०४७ शुद्धस्नपनाऽऽग्रयणविधिः

अथ सप्तचत्वारिंशः पटलः

शुद्धस्नपनविधिः

अथ शुद्धस्नपनविधिं वक्ष्ये - नित्यार्चनायां स्नपने चोत्सवे अन्यर्क्षेषु, पुण्यर्क्षेषु च, शुद्धस्नपनं समाचरेत्। स्नपनद्रव्याणि सम्भरति, देवागारं प्रविश्य, देवस्य पादयोः पुष्पाञ्जलिं दत्वा, ’परं रँह’ (वै॰म॰प्र॰८) इति हस्ताभ्यां देवमादाय अलङ्कृते मण्टपे पीठे ’प्रतद्विष्णु’रिति संस्थाप्य, पात्रे परिच्छदादिपरिवृतं राजवदुपचारं कारयित्वा, ’त्रीणिपदा’ इति, ’इन्द्रोऽभिमन्ते’ति देवस्य पादौ प्रक्षाल्य, ’विष्णुर्मां रक्ष’त्विति धौतेन विमृज्य, ’विष्णवे नम’ इति पुष्पाञ्जलिं दत्वा, ’शन्नोदेवी’रित्याचमनं ददाति। अष्टाक्षरेण मुखं पाणी च धौतेन विमृज्य, ’घृतात्परी’ति मुखवासं प्रदाय, विविधैः स्तोत्रैर्नृत्तगेयवाद्यैश्च विनोदं कारयेत्। मुख्यं गौणं च ज्ञात्वा, देवेशं प्रणम्य, वस्त्राभरणगन्धमाल्याभरणादीनि विमोच्य, ’वसोःपवित्र’मित्यनेन वाससाऽऽछाद्य, मुखवासं निवेद्य तत्काले वैष्णवैर्मन्त्रैर्जयशब्दैश्च स्तुत्वा, देवेशं प्रणाम्य, कार्यं विज्ञापयेत्।

पूजकः स्वयमेव श्रावयेत्। तद्वाक्यं विष्णोर्वाक्यमिति स्मृत्वा, सर्वं समाचरेत्। पुनःपुनः मुखवासं निवेद्य, विष्णुगायत्र्या धौतेन वस्त्रेण देवस्य स्कन्धं समाच्छाद्य, अभावे नववस्त्रेण, अतोदेवा’ इत्यलकान्विकीर्य ’इदं विष्णु’रिति अलकशोधनं कृत्वा, तैले सोममभ्यर्च्य, ’त्रीणिपदे’ति तैलं शिरसि संस्राव्य, ’सोमं राजान’मिति मर्दयित्वा, ’विष्णोः कर्माणी’त्यावर्त्याऽऽ- [[२३९]] वर्त्य करोति। अलकान् सम्बध्य, ’तद्विष्णोःपर’ मिति परिमलैः पुष्पमाल्यैरलङ्कृत्य, करौ प्रक्षाल्य, स्कन्धाद्वस्त्रं विमोच्य, ’तद्विप्रास’ इत्यङ्गे अभ्यञ्जनं कृत्वा, तच्छेषं भक्तेभ्यःप्रदद्यात्। ’विष्णोर्नुक’मिति शालिपिष्टेन देवेशं परिमृज्य, ’तदस्य प्रिय’मिति वस्त्रेणार्द्रेण विमृज्य, शकुनसूक्तेन देवमादाय, ’प्रतद्विष्णुस्तपत’ इति स्नानपीठे, देवं संस्थाप्य, पूर्ववत्पादौ प्रक्षाल्य, सौवर्णौस्साधनैश्चूतपत्रसिराभिर्वा ’परोमात्रया, विचक्रम’ इति दन्तधावनं, तालुशोधनं च, भावयति। पूर्ववदाचमनं दद्यात्। एकादश्यां, पर्वणि, नवम्याम्, अष्टम्यां च, वर्जयेत्। तासु कुर्याच्चेत्, राजशत्रु परिपालनं ग्रामयजमानयोर्भयप्रदं भवति। दूर्वाक्षतपुष्पाणि देवस्य मूर्धादिपादपर्यन्तं, ’त्रिदेव’ इति सन्धौ सन्धौ संयोज्य, पादयोः प्रक्षिपेत्। वस्त्रादीनि विमोच्य, ’परिलिखित’मिति आम्लेन संशोध्य, सूक्ष्मसिकताभिः ’विष्णवे नम’ इति यथाबिम्बशुद्धिस्तथा शोधयित्वा ’वारीश्चतस्र’ इति शुद्धोदकैरभिषिच्य, पूर्ववद्धौतेन वस्त्रेणाऽऽछाद्य, पाद्याचमनं दत्वा, कर्पूरादिपरिमलैर्युक्तेन हरिद्रापिण्डेन ’सिनीवाली’ ति देवस्य सर्वाङ्गमालिप्य, पूर्ववच्छुद्धोदकैरभिषेचयेत्।

