोदेवी’रिति क्षीरेण स्नापयेत्।

दक्षिणद्वारपश्चिमे ’सोमं राजान’मिति गन्धोदकं विन्यस्य; तस्मिन् ऋतूनभ्यर्च्य; उपस्नाने मरुतोऽभ्यर्च्य, ’अभित्वा शूर’ इति गन्धोदकेन स्नापयेत्।

र्नैऋत्याम्, ’इमाओषधय’ इति अक्षतोदकं सन्यस्य, तस्मिन् काश्यपम्, उपस्नाने बृहस्पतिं चाऽभ्यर्च्य; ’इमा ओषधय’ इति अक्षतोदकेन स्नापयेत्।

पश्चिमद्वारदक्षिणे ’सोमं राजान’मिति फलोदकं सन्यस्य, तस्मिन् सोमम्, उपस्नाने नागराजमभ्यर्च्य; (जप) - ’देवस्यत्वे’ति फलोदकेन स्नापयेत्।

पश्चिमद्वारोत्तरे ’यतस्त्वमासा’ दिति कुशोदकं सन्यस्य, तस्मिन्मुनीन्, उपस्नाने तक्षकमभ्यर्च्य; ’चत्वारि वा’गिति कुशोदकेन स्नापयेत्।

वायव्याम् ’अतोदेवा’ इति रत्नोदकं सन्यस्य; तस्मिन्विष्णुम् उपस्नाने गन्धर्वानभ्यर्च्य; ’नारायणाय विद्मह’ इति रत्नोदकेन स्नापयेत्।

उत्तद्वारपश्चिमे ’ब्रह्मादेवाना’मिति जप्योदकं सन्यस्य, तस्मिन् पवित्रम्, उपस्नाने विद्याधरान् अभ्यर्च्य, ’पूतस्त’ इति जप्योदकेन स्नापयेत्।

उत्तरद्वारपूर्वे ’चित्रं देवाना’मिति सर्वौषध्युदकं सन्यस्य, तस्मिन्नादित्यम्, उपस्नाने अप्सरसश्च आवाह्य अभ्यर्च्य, ’चत्वारि श्रृङ्गे’ति सर्वौषध्युदकेन स्नापयेत्।

पञ्चगव्यादिद्रव्याणामन्तरे चोष्णोदकेन स्नापयेत्।

[[२४९]] तत्तद्द्रव्यान्ते पूर्ववस्त्रं विसृज्य अन्यद्वस्त्रं परिधाप्य अष्टोपचारैरभ्यर्च्य; करकोदकेन तत्तद्द्रव्यं प्रणवेन प्रोक्ष्य; आदाय; देवं सकृत्प्रदक्षिणं कारयित्वा अभिषेकं कुर्यात्।

यमनीलयोरन्तरे ’इमास्सुमनस’ इति पुण्यपुष्पाण्येकस्मिन् पात्रे सङ्गृह्य; विन्यस्य; तेषु धातारमभ्यर्च्य; धाताविधातेति देवमाराधयेत्।

नीलवरुणयोरन्तरे ’वन्ध्यान एष’ इति जातीफलचूर्णं विन्यस्य; तस्मिन् चक्रमभ्यर्च्य; ’ऋचो यजूंषी’ (वै.म.प्र.१)ति चूर्णेन स्नापयेत्।

वरुणोदानयोरन्तरे ’एते शत’मिति अश्वत्थादिकषायचूर्णं ’वारीश्चतस्र’ इति नादेयादितीर्थतोयं च विन्यस्य, कषायेषु वरुणं तीर्थेषु सुब्रह्मण्यं चाभ्यर्च्य ’स एष देव’ इति कषायेणोद्वर्त्य ’स सर्ववेत्ते’ति तीर्थोदकैः स्नापयेत्।

