अथ पञ्चचत्वारिंशः पटलः
एकबेरार्चनाविधिः
अथैकबेरार्चनविधिं वक्ष्ये - प्रभाते स्नात्वा, आलयप्रदक्षिणं प्रणामं च कृत्वा, ’निरस्त’मिति कवाटमुद्घाट्य, दीपानुद्दीप्य, शिष्येण ’धारास्वि’- त्युदकं गृहीत्वा, देवस्य निर्माल्यमादाय, विष्वक्सेनं समाराध्य, गर्भालयादिषु सर्वत्र सम्मार्जनं कृत्वा, अद्भिरभ्युक्ष्य, उपलिप्य, अर्चना पात्राणि हविः पात्राणि च प्रक्षाल्य, हवींषि पाचयित्वा, पुष्पगन्धाद्यर्चनद्रव्याणि सङ्गृह्य, ’प्रतद्विष्णु’रिति देवस्य पुष्पासनं दत्वा, ’विश्वाधिकाना’मिति स्वागतं, ’मनोऽभिमन्ते’त्यनुमानं, ’त्रीणिपदे’ति पाद्यं, ’शन्नोदेवी’रित्याचमनं दत्वा, अतोदेवादिना तैलाभ्यञ्जनं कृत्वा, ’परिलिखित’मिति आम्लादिना संशोध्य, ’वारीश्चतस्र’ इति वारिणा (सं) स्नापयेत्। ’इषेत्वा, यज्ञस्य, शुन्दध्व’मिति त्रिभिस्त्रिरभिषेचयेत्। सहस्रधारा यदि स्यात् वस्त्रमाल्यादिना गन्धाद्यैरलङ्कृत्य, पाद्यार्घ्यान्तमभ्यर्च्य, सहस्रधारयाभिषेचयेत्, ’मित्रस्सुपर्ण’ इति प्लोतेन विमृज्य, ’विष्णोर्नुक’मिति वस्त्राद्यैरलङ्कृत्य, तथैवाचमनं दत्वा, देवस्य पादयोर्मध्ये ’विष्णवे नम’ इति पुष्पं दद्यात्। प्रागादिचतुर्दिक्षु पुरुषाद्यावरणत्रयदेवानां तत्तन्नाम्ना प्रणवादिनमोऽन्तेन पुष्पन्यासं करोति। गर्भालयगतान् देवान् धात्रादीन् द्वारदेवान् द्वारपालान् अन्यपरिषदश्च तत्तन्नाममन्त्रेणाऽभ्यर्च्य, अभ्यन्तरं प्रविश्य, देवं प्रणम्य, ’तद्विष्णो’रिति पुष्पं, ’तद्विप्रास’ इति गन्धं, ’परोमात्रये’ति धूपं, ’विष्णोःकर्माणी’ति दीपं, ’त्रिर्देव’ इत्यर्घ्यं, तथाऽऽचमनं दत्वा, ’तदस्यप्रिय’मिति हविर्निवेद्य, द्वारपालादिभ्यो बलिं निर्वाप्य, होमं हुत्वा, पूर्ववत्पानीयाचमनमुखवासान् दत्वा, विधिना बलिमाराध्य, बलिबेरेण सहैव आलयं प्रदक्षिणं कृत्वा, अष्टाक्षरमन्त्रेण पुष्पाञ्जलिं दद्यात्।
आवाहनविसर्गौ विना अन्यत्सर्वं समानमिति विज्ञायते।
पञ्चचत्वारिंशः पटलः [[२३०]]
नवविधार्चनम्
अथ नवविधार्चनाविधिं वक्ष्ये देवस्य हविर्द्रोणं, देव्योस्तदर्धं, पुरुषादीनां चतुर्णां द्रोणार्धं तद्देवीनां तदर्धं, नरनारायणनारसिंहवराहाणां र्द्रोणार्धम्, अनन्तशयनस्य द्रोणं, तदर्धं वा, उत्सवस्य द्रोणार्धं, तद्देव्योस्तदर्धं, स्नपनबलिबेरयोर्द्रोणं, तदर्धं वा, अवताराणां द्रोणार्धं, तदर्धं वा, पूजकमुन्योर्ब्रह्मेशानयोर्वीशशैषिकयोश्च आढकम्, अन्येषां परिवाराणां होमस्य चाऽऽढकार्धम्, देवेशस्य देव्योश्च प्रातर्मौद्गिकं, मध्याह्ने गौल्यं, रात्रौ पायसम्, अर्धयामे चाऽऽढकद्वयं हविरपूपसंयुक्त, त्रिकालमाढकद्वयं, मन्त्र हविः, कर्पूरसहितताम्बूलं, नित्याऽग्निकुण्डेऽमूर्ताराधनं, त्रिकालमन्नबलियुक्त, कर्पूरसहितान्, षोडशाजस्रदीपान्, त्रिगुणान् सन्ध्यादीपान्, प्रातर्मध्याह्नयोर्द्विशतं, रात्रौ पञ्चशतं श्रद्धादीपान् कर्पूरागरुसहितं धूपं, जातीचम्पकोत्पलादिसुगन्धिपुष्याढ्य, द्वात्रिंशद्विग्रहैरर्चनं, देवगणिकाभिर्देवदासीभिर्भक्तैश्च (कृत) नृत्तगेयसंयुक्तं, नर्तकगायकवांशिकमौरजदार्दविकाद्यैस्संयुक्तं, प्रातः प्रबोधनघोषयुतं, स्नानकाले हविर्दाने बलिदान पटोद्धरणे बलिभ्रमणे च काले शङ्खभेर्यादिघोषणं नाडिकाभेरीताडनं, सप्तप्राकारसंयुक्तं, सर्वपरिषद्देवतार्चनमुत्तमोत्तमम्॥
