अथ त्रिचत्वारिंशः पटलः
अर्चनार्हपुष्पाणि
अथाऽर्चनाऽर्हपुष्पाणि - जाती चम्पक मल्लिका मालती तुलसी बकपुष्पं द्विकर्णि पद्म रक्तोत्पल कुमुद करवीर नन्द्यावर्त पलाश कर्णिकार मन्दाराऽदसी केतकी बकुलाऽर्जुनपुन्नाग माधवी पिण्डिकानि अन्यानि तरुलताजातानि सौम्यानि सुगन्धीनि दृष्टिप्रियाणि यथार्हं गृह्णीयात्। पुष्पेषु पद्मं प्रवरं तत्सुगन्धिमुख्यम्। तुलस्याः पुष्पं पत्रं च हरेः प्रियं भवति। भूतृणस्थलारविन्दबिल्व शमी दूर्वा त्रिपर्णीबहुकर्णि तमाल सहदेवी शङ्खिनी पत्राणि तापसाङ्कुरम् (कुरोस्तालं) चोपादद्यात्। तुलसीह्रीबेरोशीराणां मूलं च। श्वेतं पुष्पं शान्तिकरं, पीतं पौष्टिकं, कृष्णं वश्यकरं, रक्तद्वेषकरं, रक्तेषु पिण्डितकं पालाशं च, सङ्ग्राह्यम्। बहुवर्णमुत्तमं, द्विवर्णं मध्यमम्, एकवर्णमधमम्, तत्काले प्रफुल्लं शस्तम्, ऐकाहिकं वा त्र्यहातीतं पद्मं वर्ज्यम्। भक्त आचम्य प्रणम्य, प्रयतः पाणी प्रक्षाल्य, शुद्धे पात्रे पुष्पाण्युक्तानि ’देवस्यत्वे’ति गृह्णीयात्। अलाभे पुष्पोक्तानां पत्रैरङ्कुरैरक्षतैः तोयेन वार्चयेत्॥
[[२१९]]
वर्ज्यपुष्पाणि
कुसुम्भजपाकिंशुकादीनि निर्गुण्ड्यर्कादीन्यन्यानि चोग्रगन्धानि अनुक्तानि सर्वाणि च वर्जयेत्। पुराणं शुष्कं शीर्णं नखरोमादियुक्तं लङ्घितं सलेपं निर्माल्यसंस्पृष्टं पूतिगन्धं श्मशानचण्डालाद्यावाससमीपोद्भवं मुखवायुगतं नरैर्गवाद्यैराघ्रातं च सर्वं त्यजेत्। भ्रमरैराघ्रातं लम्बितं च अनिन्दितं भवति।
सर्वेभ्यः सौवर्णं श्रेष्ठं तत्सदा शुद्धं न जातु च निर्माल्यं भवेत्। सौवर्णं पुष्पमाभरणं मणिमुक्तामयं पुष्पं च नित्यं प्रक्षाल्य आदाय पुनः पुनरर्चयेत्॥
हविर्विधिः
अथ हविर्विधिं वक्ष्ये - द्वितीयावरणे प्रथमे वा, आग्नेय्यां पचनालयं यथाशक्ति कारयित्वा, चुल्लीं कारयेत्। वेणुक्यान् यवान् षष्ठिकान्। नीवारान् प्रियङ्गुश्यामाकान् व्रीहीन्वापि एकजातीयान् चतुर्वर्णैरेवानयेत्। एतेषां पूर्वं पूर्वं श्रेष्ठम्। तस्मात् वरककोद्रवादिकु(क्रूर)धान्यानि प्रतिलोमानि तानि च वर्जयेत्। शुद्धे देशे कटेषु वस्त्रेषु वा धान्यानि आस्तीर्य शोषयेत्। उलूखलमुसलौ प्रक्षाल्य, उलूखले हरिणीं, मुसले विष्णुमभ्यर्च्य, उलूखले धान्यानि प्रक्षिप्य, धान्येषु सोममभ्यर्च्य, आचार्यः ’अतोदेवा’दिना किञ्चिदवघातं कृत्वा, ततः शुद्धाभिः स्त्रीभिः पुरुषैर्वा स्वेदरोमादीन् परिहृत्य, अवघातं कारयेत् ’निरस्त’ मिति शूर्पे प्रक्षिप्य, तुषाश्मकणादीन् संशोध्य, तण्डुलान् शुद्धान् ’आपोहिष्ठे’ ति प्रोक्ष्य, शुद्धेपात्रे ’देवस्यत्वे’ति गृह्णाति। विष्णोः द्रोणं हविरुत्तमं, द्रोणार्धं मध्यमं, आढकमधमं देव्योराढकं तदर्धं वा, परिवाराणां द्विप्रस्थैः, प्रस्थाधिकैर्वा तण्डुलैः प्रोक्तम्॥