सोमोदनायोर्मध्ये ’रुद्रमन्य’ मिति सिंहादिवनौषधीः विन्यस्य; तेषु रुद्रमभ्यर्च्य, ’सामैश्चिताङ्ग’मिति वनौषधिभिर्मार्जयेत्।

नीलपङ्क्तीशयोर्मध्ये ’सिनीवाली’ति हरिद्राचूर्णं सन्यस्य; तस्मिन् देवेशानमभ्यर्च्य, अतोदेवादिना हरिद्राचूर्णेन स्नापयेत्। ’इमे गन्धा’ इति ईशसोमयोर्मध्ये हरेणु पूर्वं सर्वगन्धचूर्णं सन्यस्य; तस्मिन्निन्द्रमभ्यर्च्य; ’त्वं स्त्री’ति सर्वगन्धेनोद्वर्तयेत्।

आपोहिष्ठाद्यैरुष्णोदकैस्संस्नाप्य; आचमनं दत्वा; ’नारायणय विद्महे’ इति ऐशान्यां प्लोतवस्त्रोत्तरीयाभरण यज्ञोपवीतं शान्तस्य पश्चिमे पालाशादिमूलगन्धान् तस्य पूर्वे जातिहिङ्गुलिकादिधातूंश्च सन्यस्य; प्लोते वस्त्रे त्वष्टारं, मूलगन्धे ब्रह्माणं, धातुषु दुर्गां, भूषणे षण्मुखं च, आराध्य; श्वभ्रस्य दक्षिणे पार्श्वे पीठं सन्यस्य; तत्र देवं संस्थाप्य, ’मित्रस्सुपर्ण’ इति प्लोतेन विमृज्य; एकोनपञ्चाशत्तमः पटलः [[२५०]] ’तेजोवत्से’ति वस्त्रं, ’सोमस्य तनूरसी’ति उत्तरीयं, ’भूतोभूतेष्वि’ त्याभरणं दत्वा; पुष्पादिभिरलङ्कृत्य; ’अग्निं दूत’मिति उपवीतं दत्वा; ’त्वं भूर्भुव’ इति मूलगन्धान् स्पर्शयित्वा; ’बुद्धिमता’मिति धातुभिरलङ्कृत्य; पाद्याद्यैरर्चयेत्।

प्रणवपूर्वं गायत्र्यैव मृदादिद्रव्याणां न्यासं कृत्वा, तत्तदधिदैवं समाराध्यः पवमानाद्यैर्देवं संस्नापयेदित्येके॥

ध्रुवार्चाबेरस्नपनं चेन्मुखमण्टपे देवालयाभिमुखे स्नपनालयं कृत्वा; अलङ्कृत्य; पूर्ववत्पञ्चविंशतिभागं कृत्वा; तन्मध्ये द्रोणद्वयपूर्णं कुम्भं सूत्रेण वेष्टयित्वा; वस्त्रेणाऽऽवेष्ट्य; अद्भिरापूर्य; सुवर्णं निक्षिप्य; तस्मिन्सर्वतीर्थजलमभ्यर्च्य; निधाय; तं परित; पूर्ववन्मृदादिद्रव्याणां न्यासं कृत्वा; अधिदेवमाराध्य; देवेशं परितः पीठोर्ध्वे पूर्ववज्जपादीनभ्यर्च्य; कलशानादाय; अभ्यन्तरं प्रविश्य; तथैव स्नापयेत्।

तत्तत्कुम्भोदकेन अतोदेवादिभिस्संस्नाप्य; अलङ्कुर्यात्। एष विशेषोऽन्यत्सर्वं समानम्। अथवा बिम्बमादाय कनिक्रदादिना आलयं प्रदक्षिणीकृत्य; आस्थाने संस्थाप्य; शुद्धस्नपनविधिना संस्नाप्य प्रभूतं निवेदयेत्॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे स्नपनविधिर्नाम एकोनपञ्चाशत्तमः पटलः ॥ ४९ ॥