अथ चतुश्चत्वारिंशः पटलः
नवषट्पञ्चमूर्त्यर्चना
अथ नवषट्पञ्चमूर्त्यर्चनाविशेषं वक्ष्ये - अर्चकाः स्नात्वा, आलयमाविश्य, पूर्ववत् कवाटोद्घाटनादीनि कुर्यात् द्वितीयतले विष्णुं पूर्ववदभ्यर्च्य, अधस्तले प्राच्यां पुरुषं पूर्ववत्, तद्दक्षिणे ’श्रियं कमलामानन्दां पुरुषप्रिया’मिति श्रियं, वामे ’मेदिनीं धरणीम् उर्वीं सर्वाधारा’मिति मेदिनीं, पूर्ववदर्चयेत्।
ब्रह्मेशौ च, ’भृगुं मुनिवरं शुद्धम् अग्निवर्णम्’ इति भृगुं, ’पुराणं भक्तिमन्तं भार्गवं चिरञ्जीविन’मिति पुराणं, प्रथमद्वारदक्षिणे तुहिणं, वामे बलिं, द्वितीयद्वारदक्षिणे तीर्थं, वामे किष्किन्धं च, पूर्ववदर्चयेत्।
दक्षिणे सत्यं पूर्ववत् तद्दक्षिणे ’धृतिं दक्षसुतां सत्यपत्नीं रमा’मिति धृतिं, वामे पौष्णीं वरदामुर्वीं पृथिवी’मिति पौष्णीं, ब्रह्मेशौ ’धातृनाथं [[२२३]] पूतकायं ब्रह्मसम्भवं वाग्देवीपति’मिति धातृनाथं, ’पुण्यं विशुद्धं विश्वं वरिष्ट’मिति पुण्यं च, प्रथमद्वारदक्षिणे शङ्खनिधिं, वामे पद्मनिधिं, द्वितीयद्वारदक्षिणे ’नासत्यं दिव्यं विवस्वत्पुत्रम् अश्विन’मिति नासत्यं, वामे ’दस्रं पुत्रं सर्वज्ञं देवसुन्दर’मिति दस्रं च पूर्ववदर्चयेत्।
पश्चिमे अच्युतं पूर्ववत् दक्षिणे ’पवित्रीम् इन्दिरां लक्ष्मीम् अच्युतप्रियामिति पवित्रीं, वामे ’क्षौणीं वराङ्गीं वरदां मही’मिति क्षौणीं, ब्रह्मशङ्करौ, ’भृगुं तपोनिधिं वेदरूपं महाव्र (तद्युति) प्रदम्’ इति भुगुं, ’मार्कण्डेयं गुरुं दीप्तं पुण्यभागिन’ मिति मार्कण्डेयं, प्रथमद्वारदक्षिणे चक्रचूलिनं, वामे शङ्खचूलिनं, द्वितीयद्वारदक्षिणे कु(गु)हं, वामे जाम्बवञ्च पूर्ववदर्चयेत्।
उत्तरे अनिरुद्धं पूर्ववत्, नागराजं ब्रह्मेशौ भृगुमार्कण्डेयौ च पूर्ववत्।
प्रथमद्वारदक्षिणे शङ्खनिधिं, वामे पद्मनिधिं, पूर्ववद्वितीयद्वारक्षिणे ’विद्युतं निभम् अरुणानुजङ्घोररूपिण’मिति विद्युतं वामे ’अप्सरसोऽधिपं शुद्धं श्वेताभं भयानक’मिति अप्सरोऽधिपं च पूर्ववदर्चयेत्।
द्वितीयतले दक्षिणे ’नरं पार्थं गुडाकेशं श्वेतवाहन’ मिति नरं, ’नारायणं कृष्णशौरिं भक्तवत्सल’ मिति नारायणम्, आदित्यं पूर्ववत्, ’प्रजापतिं पितामहं हेमवर्णम्, अजाननमिति प्रजापतिम्।