इन्द्रादिलोकपालानाम्, अन्येषां परिवाराणां हविर्निवेदनं, विना बलिदान, द्विसप्ताजस्रदीपान् तत् त्रिगुणान्सन्ध्यादीपान्, प्रातर्मध्याह्नयोःशतपञ्चाशत्, रात्रौ चतुःशतं श्रद्धादीपान्, पूजावेलायां मन्त्रहविर्निवेदनं, द्विकालहोमं द्विकालान्नबलियुक्तं षट्प्राकारस्थ देवार्चनं पूर्ववन्नृत्तगेयवाद्ययुक्तमुत्तममध्यम्।
पूजकमुन्योर्वीशशैषिकयोश्च हविर्विना द्वादशाजस्रदीपान् तत्त्रिगुणान् सन्ध्यादीपान् पूजावेलानिवेदनं, द्विकालहोमं, तथैवाऽन्नबलियुक्तं, पञ्चप्राकारस्थ देवार्चनं, पूर्ववन्नृत्तगेयवाद्यैर्युक्तमुत्तमाधमम्।
[[२३१]] पूजकमुन्योरवताराणां च द्विकालनिवेदनं, द्विपञ्चाजस्रदीपान्, तत्त्रिगुणान् सन्ध्यादीपान्, प्रातर्मध्याह्नयोश्शतं, रात्रौ त्रिशतं, सन्ध्यादीपान्, देवदासीभिर्भक्तैश्च (कृत) नृत्तगेयवाद्यसंयुक्तं, प्रातर्होमं, मध्याह्ने अन्नबलियुतं, पञ्चप्राकारस्थ देवार्चनं मध्यमोत्तमम्।
अवताराणामेककालनिवेदनं, स्नापनोत्सवबलिबेराणाम्, आढकहविर्निवेदनम्, अष्टावजस्रदीपान्, तत्त्रिगुणान् सन्ध्यादीपान्, प्रातर्मध्याह्नयोरशीतिं, रात्रौ द्विशतं, श्रद्धादीपान्, चतुष्प्राकारस्थ देवार्चनं नृत्तगेयवाद्यैर्युक्तं मध्यममध्यमम्।
यथालाभं मौद्गिकगौल्यपायसाऽपूपानां निवेदनं, षडजस्रदीपान्, तत्त्रिगुणान्, सन्ध्यादीपान्, प्रातर्मध्याह्नयोष्षष्ठिं, रात्रौ शतपञ्चाशत् श्रद्धादीपान्, अन्यत्सर्वं पूर्ववन्मध्यमाधमम्।
देवेशस्य द्रोणार्धं हविः अर्धयामे चाऽढकं देवस्यार्र्धं देव्योः स्नापनोत्सवबलिबेराणाम् एककालनिवेदनं, सायं प्रातः पूजावेलानिवेदनं, चतुरोऽजस्रदीपान्, तत्त्रिगुणान् सन्ध्यादीपान्, प्रातर्मध्याह्नयोश्चत्वारिंशत्, रात्रौ शतं, श्रद्धादीपान्; त्रिप्राकारस्थ देवार्चनं, नृत्तगेयवाद्यैर्युक्तम्, अधमोत्तमम्।
देवेशस्याऽऽढकं हविः, देव्योस्तदर्धं, त्रिकालं द्विकालं वा; स्नापनोत्सवबलिबेराणामेककालनिवेदनम् एककाले पूजावेलानिवेदनं, गौल्यादीनि विना मध्याह्ने अन्नबलिहोमौ द्वावजस्रदीपौ तत्त्रिगुणान् सन्ध्यादीपान् प्रातर्मध्याह्नयोर्दश, रात्रौ विंशतिश्रद्धादीपान् नृत्तगेयविहीनं वाद्ययुतं, द्विप्राकारस्थ देवार्चनम्, अधममध्यमम्।
देवेशस्य द्विकालमेककालं वा, आढकं हविः, तदर्धं मध्याह्ने देव्योर्यथालाभं व्यञ्जनैर्युक्तं, एकमजस्रदीपं, तद्द्विगुणान् सन्ध्यादीपान् यथालाभं श्रद्धादीपान् अन्यत्सर्वं विनैकप्राकारस्थ देवार्चनम्, अधमाधममाहुः।
पञ्चचत्वारिंशः पटलः [[२३२]] उत्कृष्टे चोत्कृष्टं कर्तव्यम्, अन्यथा महत्तरो दोषो भवति, एकस्मिन्नालये देवेशादिदेवानाम् एकाहस्योक्तकाले नित्यं हविरर्थं तण्डुलम् एककालस्य दशभारं, यथाभारोपदंशैर्युक्तमुत्तमोत्तमम्। तथाऽष्टभारमुत्तममध्यमम्, सप्तभारमुत्तमाधमम्, षड्भारं मध्यमोत्तमम्, पञ्चभारं मध्यममध्यमम्, चतुर्भारं मध्यमाधमम्, त्रिभारमधमोत्तमम्, द्विभारमधममध्यमम्, तथैकभारमधमाधममित्येके।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे नवविधार्चनाविधिर्नाम पञ्चचत्वारिंशः पटलः ॥ ४५ ॥