अथ अष्टचत्वारिंशः पटलः देवेशस्य स्नपनविधिः अथ देवेशस्य स्नपनविधिं वक्ष्ये - प्रतिष्ठान्ते चोत्सवान्ते अयने विषुव्यतीपाते अन्यसङ्क्रमणेष्वब्दान्ते युगान्ते राहुसम्प्लवे गुरुशुक्रोदये मासर्क्षेषु विष्णुपञ्चदिनेषु राज्ञो ग्रामस्य यजमानस्य च जन्मर्क्षे अनावृष्ट्यां महाव्याधिकोपे अन्यस्मिन् काम्ये च देवेशस्य स्नपनं कारयेत्।
यद्दिने कर्तुमुद्योगः तद्दिनात्पूर्वं नवमे सप्तमे पञ्चमे तृतीये वा अह्नि अङ्कुरार्पणं कुर्यात्। अङ्कुरार्पणादूर्ध्वं द्रव्याण्याहरेत्। नदीसस्यक्षेत्रतटाकदर्भमूलगजदन्तोद्धृतगोविषाणोद्धत कुलीरवास वल्मीकेषु अष्टौ मृदो यथालाभं वा गृह्णीयात्। हिमवन्मेरुविन्ध्यविडूरवेदपर्वतमहेन्द्रमहाहरिश्चन्द्रशतश्रृङ्गान् एतान् अष्टचत्वारिंशः पटलः [[२४२]] कुलपर्वतान् अष्टौ, यथाक्रमेण धूमश्वेतपीतरक्तश्यामनीलपिङ्गलकृष्णवर्णान् द्वादशाऽङ्गुलोत्सेधान् पञ्चाङ्गुलविशालान् अग्रे त्र्यङ्गुलविस्तृतान् चतुरश्रान् याज्ञिकैर्वृक्षैः मृदा वा कारयेत्। शालिव्रीहियवमुद्गमाषप्रियङ्गुतिलतिल्वसर्षपाण्यष्टौ धान्यानि सर्वालाभे यथालाभं वा आहृत्य, अङ्कुरार्पणोक्तधान्यानाम् अङ्कुरांश्च, तदभावे दूर्वाग्राणि वा आहरेत्। श्रीरूपोदकुम्भभेरीदर्पणमत्स्ययुग्माऽङ्कुशशङ्खावर्तानि अष्टमङ्गलानि यथाक्रमेण हेमार्कबिम्बफलश्वेतपीतरक्तशङ्खातिरक्तवर्णान् अष्टाङ्गुलोत्सेधान् चतुरङ्गुलोच्छयपीठयुतान् कारयेत्।
एवं पञ्चप्राग्द्रव्याणि चास्तीर्य, पञ्चगव्यघृतमधुदधिक्षीरगन्धोदक अक्षतोदकफलोदककुशोदकरत्नोदकजप्योदकसर्षपोदकसर्वौषध्युदकानि द्वादश प्रधानानि षोडशांशं कृत्वा, ’शुक्रमसी’त्येकांशं घृतं, ’दधिक्रावण्’ इति द्व्यंशं दधि, ’आप्यायस्वे’ ति त्रिगुणांशं क्षीरं, ’शन्नोदेवी’ रिति वेदांशं गोमयं, सावित्र्या रसांशं गोमूत्रम्, एवं योजयेत् एवं पञ्चगव्यम्।
घृतमनतीतपञ्चदशाहं, पुष्पद्रावणिकं, फलद्रावणिकं वा, मधु, तदलाभे नालिकेरजलं, मृण्मयपात्रेन ग्राह्यं गव्यं, न शुक्तं दधि, सद्यो दुग्धं क्षीरं श्रेष्ठं, पञ्चगव्यादीनि प्रत्येकमाढकं तदर्धं यथालाभं वा सङ्गृह्य, शेषं जलेन पूरयेत्।
जलपिष्टचन्दनादिगन्धद्रव्ययुतं गन्धोदकं माषयवसर्षपव्रीहितण्डुलैर्युक्तं जलम् अक्षतोदकं, कदलीपूगपनसनालिकेरमातुलुङ्गाद्यैः फलैर्यथालाभैर्युक्तं फलोदकं, चन्दनाद्यमष्टांशादहीनं प्रक्षिपेत्। कुशैस्सहितं कुशोदकं, नवरत्नैः पञ्चरत्नैर्वाऽलाभे सुवर्णेन वा संयुक्तं रत्नोदकम्, अतोदेवादिभिः षड्भिर्मन्त्रैः प्रणवशतेनाभिमन्त्रितं जप्योदकं, ओषधयः फलपाकान्ताः सर्वैः त्रिभिरधिकैर्वा संयुक्तं सर्वौषध्युदकम्, एतद्द्वादशप्राधानद्रव्यसमीपे शुद्धोदकपूर्णान् कलशान् उपस्नानान् बिल्वपत्रकरवीरनन्द्यावर्तपद्मकुमुदानि पुण्यपुष्पाणि जातीफलकर्पूरोशीरमसूरदमनकमुद्गचणकानां चूर्णम्, अश्वत्थवटमधूकखदिरवञ्जुलाऽ- [[२४३]] सनानां