पश्चिमे नारसिंहं ब्रह्माणं शङ्करं च पूर्ववत्।
उत्तरे वाराहं पूर्ववत्, ’महीं गां पृथिवीमुर्वी’ मिति महीम् इन्द्रं वरुणं पूर्ववत्।
तृतीयतले ’शयनम् अनादिनिधनम् अनन्तं महिमानम् अत्यन्ताद्भुतम्’ इत्यनन्तशयनं, पूजकस्थाने महीमार्कण्डेयौ च पूर्ववत् - नाभिपद्मे ब्रह्माणं पञ्चायुधाँश्च पूर्ववत्, दक्षिणे कर्किणं, वामे सिद्धिं च, प्रथमद्वारदक्षिणे चतुश्चत्वारिंशः पटलः [[२२४]] यमुनां, वामे गङ्गां, द्वितीयद्वारदक्षिणे सुरं, वामे सुन्दरं च, पूववदर्चयेत्, अन्यत्सर्वं समानम्।
षण्मूर्तिविधानं चेन्नरनारायणनारसिंहवाराहान् विना अन्यत्सर्वं पूर्ववदर्चयेत्।
पञ्चमूर्तिविधानं विष्ण्वादि पञ्चमूर्तीः पूर्ववदर्चयेत्। अत्र विशेषो वक्ष्यते पुष्पन्यासकाले विष्णोरादिमूर्तेः पादमध्ये ’विष्णवे नम’ इति, परितः प्रागादिचतुर्दिक्षु ’विष्णवे महाविष्णवे सदाविष्णवे व्यापिन’ इति च न्यसेत्, अथवा विष्णवादिपञ्चमूर्तिनामभिर्न्यसेत्।
आग्नेयादिकोणेषु पूर्ववत्कपिलादिनामभिर्न्यसेत्, एवं प्रथमावरणे अन्ययोः पूर्ववत्, अन्येषां ध्रुवाणां पादमध्ये तत्तत्प्रधानमूर्तिनाम्ना सन्यसेत्, परितः चतुर्दिक्षु तत्तन्नामभिर्न्यसेत्, नारायणस्य परितश्चाऽऽवरणत्रयदेवानां नामभिर्न्यसेत्, नरस्य तन्नामभिर्न्यसेत्, आवाहने तद्ध्रुवबेरात्तत्तत्कौतुकादिषु समावाहयेत्, अर्चने तत्तन्मन्त्रान्ते तत्तन्मूर्तिभिस्तत्तद्द्रव्यनामभिस्संयोज्य, अर्चयेत्।
अशक्तविषये कर्तव्यम् अशक्तानामेकतलप्रासादे, द्वितले वा, विमाने षण्मूर्त्यर्चनं चेत्, आदिमूर्तेर्ध्रुवबेरं परितश्चाऽऽवरणत्रयं ध्रुवबेरदेवानां नामभिः पुष्पन्यासं कृत्वा, कौतुके पूर्ववत् कौतुकोक्तप्रकारेण पुष्पन्यासं कृत्वा, पुरुषादीनां चतुर्णां कौतुकादीनां पूर्ववत् कौतुकोक्तप्रकारेण पुष्पन्यासं कृत्वा, आदिमूर्तेर्ध्रुवबेरादावाह्यार्चयेत्।
अनन्तशयनस्य कौतुके, ध्रुवबेरस्य आवरणत्रयदेवानां कौतुकस्यावरणत्रयदेवानां च नामभिः पुष्पन्यासं कृत्वा, आवाहनविसर्गौ विना एकबेरार्चनोक्त- [[२२५]] विधानेन अर्चयेत्। पुरुषादीनप्यावाहनविसर्गौ विना एकबेरार्चनोक्तमार्गेणाऽर्चयेदिति केचित्। पञ्चमूर्तिविधानं चेदुपरितलकौतुकं विना विष्ण्वादिपञ्चमूर्तीः पूर्ववदर्चयेत्।