माषादिलक्षणम्
अष्टतिलं माषम् अष्टमाषं शाणं, विंशतिशाणं निष्कं, तिलाष्टकं शाणं, तदष्टकं माषमिति भृगुः। दशनिष्कं पलम्, अष्टनिष्कमिति केचित्।
चतुष्पलं कुडुबं, चतुष्कुडुबं प्रस्थं, चतुष्प्रस्थमाढकं, चतुराढकं द्रोणं भवति।
त्रिचत्वारिंशः पटलः [[२२०]]
हविर्निर्वापः
लोहमयीं मृण्मयीं वा स्थालीं गृह्णीयात्। मृण्मयीं पक्षे अतीते विसर्जयेत्।
मासेऽतीत इति केचित्। ’प्रजास्थाली’ (वै॰म॰३) मिति स्थालीं प्रक्षाल्य, ’देवस्यत्वे’ति तण्डुलान् प्रक्षिप्य, शुद्धाभिरद्भिः ’आप उन्दन्त्वि’ति चतुः प्रक्षाल्य, ’विष्णवे जुष्ट’ मिति चुल्यां स्थालीमारोप्य, इन्धनैर्निर्धूमैस्समेनाऽग्निना ’वाचस्पतये पवस्वे’ (वै॰म॰प्र॰३) ति पचेत्। उपदंशान्, कदळीचूतपनस नाळिकेर तिन्त्रिणी कारवल्लीत्रय व्याघ्र शिम्बिभेदबृहतीभेद सिंहीव्याघ्रनखी कर्कन्धूर्वारक कुम्भाण्डकूश्माण्ड कृतबन्धनाऽलर्ककार्कोटकानि सूरणकन्द क्षुद्रकन्द महाकन्द वल्लीकन्द श्रृङ्गिबेरोत्पलकन्द पिण्डि शकुटकन्दादीनि च मरीचिजीरक सर्षपाणि मुद्गाऽऽढककुलत्थतिल्वमाषमसूरकादीनि शाकेषु जीवन्ती रथरसी रक्तबाष्पाणि च अन्यानि हविष्याणीति मन्वाद्यैरुक्तानि यथा लाभमाहरेत्। कोशातकीं पटोलीम् अलाबूं च विशेषेण परिवर्जयेत्।
कदल्यादिष्वेकं द्वौत्रींश्चतुरोऽधिकान्वा दोषविहीनान् प्रक्षाल्य, यथायोगं सुगन्धं रससंयुक्तं सुपचेत्।
आढक तण्डुलस्योपदंशं प्रत्येकं षट्पलं, पञ्चपलं, चतुष्पलं वा मुद्गसारं प्रस्थप्रस्थार्धं कुडुबं वा घृतं कुडुबं तदर्धं, गुलमेकपलं, दधिप्रस्थं पादहीनम्, अर्धं वा क्रमुकफलानि षोडश, द्वादशाष्ट, षट्, चत्वारि, द्वे वा, तत्त्रिगुणानि द्विगुणानि वा ताम्बूलपत्राणि, मातुलङ्गैलालवङ्गकर्पूरादि यथालाभं भवेत्, आढकतण्डुलाद्यधिकेप्येवं वर्धयेत्।
प्रभूतमहाहविषोः लक्षणं द्विद्रोणादि षट्द्रोणान्तं प्रभूतं, शतप्रस्थादिसहस्रप्रस्थान्तं महाहविरित्याचक्षते।
[[२२१]]
षड्विधहविर्लक्षणम्