पुनस्संशोध्य, आचमनं दत्वा, वस्त्रमाल्याद्यैर्विभूष्य, ’नमो वरुणःशुद्ध’ इति क्षीरेण उष्णोदकैर्वा अभिषिच्य, ’भूरानलय’ इति गन्धतोयैः पुनस्संस्नाप्य पूर्ववद्वस्त्रमाल्यादिभिरलङ्कृत्य, ’अग्निं दूत’मिति उपवीतं, ’सोमस्य तनूरसी’ त्युत्तरीयं च, दद्यात्। ’इदं ब्रह्मपुनीमह’ इति देवस्य हस्तयोः पवित्रं, संयोज्य, ’तद्विप्रास’ इति चन्दनेन सर्वाङ्गमालिप्य, पाद्यार्घ्यान्तमभ्यर्च्य, देवेशं प्रणम्य, सहस्रधारामभ्यर्च्य, पूर्ववत्सहस्रधारयाभिषेचयेत्। अलाभे षोडशादिचतुरन्तं यथालाभं कुम्भोदकैः ’वसोः पवित्र’मिति, पुरुषसूक्तेन वा, अभिषेचयेत्। तत्तत्काले चतुर्दिक्षु वेदानध्यापयेत्। स्तोत्रैः जयशब्दैः नृत्तगेयवाद्यैश्च घोषयेत्। पुनः शुद्धोदकैरभिषिच्य, वस्त्रमाल्यादीनि विमोच्य, अङ्गं प्रति ’मित्रस्सुपर्ण इति प्लोतेन विमृज्य, धौतवस्त्रेणाऽऽच्छाद्य, पाद्याचमनं सप्तचत्वारिंशः पटलः [[२४०]] दत्वा, पुष्पाञ्जलिं दत्वा, शकुनसूक्तेन देवमुद्धृत्य, पूर्ववन्मण्टपे पीठे सन्यस्य, वस्त्राभरणगन्धमाल्याद्यैरलङ्कृत्य, पाद्याद्यर्घ्यान्तमभ्यर्च्य, दूर्वाक्षतगन्धपुष्पाण्येकपात्रे सङ्गृह्य देवस्य पुरतः संस्थाप्य, सोममभ्यर्च्य, हस्ताभ्यां गृहीत्वा, विष्णुगायत्र्या मकुटोपरि त्रिःप्रदक्षिणमावर्त्य, पुरतःनिक्षिपेत्।

पश्चाद्रक्षादीपविधानेन रक्षादीपं कारयेत्। तत्काले ’देवस्यत्वे’त्यादर्शं दर्शयित्वा, अष्टाक्षरेण देवस्य छत्रचामरपरिच्छदादीनि योजयित्वा, विनोदमपि कारयेत्।

