०४२ उपचारभेदसन्ध्याघटिकाविधिः

अथ द्विचत्वारिंशः पटलः

बलिविधिः

बलिपात्रलक्षणम्

अथ बलिविधिं वक्ष्ये - सौवर्णं, राजतं, कांस्यं वा, बलिपात्रम् आचार्यहस्तेन त्रिंशदङ्गुलविस्तारं, भुवङ्गाऽर्धविस्तारं वा, समवृत्तं, तत्परित एकाङ्गुलोन्नतं, सीमावृत्तं तन्मध्ये पद्मस्य कर्णिकावदष्टाङ्गुलोन्नतं, वृत्तं, तप्तरितो द्व्यङ्गुलायतैरष्टदलैर्युक्तं, कारयेत्।

द्विप्रस्थैः शुद्धैस्तण्डुलैश्च रूपं पक्त्वा, पात्रं प्रक्षाल्य, अधिदैवं बलिरक्षकमभ्यर्च्य, संशोध्य, चरुं प्रक्षिप्य, अभिघार्य, अन्नं सम्मर्द्य, कर्णिकाकारे द्वादशाऽङ्गुलं, दशाऽङ्गुलमष्टाऽङ्गुलं वा, उन्नतं; मूले द्विगुणपरिणाहम्; अग्रे अर्धपरिणाहम् एवं बलिं कृत्वा, देवाभिमुखे निधाय, पूर्ववत्कौतुकाद्बलौ देवं ध्यात्वा, ’योगेशं, परब्रह्माणं, परमात्मानं, भक्तवत्सलमिति मन्त्रैस्समाऽऽवाह्याऽऽसनाद्यैरेकादशोपचारैरर्चयेत्। उत्तमे त्रिकालेष्वन्नबलिं, मध्यमे प्रातर्मध्याह्नयोः अधमे मध्याह्न एव, सायम्प्रातः अन्नाभावे अक्षतं कुडपं यथालाभं वा, पात्रे निधाय अक्षते देवमाराध्यार्चयेत्। गणिकादेवदासीर्वा (आहूय, नृत्तमण्डपमध्ये मण्डलमुपलिप्य, अप्सरसश्चावाह्य, अभ्यर्च्य, ता अप्सरसस्स्मृत्वा, प्रोक्ष्य, पुष्पं दत्वा, नृत्तगेयं च कारयेत्।) पश्चाच्छिष्यमाहूय, कटकाङ्गुलीयोष्णीषोत्तरीयाऽऽभरणादिभिरलङ्कृत्य गरुडं बुध्वा, आराध्य, अतोदेवा’ दिना देवमनुमान्य, ’उद्यन्त’मिति बलिमुद्धृत्य, ’देवस्यत्वे’ति शिष्यस्य शिरसि स्थापयेत्; व्यजनैर्धूपदीपैर्हेमादि परिच्छदैर्वितानादिभिर्यथाशक्त्यलङ्कारैर्भक्तैश्च सहितो गच्छेत्। ततादिवाद्यघोष समायुक्त दिक्ष्वष्टासु नृत्तगेयं च कारयेत्।

द्विचत्वारिंशः पटलः [[२१६]] आवरणद्वयाधिके सर्वेषु प्रथमादि प्रत्येकं सकृत्, द्वितीये त्रिः, प्रथमे त्रिरेव वा, प्रथमे सकृत्, द्वितीये द्विरित्येके। ’प्रतद्विष्णु’रिति प्रदक्षिणं कारयेत्। अन्तःप्रविश्य, भूतवीशान्तरे तिष्ठन् पादौ प्रक्षालयेत् अर्चको हस्ताभ्यां बलिमादाय, देवाऽभिमुखे न्यस्य, कौतुके देवमोङ्कारेण समारोपयेत्।

बल्यग्रमादाय विष्वक्सेनाय दत्वा, तच्छेषं भूतपीठे सोदकं क्षिपेत् नित्योत्सवमिच्छन् बलिबेरमाराध्य, हविर्निवेद्य, शिष्यस्य शिरसि स्थापयित्वा, बल्यग्रतो नयेत्। अथवा शिबिकायां गरुडं बुद्ध्वाऽऽराध्य, देवं समारोप्य, पूर्वोक्तगुणसम्पन्नैश्शिष्यैर्वाहयित्वा, सर्वालङ्कारसंयुक्तं, बलिना सह पूर्ववत्प्रदक्षिणं कारयेत्। पश्चादभ्यन्तरं प्रविश्य, अलङ्कृते मण्टपे पीठे देवं सन्न्यस्य पाद्याद्यर्घ्यान्तमभ्यर्च्य, नीराजनं कृत्वा, नृत्तगेयवाद्यैर्विनोदं कारयित्वा, पूर्ववत्पादुकार्चनं कृत्वा, अभ्यन्तरे देवं संस्थापयेत्, एवं नित्योत्सवं त्रिसन्ध्यं सायं प्रातर्वा कुर्यात्। नित्योत्सवेन महोत्सवफलं लभेत, भगवान् प्रीतो भवेत्। राज्ञो राष्ट्रस्य बलवृद्धिर्भवति। बलिभ्रमणकाले ये सेवन्ते ते सर्वे पदे पदे यज्ञफलं लभेरन्। नवषट्पञ्चमूर्तिविमाने विष्णोरादिमूर्तेरेव बलिमाचरेत्।