तण्डुलैः केवलैः पक्कं शुद्धान्नं, तण्डुलतुल्यैः अर्धैर्वा मुद्गसारैर्युक्तं मौद्गिकं, तण्डुलत्रिगुणेन पयसा तदर्धजलेन तण्डुलार्धमुद्गसारैर्नालिकेरफलसारैश्च पक्वं पायसं; तण्डुलार्धतिलचूर्णैर्युक्तं कृसरं, तण्डुलाधिकतोयेन त्रिगुणेन पयसा अष्टभागैः पञ्चभागैर्मुद्गसारैस्तण्डुलार्धेन घृतेन गुलेन च युक्तं गौल्यं, तण्डुलार्धैर्यवसारैः पक्वं यावकमिति षड्विधं भवति।
वर्ज्यहविः
द्रोणार्धाधिकमेकपात्रेन पचेत् मासातीते मृद्भाण्डे पचनं न कुर्यात्।
अपक्वं, स्रावितं, गन्धदुष्टं, नासिकाऽऽस्य वायूपहतम्, आघ्रातं, तुषकेशादिसंयुक्तं, विवृतं द्विजादिभ्योऽन्त्यजातिदृष्टं स्वेदस्पृष्टं, लङ्घितं, यामातीतं, पात्राऽन्तरगतं, शीतं, हविरुपदंशं च वर्जनीयम्। अन्यपात्रगतं पुनः पाकार्हमुपदंशादि न वर्जनीयम्॥
हविरानयनादि
स्थालीबाह्यमद्भिः संशोध्य, ऊर्ध्वपुण्ड्रं कृत्वा, वारुणमन्त्रैर्जलसेकं कृत्वा, दक्षिणोत्तरपाणिभ्यां हविः प्रणवेनोद्धृत्य, शङ्खध्वनिसमन्वितमानीय, आलयस्योत्तरे पार्श्वे विष्णुगायात्र्या निधाय विधिवन्निवेदयेत्॥
हविष्षु उत्तरोत्तरश्रैष्ठ्यं निवेदितान्नविनियोगश्च शुद्धान्नान्मौद्गिकं मुख्यं तस्मात्कृसरं, ततःपायसं, ततो यावकं, तस्माद्गौल्यम्, श्रेष्ठं हविःश्रेष्ठफलं स्यात्, तस्मिन्नधिकेऽप्यधिकम्, नित्यमेवं हविर्दाने फलमनन्तं प्राप्नोति। विधिनैव भक्तियुक्तो येन कामेन वा विष्णोर्देवेशस्य यो हविर्दद्यात् तत्सर्वं सम्पूर्णम् असंशयं लभेत। तत्तत् स्थाली शेषमाचार्याय दद्यात्, अर्चकाय वा, देवस्य निवेदितमन्नादिसर्वमाचार्याय त्रिचत्वारिंशः पटलः [[२२२]] दद्यात्। तन्नान्यैःग्रहीतव्यम्, अन्यथा चेद्भगवान् क्रुद्धो भवेत्, हविर्देवो न गृह्णाति, सर्वं निष्फलं स्यात्।
देवेशस्य निवेदितं सर्वं शुद्धं हि तत्सर्वेषां सुरमुनिमनुजानां भोज्यं, यथा गुरोरुच्छिष्टं पुत्रभृत्यानां भोज्यं तथा सर्वेषां गुरोर्विष्णोरुच्छिष्टं देवानां मुनीनां च निवेदनीयं तस्माद्वैश्वदेवबलिहरणे च योग्यं स्यात्, मनुष्येषु द्विजातीनां भोज्यमेव, तस्मादाचार्यादयो विष्णोः निवेदितभोजनादेव सर्वपापविनिर्मुक्ताः पूतकायास्सर्वकर्मस्वधिकारिणो भवेयुः, शूद्रादिषु च वैष्णवानां भोक्तव्यम्, अन्यदेवानां निवेदितं तदर्चकानां तद्भक्तानां च भोज्यं, द्विजैर्भुक्तं चेच्चान्द्रायणं प्रायश्चित्तं भवेदित्याह मरीचिः॥
इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे पुष्पहविर्दानं नाम त्रिचत्वारिंशः पटलः ॥ ४३ ॥