अथ षट्चत्वारिंशः पटलः
विशेषपूजाविधानम्
अथ मार्गशीर्षादिमासेषु मासनक्षत्रेषु विष्णुपञ्चदिने विषुवदयने सङ्क्रमणेषु ग्रहणे अन्यस्मिन्पुण्यनक्षत्रे राज्ञः, यजमानस्य वा, जन्मर्क्षेऽपि विशेषपूजां कुर्यात्।
सर्वत्राऽऽलयं मृष्टसिक्तोपलेपनाद्यैस्संशोध्य, पैष्ट्या भूमिमलङ्कृत्य, वितानध्वजदर्भमालास्तम्भवेष्टनाद्यैरलङ्कृत्य, द्वारेषु तोरणकदलीक्रमुकाङ्कुरोदकुम्भाद्यैरलङ्कृत्य, ग्रामवीथिं च संशोध्य, प्रातस्सन्ध्यार्चनान्ते चोत्सवबिम्बमासाद्य, अभ्यर्च्य, निवेद्य, अग्निकुण्डे चुल्यां वा, अग्निं परिषिच्य, आज्यमिश्रचरुणा तत्तिथिवारनक्षत्रदेवत्यं, वैष्णवं, श्रीभूमिदेवत्यं, ब्राह्मं, रौद्रं, तदालयगतपरिषद्देवत्यं, च, हुत्वा, ग्रामवीथ्यां बलिं निर्वाप्य, ऐकाहिकोत्सवोक्तमार्गेण उत्सवं कृत्वा आस्थाने अर्चास्थाने वा, द्रोणद्वयादहीनैस्तण्डुलैर्यथालाभोपदंशैर्युक्तं, हविर्निवेदयेत्, एतदुत्तमम्।
स्नपनोक्त क्रमेणाऽष्टशताऽष्टचत्वारिंशच्चतुर्विंशत् द्वादशकलशैस्संस्नाप्य, अभ्यर्च्य, तथैव हविर्निवेदयेत् मध्यमम्।
[[२३३]] प्रातर्मध्याह्ने वार्चनावसाने देवं शुद्धस्नपनविधानेन संस्नाप्याभ्यर्च्य निवेद्य होमं जुहुयात् एतदधमम्।
मार्गशीर्षद्वादशीपूजा
मार्गशिर शुद्धद्वादशीमुद्दिश्य एकादश्याम् आचार्यो यजमानश्च त्रिषवणस्नानं कृत्वा, आचम्य, सन्ध्यामुपास्य, देवादीनद्भिस्तर्पयित्वा, ब्रह्मयज्ञं च कृत्वा, आलयमाविश्य, प्रदक्षिणं प्रणामं च कृत्वा, देवाभिमुखे समासीनो ध्यायन् अष्टाक्षरमन्त्रं यथोक्तविधिना अन्यामृचं वैष्णवीं यथाकामं जप्त्वा, वेदाध्ययनं च कारयेत्। अथवा वैष्णवीं गाधां (कथां) वा श्रावयेत्।
मध्याह्ने साये च स्नानादीनि कृत्वा, रात्रौ सर्वभोगरहितो देवं ध्यायन्नासीत, शयीत वा, द्वादश्यां प्रभाते स्नात्वा, देवेशस्य महतीं पूजां कृत्वा, गौल्यं हविर्निवेद्य, पानीयाचमनमुखवासं दत्वा, आचार्यो हस्ताभ्यां पुष्पमादाय, ’सहस्रशीर्षमेकाक्षरवैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं च, जप्त्वा; प्रतिमन्त्रं पुष्पाञ्जलिं बहुशो दद्यात्। तथैवार्चकाः परिचारकाश्च दक्षिणपश्चिमोत्तरेषु स्थित्वा, पुष्पाञ्जलिं दद्युः। तत्काले चतुर्दिक्षु वेदानध्यापयेत्। यजमानो नृत्तगेयवाद्यैर्विनोदं कारयित्वा, स्तोत्रैर्जयशब्दैश्च, संस्तूय आचार्याय दक्षिणां दत्वा, वैष्णवान् सम्पूज्य अश्नीयात्।