शकुनसूक्तेन देवमुद्धृत्य, हविर्निवेदनस्थाने भूरसीत्यादिना प्रतिष्ठाप्य आसनाद्यैरुपचारैरभ्यर्च्य, पानीयाचमनमुखवासं दत्वा, देवेशमुद्धृत्य, पूर्ववन्मण्टपे पीठे सन्यस्य, वस्त्रमाल्यादीनि विमोच्य, अन्यैर्वस्त्रमाल्याद्यैरलङ्कृत्य, अपूपादीनि भक्ष्याणि भोज्यानि विविधानि पक्कान्यपक्कानि च विष्णुगायत्र्या अष्टाक्षरेण वा निवेदयेत्। पूर्ववत्पाद्याचमनमुखवासौ दत्वा, यानमारोप्य, आलयं प्रदक्षिणीकृत्य, देवागारं प्रविश्य, पूर्वस्थाने न्यसेत्। अर्चनं चेज्जीवस्थाने प्रतिष्ठाप्यार्चयेत्॥

आग्रयणविधिः

अथ देवेशस्याग्रयणविधिं वक्ष्ये - शुभे मुहूर्ते कर्तुरनुकूले नक्षत्रे शाल्यादीन् व्रीहीन् प्रियङ्ग्वादिधान्यानि वा आहृत्य आलयमलङ्कृत्य, शुचौ देशे सर्वोपदंशान् पयोदधिघृतगुलान् दीपार्थं तैलं च, कदलीचूतपनस नालिकेरपूगफलानि मरीचादीकर्पूर हरिद्राकदलीशाकान् वितत ताम्बूलकदलीपत्राणि, नवानि वस्त्राणि, विविधानि पुष्पाणि च, सङ्गृह्य; आचार्यो यजमानश्च वैष्णवैस्सह; सर्ववाद्यसमायुक्तं सर्वालङ्कारसंयुक्तं, अमितं चक्रं वा पुरस्कृत्य, ग्रामं प्रदक्षिणीकृत्य, आलयं प्रविश्य, अभिमुखे शाल्यादीन् सन्यस्याऽभ्यर्च्य, देवमानम्य, धान्यसङ्ग्रहणं कृत्वा, हविष्पाकोक्तविधिना धान्यानि संशोध्य, अवघातं कृत्वा, संशोध्य, तण्डुलान् द्विस्त्रिश्चतुर्वाद्भिस्सङ्क्षाल्य, नालिकेरगुल- [[२४१]] मरीचजीरकैर्मिश्रीकृत्य, निधाय, पश्चाद्धवींष्यपि बहूनि सर्वोपदंशांश्च पाचयित्वा, देवेशं संस्नाप्य, नववस्त्रपुष्पाद्यैरलङ्कृत्य, आस्थाने अर्चास्थाने वा तं स्थाप्य, अष्टोपचारैरभ्यर्च्य, पात्राणि संशोध्य, अधिदेवमाराध्य, पुनःप्रक्षाल्य, अभिपाच्य तण्डुलान् प्रक्षिप्य, ’देवस्यत्वे’ति घृतेनाभिघार्य, ’अतोदेवादिना अभिमृश्य ’आप्यायता’मिति निवेदयेत्।

आचमनमुखवासं च दत्वा, यथाविधि प्रभूतं हविर्निवेदनं च कृत्वा, नित्याग्निकुण्डे चुल्यां वा वैष्णवं, श्रीभूमिदेवत्यं, तदालयगतपरिषद्देवानां मूर्तिमन्त्रांश्च, हुत्वा, परिषद्देवेभ्यो निवेद्य शक्तश्चेद्बलिदानं कारयित्वा, देवस्य निवेदित तण्डुलान् भक्ताः ब्राह्मणादयः प्राश्नीयुः एवम् आग्रयणं विष्णोर्यः कारयेत् सोऽपि धनधान्यसमृद्धिमाप्नोति इति विज्ञायते॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे शुद्धस्नपनाऽऽग्रयणविधिर्नाम सप्तचत्वारिंशः पटलः ॥ ४७ ॥