पञ्चमूर्त्यर्चनाविधिः
पञ्चमूर्त्यर्चनाविशेषं वक्ष्ये - अर्चकाः परिचारकाश्च विधिना स्नात्वा आचम्य सन्ध्यामुपास्य, देवादीनद्भिस्तर्पयित्वा, ब्रह्मयज्ञं च कृत्वा, देवालयं गत्वा, ’विष्णोर्नुक’मिति शनैः प्रदक्षिणं कृत्वा, देवालयं गत्वा, ’हिरण्यपाणि’- मिति कवाटमुद्घाट्य अभ्यन्तरं प्रविश्य, देवं प्रणम्य, दीपान् सन्दीप्य, शिष्या ’धारा’ स्वित्याधावं गृह्णीयुः अर्चकाः सर्वासां मूर्ती््नां निर्माल्यमादाय, विष्वक्सेनमर्चयेयुः।
गर्भालयं, पुरुषादीनां स्थानानि अलीन्द्रं च प्रदक्षिणक्रमेण ’अवधूतमिति सम्मार्जनं कृत्वा, अद्भिरभ्युक्ष्य, उपलेपनं कृत्वा, अर्चनापात्रं हविःपात्राणि च प्रक्षाल्य, विधिना शुद्धान्नपायसकृसरगौल्ययावकान्, सर्वालाभे यथालाभं शुद्धान्नं वा पचेयुः, अर्चनाद्रव्याणि पृथक्पृथक्सङ्गृह्य विष्णुगायत्र्या ध्रुवस्थानं प्रोक्ष्य, पुष्पन्यासं कृत्वा, श्रीभूमीब्रह्मशङ्करौ धात्रादिब्रह्मपर्यन्तान् परिवारांश्च समभ्यर्च्य, मुखमण्टपद्वारवामे स्नानपीठे विष्ण्वादिपञ्चकौतुकानि क्रमेण संस्थाप्य, पाद्याचमनमुखवासांश्च दत्वा, तैलाभ्यञ्जनम् अन्यदप्युचितं कृत्वा, आम्लाद्यैस्संशोध्य, विष्णुमूर्तिम् ’इषेत्वोर्जेत्वा’दिना शुद्धोदकैस्संस्नाप्य, चन्दनोदकैरभिषिच्य, पुरुषं सहस्रशीर्षाद्यैः, सत्यं विष्णोर्नुकाद्यैः अच्युतं ’अतो देवा’द्यैः अनिरुद्धं ’एकाक्षराद्यै’स्संस्नाप्य, तत्तत् स्थानं संशोध्य, तत्तत्पीठे संस्थापयेत्।
एवं कर्तुमशक्तश्चेत्पुरुषादिकौतुकानि विष्णुपञ्चकदिनेषु एवं संस्नापयेत्, विष्णोरादिमूर्तेः दक्षिणे मार्कण्डेयं, वामे भृगुं च, अभ्यर्च्य, पूर्ववत्पुष्पन्यासं चतुश्चत्वारिंशः पटलः [[२२६]] कुर्यात्, आवाहनपाद्याऽऽचमनस्नानार्थाश्चतस्रः प्रणिधीः सङ्गृह्य साक्षतं कुशकूर्चं वा निक्षिप्य, अद्भिः प्रणवेन पूरयित्वा देवस्य दक्षिणपार्श्वे पूर्ववदासीनः तद्बिम्बार्हस्तिष्ठन्वा आत्मसूक्तं जप्त्वा मन्त्रन्यासाक्षरन्यासौ कृत्वा, प्रणिधिमुद्धृत्य, ध्रुवात्प्रणिधिजले देवं भक्त्या पूर्ववत् ध्यात्वा, आवाह्य तद् व्याप्तं तोयं कूर्चेनाऽऽदाय ’आयातु भगवा’निति कौतुकबिम्बस्य मूर्ध्नि विष्णुमावाहयामी’ त्यावाह्य तथा स्नपनोत्सवबलिबेरेषु समावाह्य - दक्षिणे श्रियं वामे हरिणीं च आवाहयेत्। ’प्रतद्विष्णु’रिति पुष्पासनं दत्वा ’विश्वाऽधिकाना’(वै॰म॰प्र८) मिति स्वागतं, ’मनोऽभिमन्ते (वै॰म॰प्र॰८)ति अनुमानं, ’त्रीणिपदे’ति पाद्यं, ’शन्नोदेवी’ त्याचमनं, ’तद्विष्णो’रिति पुष्पं, ’तद्विप्रासे’ति गन्धं, ’परोमात्रये’ति धूपं, ’विष्णोः कर्मणी’ति दीपं, ’त्रिर्देव’ इत्यर्घ्यं, पूर्ववदाचमनीयम्, ’आपोहिष्ठे’ति स्नातायाऽभ्युक्षणं, ’मित्रस्सुपर्ण’ इति प्लोतं, ’तेजोवत्सव’ इति वस्त्रं, ’भूतोभूतेष्वित्याभरणं, ’सोमस्य तनुरसी’त्युत्तरीयम्, ’अग्निन्दूत’मित्युपवीतं, पूर्ववत्पाद्याऽऽचमनादीनि दत्वा, ’तदस्य प्रिय’मिति शुद्धोदनं निवेद्य, द्वारपालादिभ्यो बलिं निर्वाप्य, होमं हुत्वा, पूर्ववत्पानीयाचमनमुखवासं दद्यात्। एतान् सर्वान् मन्त्रान्ते चतुर्मूर्तिमन्त्रैः पञ्चमूर्तिमन्त्रैर्वा संयोज्य, ददाति, मस्तिष्कप्रणामं कुर्यात्।
पुरुषस्य
अलीन्द्रे द्वारदक्षिणे पुरुषमर्चयेत्। पूर्ववत्पुष्पन्यासं कृत्वा, ब्रह्मशङ्करौ पूजकमुनी द्वारदेवान् द्वारपालाँश्च अभ्यर्च्य, ध्रुवबेराद्देवीभ्यां सहैव आवाह्य, आसनादीन् पूर्ववद्दत्वा, ’योगेयोग’ इत्याचमनम्, ’आपोहिष्ठे’ति स्नानम्, इदमापः ’शिवा’ (’हिरण्यगर्भ’) इत्यर्घ्यं ’इहपुष्टि’मिति कृसरं (पायसं) हविर्निवेद्य प्रह्वाङ्ग (सम्पुट) प्रणामं कुर्यात्। एष विशेषोऽन्यत्सर्वं समानम्॥
[[२२७]]
सत्यस्य
दक्षिणे सत्यमर्चयेत्। पूर्ववत् पुष्पन्यासं कृत्वा, परिषद्देवान् ध्रुवबेरात् देवीभ्यां सहैवाऽऽवाह्य आसनादीनि पूर्ववद्दत्वा ’योगेयोगे’ त्विति आचमनम्, ’इदमापःशिवा’ इत्यर्घ्यम्, ’इहपुष्टि’रिति कृसरं (पायसं) हविर्निवेद्य सम्पुट (प्रह्वाङ्ग) प्रणामं कुर्यात्। एष विशेषोऽन्यत्सर्वं समानम्।
अच्युतस्य
पश्चिमे अच्युतमर्चयेत्। पूर्ववत्पुष्पन्यासं कृत्वा, परिषद्देवानभ्यर्च्य, देवीभ्यां सहैवावाह्य, आसनादीन् पूर्ववद्दत्वा, ’समाने वृक्ष’ इत्याचमनं, ’नारायणाय विद्महे’ इत्यर्घ्यं, ’समाववर्ती’ति गौल्यं हविर्निवेद्य पञ्चाङ्गप्रणामं कुर्यात्। एष विशेषोऽन्यत्सर्वं समानम्।