उपचारभेदाः

अथार्चनाङ्गोपचारान् वक्ष्ये - उपचारोविग्रहश्चैकार्थौ भवतः, आसन-

स्वागताऽनुमान-पाद्याऽऽचमन-पुष्प-गन्ध-धूप-दीपाऽर्घ्याऽऽचमन-स्नान-

प्लोत-वस्त्रोत्तरीय-यज्ञोपवीत-पाद्याऽऽचमन-पुष्प-गन्ध-धूप-दीपाचमन-

हविःपानीयाचमन-मुखवास-बलि-प्रणाम-प्रदक्षिणाः पुष्पाञ्जलिसहिता स्तुतिश्चेति द्वात्रिंशदुपचाराः एते नृत्तगेय संयुक्ता उत्तमोत्तममित्याहुः॥

मुखवासान्ताः प्रणामदक्षिणायुता नवविंशत्युपचाराः; मुखवासान्ताः दक्षिणायुताः अष्टाविंशत्युपचाराः, अर्घ्याचमनान्ताः प्रणामदक्षिणायुताः [[२१७]] त्रयोदशोपचाराः। अर्घ्याचमनान्ताः एकादशोपचाराः, पाद्याद्यर्घ्याचमनान्ताः अष्टोपचाराः, पुष्पाद्यर्घ्याचमनान्ताः षडुपचाराः, पुष्पदानं प्रणामश्च द्वावुपचारौ, प्रणामः एकोपचाराः।

त्रयोदशविग्रहानाम् आदौ प्रधानमावाहनम्, अन्ते विसर्गश्च, आस्नपनं च कुर्यात्। सर्वत्रैकोपचारः द्वावुपचारौ च, होमे षडुपचारान्, स्नपने अष्टोपचारान्, हविषि हीने त्रयोदशोपचारान्, अष्टोपचारान्वा, हविषि लब्धे अष्टाविंशत्युपचारान् नवविंशत्युपचारान् वा, विमानार्चनायामेव द्वात्रिंशदुपचारान् कुर्यात्। अथवा हविषि लब्धेऽपि षोडशोपचारान् कुर्यात्॥

षोडशोपचारपरिगणनम्

आसनस्नानवस्राद्यलङ्कारपाद्याऽऽचमनपुष्पगन्धधूपदीपाऽर्घ्याऽऽचमन-

हविःपानीयाऽऽचमनमुखवासदक्षिणा इति षोडशोपचारा भवन्ति॥

घटिकाविधानम्

अथ सन्ध्याघटिकाविधानम् - अर्कोदयान्मध्याह्नादस्तमयाच्च घटिका द्वादशादिचतुरन्तं नवधा भवति॥ उदयात्पूर्वे घटिकात्रये प्रबोधवाद्यं घोषयति, तत्काले अर्चकाः परिचारकाश्चोत्थाय, स्नानसन्ध्योपासनादीनि कुर्युः उदयात्पूर्वे च एकघटिकायां कवाटोद्घाटनं कृत्वा, दीपसन्दीपनमार्जनोपलेपनादि कृत्वा, उदये देवं प्रणम्य, निर्माल्यशोधनं कृत्वा, पश्चादेकघटिकायां पात्रादिशुद्धिर्द्रव्यशुद्धिः द्रव्यसम्भारं कृत्वा, ततोद्वये स्नानं पश्चात्त्रये हविरन्तमर्चनं यवनिकोद्धरणं च ततश्चैकघटिकायां नीराजनकरणं, ततो घटिकाद्वये नृत्तगेयादिविनोदकरणं, ततश्चैकघटिकायां महाहविर्निवेदनं, होमं बलिप्रदानं च, पश्चादेकघटिकायां बल्युद्धरणं, पश्चादेकघटिकायां प्रणामादिपुष्पाञ्जलिप्रदानं, कवाटबन्धनं च कुर्यात्। मध्याह्नसाययोश्च घटिकाचतुष्टये विनोदकरणमिति विशेषः एतदुत्तमोत्तममिति।

द्विचत्वारिंशः पटलः [[२१८]] अर्चनानां घटिकाविहीनानां स्नानकाले नीराजनकाले विनोदकाले च युक्त्या सङ्कोचं कारयेत्।

उत्तममध्यमादिनवभेदेषु यत्कर्मविहीनं तद्विलोपयति, अन्यानि कर्माणि तत्तद्भेदस्योक्तनाडिकायां युक्त्या संयोज्य कारयेत्। हविर्हीने सर्वत्रघटिकाचतुष्टयमेव घटिकात्रयं त्रिपादश्चेति केचित्। सर्वत्र सन्ध्यासु याममेव समाचरेदित्येके॥

इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे बलिविधिः उपचारभेदसन्ध्याघटिकाविधिर्नाम द्विचत्वारिंशः पटलः ॥ ४२ ॥