त्वक्चूर्णकषायम्, नदीतटाककूपपल्वलेषु तीर्थोदकानि सिंहिनकुलव्याघ्रनन्दादित्यसाहयपाठ सहदेवीनां दूर्वावनौषधि हरिद्राणां चूर्णं सुवर्णं च षड्भागतण्डुलयुतहरेणु स्थैणेयक पत्राऽगरुश्यामाककचोर चैरु वालमांसिचन्दनैलालवङ्गकर्पूरोशीरस्थिरानारदसावनकुस्तुम्बराणां चूर्णं, सर्वगन्धानां चूर्णं, पत्काशाऽपामार्गभूर्जपत्रनन्द्यावर्तकरवीरपद्मकुशपत्राणां मूलगन्धान् जातीहिङ्गुलिकमनःशिलाऽञ्जनगोरोचनधातूंश्च, पुण्यपुष्पाणि नानाद्रव्याणि प्रत्येकं समस्तम् अर्धं यथालाभं वा गृह्णीयात्॥
नवं सूक्ष्ममहतं प्लोतं वस्त्रमुत्तरीयं च सौवर्णाभरणानि मणिमुक्तामयं च यज्ञोपवीतं सौवर्णं तान्तवं वाऽऽहृत्य, स्नानार्थान् सम्भारांश्च सम्भृत्य, आढकपूर्णकलशान् तद्विगुणपूर्णकलशान् तद्विगुणपूर्णकुम्भान् तद्विगुणपूर्णघटान् तत्षड्गुणपूर्णामुदधीनीं, प्रस्थपूर्णांश्चरावान् कलशानां पिधानानि यथोचितानि अन्यानि भाण्डानि खण्डस्पुटितकाळरहितानि नवानि च आहरेत्।
अथ देवालयाऽभिमुखे पश्चिमे चोत्तरे च ऐशान्यां वा, यथोक्तं स्नपनागारं मण्टपं, कूटं वा, प्रपां वा, कृत्वा; सर्वत्र वितानध्वजदर्भमालातरङ्गस्तम्भवेष्टनाद्यैः, द्वारेषु तोरणपूर्णकुम्भाद्यैरलङ्कृत्य; परितः प्रावरणं कृत्वा; अभ्यन्तरं गोमयेनोपलिप्य पिष्टतोययुतेन सूत्रेण पञ्चविंशतिभागं कृत्वा, तन्मध्ये चैकपदे स्नानवेदिं लोहोपलेष्टकादारु मृत्तिकानामन्यतमेन तद्बेरपीठाद्बहिः प्रतिदिक्भागमष्टाङ्गुलं, तालं वा, यथोचिताऽऽयामविस्तारां, समचतुरश्रां, द्विमेखलां, लोहजां षडङ्गुलोत्सेधां; लोहजाद्द्विगुणां शिलां शिलाद्द्विगुणामैष्टकाम्; ऐष्टिकाद्द्विगुणां दारवीं, दारवाद्द्विगुणां मृण्मयीं; लोहजोत्सेधां, पादुकादिकरणैर्युक्तां, वियुक्तां गोमुखे रसाऽङ्गुलाऽऽयतवारिमार्गयुतां, मध्ये गोलकाऽवगाढयुतां; तद्विगुणविस्तारां च कारयति।
तां वेदिं वस्त्रेणाछाद्य; कदल्यादिपत्रैराछाद्य; परितः कुशकूर्चान्विन्यस्य; तां परितोऽष्टौ पदान् शय्यादेशं हित्वा; तद्बहिः षोडशभागेषु प्रागादिचतुर्दिक्षु अष्टचत्वारिंशः पटलः [[२४४]] चत्वारि पदानि द्वारार्थं त्यजेत्। शेषेषु द्वादशभागेषु द्वादशप्रधानद्रव्यन्यासार्थं व्रीहिभिस्तण्डुलैर्वा गोलकोन्नतां, यथालाभोन्नतां वा वेदिं कृत्वा; बहिरिन्द्रादिदेवानां तत्तत्स्थाने द्वादशाङ्गुलविस्तृतानि पीठानि कृत्वा; पश्चिमद्वारवामे पङ्क्तीशस्य, उत्तरद्वारदक्षिणे विष्वक्सेनस्य च, पीठं कृत्वा, वेद्योपरिष्ठादीशानान्तं जयादीनर्चयेत्।
धान्यवेदिं गायत्र्या प्रोक्ष्य; ’सुमित्रान’ (तै॰आ॰४) इति पङ्क्तिस्थलमुल्लिख्य; ’हिरण्यपाणि’मिति प्रागग्रानुत्तराग्रान्वा दर्भानास्तीर्य; कलशानाहृत्य; त्रिगुणैकेन वा सूत्रेण यवान्तरमङ्गुल्यन्तरं वा, परिवेष्ट्य; अद्भिः प्रक्षाल्य; ’धारास्वि’त्युदकं गृहीत्वा ’इदमापःशिवा’ इत्युत्पवनं कुर्यात् रात्रौ चेदग्निसन्निधौ जलं गृह्णीयात्।