अस्मिन्मासे नित्यं गौल्यं हविर्निवेदयेदिति केचित्। एतेन संवत्सरे यत् न्यूनं तत्सर्वं पूर्णं स्यात्। संवत्सरार्चनफलं लभेत्।
पौषमासपूजा
पौषेमासे पुण्यनक्षत्रे क्षीरं गव्यं देवेशाय निवेदयेत्। सोऽपि संवत्सरफलं लभेत्।
तस्मिन्मासे ऋक्षपर्वणि देवेशस्योत्सवस्नपनादीनि कारयेत्।
षट्चत्वारिंशः पटलः [[२३४]]
माघमासपूजा
माघमासे देवाय अगरुकोष्टाद्यैर्धूपं दद्यात्। सोऽपि संवत्सरं धूपदानफलं लभेत्।
पुनर्वसुपूजा
अस्मिन्मासे पुनर्वसौ राघवस्योत्सवं, स्नपनादीनि कारयेत् तदर्थं पूर्ववदङ्कुरार्पणं कृत्वा, पूर्वरात्रौ प्रतिसरोत्सवं कारयित्वा, सौवर्णं, राजतं, ताम्रं, वा प्रतिसरं कृत्वा, सौवर्णे राजते ताम्रे कांस्ये वा पात्रे शालितण्डुलानि प्रक्षिप्य, नववस्त्रेणाछाद्य, उपरि प्रतिसरं सन्यस्य, तस्मिन् शेषमभ्यर्च्य, शान्तं, गरुडं, हनमन्तं वा, अलङ्कृत्य यानमारोप्य, सर्वालङ्कारैर्नृत्तगेयवाद्यैर्धूपदीपैश्च, संयुक्तं, ग्राममालयं वा प्रदक्षिणीकृत्य, शयनस्थाने पञ्चशयनानि वासांसि वा आस्तीर्य, देवमारोप्य, अभ्यर्च्य, पुण्याहान्ते पूर्ववत्प्रतिसरं बध्वा, शाययेत्। देवेन सह देवीं शाययेत्। लक्ष्मणभरतादीन् पृथगेव शाययेत्। प्रभाते स्नात्वा देवमुत्थाप्य, अलङ्कृत्य, ग्राममालयं सर्वालङ्कारसंयुक्तं, प्रदक्षिणं कृत्वा, आस्थानमण्टपे संस्थाप्य, स्नपनोक्तविधिना देवेशस्य, देव्याश्च, भरतादीनां, पृथगेव स्नपनं कुर्यात्। अथवा देवेशस्य स्नपनं कृत्वा, अन्यांश्च शुद्धोदकैरभिषेचयेत्। अथवा सर्वान् शुद्धस्नपनविधिना संस्नापयेत्। नृत्तगेयवाद्यैर्विनोदं कारयेत्। महाहविः, प्रभूतं वा, निवेद्याऽपूपादीनि पक्त्वा पक्वभक्ष्याणि निवेद्याऽलङ्कृत्य, प्रदक्षिणीकृत्य, अर्चास्थाने न्यसेत्। एवमुत्सवं कुर्यात्। सोऽपि महोत्सवफलं लभेत। राज्ञो विजयो, बलवृद्धिश्च, ग्रामस्य च समृद्धिर्भवति॥
फाल्गुनमासपूजा
फाल्गुने मासि चन्दनादीन्, गन्धान्नित्यं यो दद्यात् स संवत्सरगन्धदानफलं लब्ध्वा, सर्वैश्वर्यमाप्नोति॥
[[२३५]] फाल्गुने उत्तरफल्गुन्यां लक्ष्मीपूजा तस्मिन्मासे चोत्तरफल्गुन्यां लक्ष्मीः प्रादुर्भूता तस्यां देवीभ्यां सह देवेशं सप्तविंशतिभेदैरभ्यर्च्य उत्सवस्नपनादीनि कृत्वा, प्रभूतं हविर्निवेदयेत्।