अनिरुद्धस्य
उत्तरे अनिरुद्धमर्चयेत्, पूर्ववत्पुष्पन्यासं कृत्वा, परिषद्देवानभ्यर्च्य, ध्रुवबेराद्देवीभ्यां सहैवाऽऽवाह्य, आसनादीन् पूर्ववत् दत्वा, ’पवित्रन्त’ (ऋ॰स॰७-३-८) इत्याचमनं, ’कयानश्चित्र’ (वै॰म॰८) इत्यर्घ्यं, ’त्रीणिपदेति यावकं हविर्निवेद्य, दण्डप्रणामं कुर्यात्। एष विशेषोऽन्यत्सर्वं समम्।
उपरितले चैकबेरोक्तविधिना पुष्पन्यासं कृत्वा, मन्त्रान्ते शयनादिनामभिर्द्रव्यनामभिस्संयोज्याऽर्चयेदेषविशेषोऽन्यत्सर्वं समानम्।
स्नपनोत्सवबलिबेराणि षोडशोपचारैरभ्यर्च्ययेत्, अथवा तानेकादशोपचारैरभ्यर्च्य हविर्निवेदयेत्।
परिषद्देवानष्टोपचारैरभ्यर्च्य हविर्निवेदयेत्।
विधिना बलिमाराध्य बलिबेरेण सहैव आलयप्रदक्षिणं कुर्यात्।
चतुश्चत्वारिंशः पटलः [[२२८]] अर्धयामे चार्चनान्ते ध्रुवबेरे देवं प्रणवेनारोपयेत्।
एकतलप्रासादे पञ्चमूर्त्यर्चनं चेदुपरितलार्चनं विना पञ्चमूर्तीरर्चयेत्।
द्वारेषु यत्र कवाटोऽस्ति तत्र धात्रादीनर्चयेत्। गर्भालयात् द्वारदक्षिणे बलिन्दं, वामे तुहिणं, अलीन्द्रद्वारदक्षिणे मणिकं, वामे प्रभावतीं, मुखमण्टपद्वारदक्षिणे तापसम् उत्तरे सिद्धिदं, सोपानमध्ये श्रीभूतं बहिराननं, देवाभिमुखे गरुडम्।
प्रथमावरणे चन्द्रादीन् तत्तत्स्थाने, इन्द्राग्न्योर्मध्ये गुहम्, यमनीलयोर्मध्ये दुर्गां, नीलवरुणयोर्मध्ये बुधं, वरुणोदानयोर्मध्ये बृहस्पतिं, सोमोदानयोर्मध्ये ब्रह्माणं, सोमेशानयोर्मध्ये विष्वक्सेनम्, ईशानेन्द्रयोर्मध्ये भास्करं, विमानं परितः प्रागादिचतुर्दिक्षु न्यक्षविवस्वन्मित्रक्षत्रॄंश्च।
प्रथमद्वारदक्षिणे किष्किन्धम्, उत्तरे प्रजापतिम्।
द्वितीयद्वारदक्षिणे विघ्नेशम्, उत्तरे नागराजं, देवाभिमुखे चक्रध्वजशङ्खयूथाधिपाऽक्षहन्तॄन् बहिर्मुखान्।
तृतीयावरणद्वारदक्षिणे चक्रम्, उत्तरे शङ्खं, पुष्पसञ्चयस्थाने पुष्परक्षकं, स्नानोदकपानीयसञ्चयस्थाने वरुणं, पचनागारे हवीरक्षकम्।
चतुर्थावरणद्वारे चन्द्रादित्यौ च एतान् पञ्चाशद्देवानर्चयेदित्येके।
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे नवषट्पञ्चमूर्त्यर्चनाविधिर्नाम चतुश्चत्वारिंशः पटलः ॥ ४४ ॥
[[२२९]]