नवविधस्नपनम्
एकैकप्रधाना एकैकोपस्नानाश्चेति चतुर्विंशतिकलशैः स्नपनमधमाधमम्।
एतद्वारिप्रचर्णसहितमित्येके। एकैकप्रधाना, त्रिस्त्रिरुपस्नानाश्चेत्यष्टचत्वारिंशत्कलशैः प्राक्करणैरनुकरणैश्च सहितम् अधममध्यमम्।
द्विद्विप्रधानाः सप्तसप्तोपस्नानाश्चेति प्राक्करणैरनुकरणैस्सामान्यद्रवैश्च संयुक्तमष्टोत्तरशतकलशैः स्नपनमधमोत्तमम्। एकैकप्रधानाष्टोपस्नानाश्चेति केचित्। शताष्टद्विगुणं मध्यमाधमम्, त्रिगुणं मध्यममध्यमं; चतुर्गुणं मध्यमोत्तमम्। पञ्चगुणमुत्तमाधमं; षड्गुणमुत्तममध्यमं, सप्तगुणमुत्तमोत्तमम्।
चत्वारिंशद्वयाधिकसहस्रकलशैस्स्नपनमुत्तमोत्तममित्येके।
गन्धोदकैरुपस्नानकलशानापूर्य; सप्तभिः पञ्चभिस्त्रिभिर्वा दर्भैः कूर्चान् कृत्वा; कलशेषु प्रक्षिप्य; पिधानैरपिधाय; सोपस्नानान् द्वादशप्रधानान् द्वादशवस्त्रैरावेष्टयेत्, उत्तमम्।
[[२४५]] अष्टवस्त्रैरावेष्टयेन्मध्यमम्। चतुर्वस्त्रैरावेष्टयेदधमम्। द्रव्याधिदेवान् तत्तत्पार्श्वे चैकादशविग्रहैरष्टविग्रहैर्वाऽर्चचेत्।
’प्रणवादिनमोन्तै’ स्तत्तन्नाममन्त्रैः पूर्वं तोयं, ततः पुष्पं; पश्चात्तोयं च, समर्चयेत्। षट्त्रयोविग्रहाः सर्वत्र सर्वेषामर्चनार्हा इत्येके।
अशक्तौ नवविधस्नपनविधिः अथ विभवहीनादशक्तस्य स्नपनं नवधा भवति। प्रमुखे चतुरश्रामेव पङ्क्तिं कृत्वा; मध्ये पञ्चगव्यं, उत्तरे तस्योपस्नानं, दक्षिणे गन्धोदकं, पूर्वे तस्योपस्नानं, पश्चिमे हरिद्राचूर्णम् एतैः पञ्चभिः कलशैः स्नपनमधमाधमम्॥
मध्ये पञ्चगव्यं, दक्षिणे गन्धोदकं, उत्तरे कुशोदकं, तत्तत्पूर्वे तत्तदुपस्नानं, पश्चिमे हरिद्राचूर्णम्, इत्येतैस्सप्तभिः कलशैः स्नपनमधममध्यमम्॥
पूर्ववत्पञ्चगव्यगन्धोदककुशोदकान्, तदुपस्नानांश्च, विन्यस्य; पश्चिमे अक्षतोदकं, वायव्ये तस्योपस्नानं, र्नैऋते हरिद्राचूर्णम् एतैर्नवभिः कलशैः स्नपनमधमोत्तमम्॥
पूर्ववन्नवकलशान्विन्यस्य पूर्वे जप्योदकं न्यसेत्। एतैर्दशकलशैः मध्यमाधमम्॥
पूर्ववन्नव कलशान्विन्यस्य; पूर्वे मधु, तदुत्तरे तस्योपस्नानं, तद्दक्षिणे जप्योदकं, एतैर्द्वादशभिः कलशैस्स्नपनं मध्यममध्यमम्॥
प्रमुखे दक्षिणोत्तरं दण्डवत्पङ्क्तिं कृत्वा; दक्षिणाद्युत्तरान्तं पञ्चगव्यघृतमधुदधिगन्धोदकाऽक्षतोदककुशोदकान्विन्यस्य; तत्पूर्वे तदुपस्नानं विन्यस्य; एतैः चतुर्दशभिः कलशैः स्नपनं मध्यमोत्तमम्।
एतैस्सह क्षीरं, तदुपस्नानं च, विन्यस्य; एतैष्षोडशभिः कलशैः स्नपनमुत्तममध्यमम्।
अष्टचत्वारिंशः पटलः [[२४६]] एतैस्सह सर्वौषध्युदकं च, तदुपस्नानं च, विन्यस्य; एतैः विंशतिकलशैः स्नपनमुत्तमोत्तममिति विज्ञायते॥
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे स्नपनद्रव्यस्य उत्तमोत्तमादिनवविधिर्नाम अष्टचत्वारिंशः पटलः ॥ ४८ ॥