अशक्तश्चेत् शुध्दोदकैरभिषिच्य यथाशक्ति हविर्निवेदयेत्॥
चैत्रमासपूजा
चैत्रमासे सुगन्धपुष्पैर्देवेशमलङ्कृत्य, संवत्सरपुष्पदानफलं लभेत्। तस्मिन् मासे चैत्र्यां पौर्णमास्यां देवेशं द्वात्रिंशद्विग्रहैरभ्यर्च्य, उत्सवस्नपनं च कृत्वा, प्रभूतं हविर्निवेद्य, कदल्याम्रपनसादीनि सुपक्वानि बहूनि निवेद्य, सुगन्धपुष्पैर्देवेशमलङ्कृत्य, पुष्पदामभिः प्रपामलङ्कृत्य, तस्यां देवेशं संस्नाप्य, नृत्तगेयवाद्यैर्विनोदं कारयत्। देवाभिमुखे धान्यपीठयोर्मधुमाधवौ समावाह्याऽर्चयेत्।
वसन्तकालावधिर्यावत् तावन्नित्यमेवं कुर्यात्।
वैशाखमासपूजा
वैशाखे मासि प्रभाते नवघटे स्वच्छं स्वादुतोयं सङ्गृह्य, उत्पूय, आदित्यरश्मौ चन्द्रकिरणे च, निधाय, द्वितीयेऽहनि सुगन्धवासिते नवेऽघटे सम्पूर्य, चन्दनोशीरैलादिवासितं वायुशीतं नवे करके सम्पूर्य, देवेशाय यो दद्यात् स संवत्सरपानीयदानफलं लभेत॥
रेवतीनक्षत्रे महीदेवीसहितदेवपूजा तस्मिन्मासि रेवत्यां महीदेवी प्रादुर्भूता, तस्यां देवीभ्यां सह देवेशं सप्तविंशतिदिनैरभ्यर्च्य, उत्सवस्नपनादीनि कृत्वा, प्रभूतं हविर्निवेदयेत्।
विशाखायां पूजा विशाखानक्षत्रेदेवं विशेषतोऽभ्यर्च्य, आम्रफलानि बहूनि पयसा सह पाचयित्वा, प्रनिवेद्य, प्रभूतं हविर्निवेदयेदित्येके॥
षट्चत्वारिंशः पटलः [[२३६]]
ज्येष्ठमासपूजा
ज्येष्ठमासि स्नानतोयम् अमृतवत् क्षौमं, सूक्ष्मं कार्पासतन्तुकृतं वा वस्त्रं, देवेशाय यो दद्यात्, सोऽप्येकहायनस्नानतोयदानफलं वस्त्रदानफलं च लब्ध्वा, चिरायुर्भवति॥
आषाढमासपूजा
आषाढे मासि विधिना अर्घ्यद्रव्याणि संयोज्य, यो दद्यात्; स संवत्सराऽर्घ्यदानफलं लभेत्॥
श्रावणमासपूजा
अथ श्रावणे घृतदधि च निवेद्य, स संवत्सर निवेदनफलं लभेत्।
तस्मिन्मासे कृष्णाष्टमी रोहिणीयुक्ता, वियुक्ता वा, जयन्तीति कीर्त्यते।
तस्यां कृष्णार्चनं कुर्यात्। अङ्कुरार्पणं कृत्वा, तद्रात्रावर्चनावसाने कृष्णमलङ्कृत्य, आस्थानमण्टपे संस्थाप्य, परितः प्रावरणं कृत्वा, नृत्तगेयवाद्यैर्विनोदं कारयित्वा, स्तोत्रैर्जयशब्दैश्च संस्तूय, (स्तुत्य) पटमुद्धृत्य, पुष्पाण्यवकीर्य, वस्त्रमाल्यादीनि, विमोच्य, धौतवस्त्रेणाऽऽछाद्य, पाद्याद्यैरभ्यर्च्य, तैलाभ्यञ्जनं कृत्वा, शुद्धस्नपनविधिना संस्नाप्य, गोक्षीरं नवनीतं च, ’शन्नोदेवी’रिति निवेद्य, ताम्बूलं प्रदाय, पुष्पाञ्जलिं दद्यात्।
निवेदितं क्षीरम् अप्रजाःस्त्रियःपिबन्ति, ताः पुत्रवत्यो भवेयुः। तस्मिन् काले पूर्ववत्प्रतिसरं बध्वा, शयने पञ्चशयनानि वासांसि वाऽऽस्तीर्य, प्रतिसरं बध्वा, (देवं) शाययीत प्रभाते स्नात्वा, देवमुत्थाप्य, अष्टोपचारैरभ्यर्च्य, अलङ्कृत्य, उत्सवोक्तक्रमेण ग्राममालयं वा प्रदक्षिणं कारयेत्।
उत्सवे देवेशं ये सेवन्ते, तेषां भक्तानां ब्राह्मणानां शिरस्सु हरिद्रा चूर्णं, तैलं च विनिक्षिपेत्॥ आलयमाविश्य, आस्थानमण्टपे संस्थाप्य, स्नपनोक्त [[२३७]] विधिना शुद्धस्नपनविधिना वा, स्नापयेत्। महाहविः प्रभूतं वा निवेद्याऽलङ्कृत्य, आलयं प्रदक्षिणीकृत्याऽर्चास्थाने संस्थापयेत्। एतेन उत्सवेन सर्वप्रजावृद्धिः, विजयः, कीर्तिश्च, भवति। इष्टान् कामानवाप्नोति। विष्णुलोके महीयते॥
प्रोष्ठपदपूजा
प्रोष्ठपदे मासि अपूपादीनि भक्ष्याणि यो निवेदयति स संवत्सरनिवेदनफलं लभेत्॥
आश्वयुजमासपूजा
आश्वयुजिमासि नित्यं मुखवासं यो दद्यात् स संवत्सरमुखवासदानफलं लभेत॥
कार्तिकमासपूजा
कार्तिके मासि देवेशस्य यो दीपं दद्यात् संवत्सरदीपदानफलं लभेत॥
कृत्तिकादीपोत्सवः
ततः तस्मिन्मासे कृत्तिकानक्षत्रयुक्ते वियुक्ते वा पर्वणि दीपं कुर्यात्।
देवालयं संशोध्य, पैष्ट्याभूमिमलङ्कृत्य, देवं विशेषतोऽभ्यर्च्य, उत्सवस्नपनादीनि पूर्ववत्कारयेत्। सायाह्ने बहुदीपार्थं घृतं तैलं वाऽऽहृत्य अस्तङ्गतेऽर्के देवस्योभयोः पार्श्वयोः गव्यं घृतमादाय, कर्पूरवर्तिकायुक्तान् दीपानुद्दीप्य, तथा मुखमण्टपे तद्द्वारे च दीपमालां कारयेत्, प्रथमावरणे द्वितीये तृतीये चतुर्दिक्षु, विदिक्षु च, दीपकूटान् कृत्वा, दीपानुद्दीप्य, दीपपात्रे महादीपम् उज्वाल्य, अधिदेवमाराध्य पश्चिमे दीपमण्टपे संस्थाप्य, ’शुभ्राज्योति, (वै॰म॰प्र॰८) रिति दण्डाग्रे दीपं सन्न्यसेत्। देवं चित्रकक्ष्याद्यैरलङ्कृत्य, अर्चावसाने अपूपानि पृथुकानि बहूनि निवेद्य, अन्यानि भक्ष्याणि निवेद्य, गुळेन मिश्रितानि देवेशाय निवेद्य, महाहविः प्रभूतं वा निवेदयेत्। एवं यः षट्चत्वारिंशः पटलः [[२३८]] कुरुते स कीर्तिं श्रियं विजयान् इष्टान् कामाँश्चाऽवाप्य, विष्णोर्लोके महीयते इत्याह मरीचिः॥
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे मासविशेषपूजाविधिर्नाम षट्चत्वारिंशः पटलः ॥ ४६ ॥